LiPur, 2, 30
Select a line for its word-by-word analysis.
पूर्वोक्तस्थानकाले तु कृत्वा सम्पूज्य यत्नतः ॥ (१।३)
pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ ||
अद्भिः संप्रोक्ष्य पश्चाद्धि तिलांस्त्वस्मिन्विनिक्षिपेत् । (३।१)
adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet |
पञ्चगव्येन तं देशं प्रोक्षयेद्ब्राह्मणोत्तमः ॥ (३।२)
pañcagavyena taṃ deśaṃ prokṣayedbrāhmaṇottamaḥ ||
नववस्त्रैश्च संस्थाप्य रम्यपुष्पैर्विकीर्य च ॥ (४।२)
navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca ||
दण्डतुल्यं कनिष्ठं स्याद्दण्डहीनं न कारयेत् ॥ (६।२)
daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet ||
वेष्टयित्वा नवैर्वस्त्रैः परितः पूजयेत्क्रमात् । (७।१)
veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt |
सद्यादीनि प्रविन्यस्य पूजयेद्विधिपूर्वकम् ॥ (७।२)
sadyādīni pravinyasya pūjayedvidhipūrvakam ||
अष्टदिक्षु च कर्तव्याः पूर्वोक्ता मूर्तयः क्रमात् । (८।१)
aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt |
त्रिनिष्केन सुवर्णेन प्रत्येकं कारयेत्क्रमात् ॥ (८।२)
triniṣkena suvarṇena pratyekaṃ kārayetkramāt ||
होमश्च पूर्ववत् प्रोक्तो यथावन्मुनिसत्तमाः ॥ (९।२)
homaśca pūrvavat prokto yathāvanmunisattamāḥ ||
एवं तिलनगः प्रोक्तः सर्वस्मादधिकः परः ॥ (१३।१)
evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ ||
इति श्रीलिङ्गमहापुराणे उत्तरभागे तिलपर्वतदानं नाम त्रिंशो ऽध्यायः ॥ (१४।१)
iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.