LiPur, 1, 50
Select a line for its word-by-word analysis.
तस्य प्राच्यां कुमुदाद्रिकूटोऽसौ बहुविस्तरः ॥ (१।३)
tasya prācyāṃ kumudādrikūṭo'sau bahuvistaraḥ ||
अष्टौ पुराण्युदीर्णानि दानवानां द्विजोत्तमाः । (२।१)
aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ |
हयाननानां मुख्यानां किन्नराणां च सुव्रताः । (४।१)
hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ |
वैकुण्ठे गरुडः श्रीमान् करञ्जे नीललोहितः । (५।१)
vaikuṇṭhe garuḍaḥ śrīmān karañje nīlalohitaḥ |
आदित्याश् च तथा रुद्राः कृतावासास्तथाश्विनौ । (८।१)
ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau |
ताम्राभे काद्रवेयाणां विशाखे तु गुहस्य वै ॥ (१०।२)
tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai ||
श्वेतोदरे मुनिश्रेष्ठाः सुपर्णस्य महात्मनः । (११।१)
śvetodare muniśreṣṭhāḥ suparṇasya mahātmanaḥ |
कृष्णे गन्धर्वनिलयः पाण्डुरे पुरसप्तकम् ॥ (१२।२)
kṛṣṇe gandharvanilayaḥ pāṇḍure purasaptakam ||
विद्याधराणां विप्रेन्द्रा विश्वभोगसमन्वितम् । (१३।१)
vidyādharāṇāṃ viprendrā viśvabhogasamanvitam |
पुराणां तु सहस्राणि सप्त शक्रारिणां द्विजाः । (१४।१)
purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ |
तक्षके चैव शैलेन्द्रे चत्वार्यायतनानि च ॥ (१५।२)
takṣake caiva śailendre catvāryāyatanāni ca ||
ब्रह्मेन्द्रविष्णुरुद्राणां गुहस्य च महात्मनः । (१६।१)
brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ |
कुबेरस्य च सोमस्य तथान्येषां महात्मनाम् ॥ (१६।२)
kuberasya ca somasya tathānyeṣāṃ mahātmanām ||
श्रीकण्ठस्याधिपत्यं वै सर्वदेवेश्वरस्य च । (१८।१)
śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca |
अण्डस्यास्य प्रवृत्तिस्तु श्रीकण्ठेन न संशयः ॥ (१८।२)
aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ ||
अनन्तेशादयस्त्वेवं प्रत्येकं चाण्डपालकाः । (१९।१)
ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ |
चक्रवर्तिन इत्युक्तास्ततो विद्येश्वरास्त्विह ॥ (१९।२)
cakravartina ityuktāstato vidyeśvarāstviha ||
श्रीकण्ठाधिष्ठितान्यत्र स्थानानि च समासतः । (२०।१)
śrīkaṇṭhādhiṣṭhitānyatra sthānāni ca samāsataḥ |
मर्यादापर्वतेष्वद्य शृण्वन्तु प्रवदाम्य् अहम् ॥ (२०।२)
maryādāparvateṣvadya śṛṇvantu pravadāmy aham ||
श्रीकण्ठाधिष्ठितं विश्वं चराचरमिदं जगत् । (२१।१)
śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat |
कालाग्निशिवपर्यन्तं कथं वक्ष्ये सविस्तरम् ॥ (२१।२)
kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram ||
इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनविन्यासोद्देशस्थानवर्णनं नाम पञ्चाशत्तमो ऽध्यायः ॥ (२२।१)
iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.