लिङ्गपुराणLiṅgapurāṇa

LiPur, 1, 83

83 of 163 · 111 verses

Select a line for its word-by-word analysis.

1.1१.१

ऋषय ऊचुः । (१।१)

ṛṣaya ūcuḥ |

1.2१.२

व्यपोहनस्तवं पुण्यं श्रुतमस्माभिर् आदरात् । (१।२)

vyapohanastavaṃ puṇyaṃ śrutamasmābhir ādarāt |

1.3१.३

प्रसंगाल्लिङ्गदानस्य व्रतान्यपि वदस्व नः ॥ (१।३)

prasaṃgālliṅgadānasya vratānyapi vadasva naḥ ||

2.1२.१

सूत उवाच । (२।१)

sūta uvāca

2.2२.२

व्रतानि वः प्रवक्ष्यामि शुभानि मुनिसत्तमाः । (२।२)

vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ |

2.3२.३

नन्दिना कथितानीह ब्रह्मपुत्राय धीमते ॥ (२।३)

nandinā kathitānīha brahmaputrāya dhīmate ||

3.1३.१

तानि व्यासादुपश्रुत्य युष्माकं प्रवदाम्यहम् । (३।१)

tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham |

3.2३.२

अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ (३।२)

aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi ||

4.1४.१

वर्षमेकं तु भुञ्जानो नक्तं यः पूजयेच्छिवम् । (४।१)

varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam |

4.2४.२

सर्वयज्ञफलं प्राप्य स याति परमां गतिम् ॥ (४।२)

sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim ||

5.1५.१

पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु मानवः । (५।१)

pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ |

5.2५.२

अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ॥ (५।२)

ahorātreṇa caikena trirātraphalamaśnute ||

6.1६.१

द्वयोर् मासस्य पञ्चम्योर्द्वयोः प्रतिपदोर्नरः । (६।१)

dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ |

6.2६.२

क्षीरधाराव्रतं कुर्यात् सोऽश्वमेधफलं लभेत् ॥ (६।२)

kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet ||

7.1७.१

कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी । (७।१)

kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī |

7.2७.२

भुञ्जन्भोगानवाप्नोति ब्रह्मलोकं च गच्छति ॥ (७।२)

bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati ||

8.1८.१

योऽब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु । (८।१)

yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu |

8.2८.२

ब्रह्मचारी जितक्रोधः शिवध्यानपरायणः ॥ (८।२)

brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ ||

9.1९.१

संवत्सरान्ते विप्रेन्द्रान् भोजयेद्विधिपूर्वकम् । (९।१)

saṃvatsarānte viprendrān bhojayedvidhipūrvakam |

9.2९.२

स याति शाङ्करं लोकं नात्र कार्या विचारणा ॥ (९।२)

sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā ||

10.1१०.१

उपवासात् परं भैक्ष्यं भैक्ष्यात् परम् अयाचितम् । (१०।१)

upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam |

10.2१०.२

अयाचितात् परं नक्तं तस्मान् नक्तेन वर्तयेत् ॥ (१०।२)

ayācitāt paraṃ naktaṃ tasmān naktena vartayet ||

11.1११.१

देवैर्भुक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस् तथा । (११।१)

devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā |

11.2११.२

अपराह्णे च पितृभिः संध्यायां गुह्यकादिभिः ॥ (११।२)

aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ ||

12.1१२.१

सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम् । (१२।१)

sarvavelāmatikramya naktabhojanamuttamam |

12.2१२.२

हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥ (१२।२)

haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam ||

13.1१३.१

अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत् । (१३।१)

agnikāryamadhaḥśayyāṃ naktabhojī samācaret |

13.2१३.२

प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम् ॥ (१३।२)

pratimāsaṃ pravakṣyāmi śivavratamanuttamam ||

14.1१४.१

धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये । (१४।१)

dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye |

14.2१४.२

पुष्यमासे च सम्पूज्य यः कुर्यान्नक्तभोजनम् ॥ (१४।२)

puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam ||

15.1१५.१

सत्यवादी जितक्रोधः शालिगोधूमगोरसैः । (१५।१)

satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ |

15.2१५.२

पक्षयोरष्टमीं यत्नादुपवासेन वर्तयेत् ॥ (१५।२)

pakṣayoraṣṭamīṃ yatnādupavāsena vartayet ||

16.1१६.१

भूमिशय्यां च मासान्ते पौर्णमास्यां घृतादिभिः । (१६।१)

bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ |

16.2१६.२

स्नाप्य रुद्रं महादेवं सम्पूज्य विधिपूर्वकम् ॥ (१६।२)

snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam ||

17.1१७.१

यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः । (१७।१)

yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ |

17.2१७.२

भोजयेद् ब्राह्मणाञ्शिष्टाञ्जपेच्छान्तिं विशेषतः ॥ (१७।२)

bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ ||

18.1१८.१

तथा गोमिथुनं चैव कपिलं विनिवेदयेत् । (१८।१)

tathā gomithunaṃ caiva kapilaṃ vinivedayet |

18.2१८.२

भवाय देवदेवाय शिवाय परमेष्ठिने ॥ (१८।२)

bhavāya devadevāya śivāya parameṣṭhine ||

19.1१९.१

स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम् । (१९।१)

sa yāti muniśārdūla vāhneyaṃ lokamuttamam |

19.2१९.२

भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते ॥ (१९।२)

bhuktvā sa vipulān lokān tatraiva sa vimucyate ||

20.1२०.१

माघमासे तु सम्पूज्य यः कुर्यान् नक्तभोजनम् । (२०।१)

māghamāse tu sampūjya yaḥ kuryān naktabhojanam |

20.2२०.२

कृशरं घृतसंयुक्तं भुञ्जानः संयतेन्द्रियः ॥ (२०।२)

kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ ||

21.1२१.१

सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः । (२१।१)

sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ |

21.2२१.२

रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकम्बलम् ॥ (२१।२)

rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam ||

22.1२२.१

कृष्णं गोमिथुनं दद्यात्पूजयेच्चैव शंकरम् । (२२।१)

kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram |

22.2२२.२

भोजयेद्ब्राह्मणांश्चैव यथाविभवविस्तरम् ॥ (२२।२)

bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram ||

23.1२३.१

याम्यमासाद्य वै लोकं यमेन सह मोदते । (२३।१)

yāmyamāsādya vai lokaṃ yamena saha modate |

23.2२३.२

फाल्गुने चैव सम्प्राप्ते कुर्याद्वै नक्तभोजनम् ॥ (२३।२)

phālgune caiva samprāpte kuryādvai naktabhojanam ||

24.1२४.१

श्यामाकान्नघृतक्षीरैर्जितक्रोधो जितेन्द्रियः । (२४।१)

śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ |

24.2२४.२

चतुर्दश्यामथाष्टम्यामुपवासं च कारयेत् ॥ (२४।२)

caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet ||

25.1२५.१

पौर्णमास्यां महादेवं स्नाप्य सम्पूज्य शङ्करम् । (२५।१)

paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram |

25.2२५.२

दद्याद्गोमिथुनं वापि ताम्राभं शूलपाणये ॥ (२५।२)

dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye ||

26.1२६.१

ब्राह्मणान् भोजयित्वा तु प्रार्थयेत्परमेश्वरम् । (२६।१)

brāhmaṇān bhojayitvā tu prārthayetparameśvaram |

26.2२६.२

स याति चन्द्रसायुज्यं नात्र कार्या विचारणा ॥ (२६।२)

sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā ||

27.1२७.१

चैत्रेऽपि रुद्रमभ्यर्च्य कुर्याद्वै नक्तभोजनम् । (२७।१)

caitre'pi rudramabhyarcya kuryādvai naktabhojanam |

27.2२७.२

शाल्यन्नं पयसा युक्तं घृतेन च यथासुखम् ॥ (२७।२)

śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham ||

28.1२८.१

गोष्ठशायी मुनिश्रेष्ठाः क्षितौ निशि भवं स्मरेत् । (२८।१)

goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret |

28.2२८.२

पौर्णमास्यां शिवं स्नाप्य दद्याद्गोमिथुनं सितम् ॥ (२८।२)

paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam ||

29.1२९.१

ब्राह्मणान् भोजयेच्चैव निरृतेः स्थानमाप्नुयात् । (२९।१)

brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt |

29.2२९.२

वैशाखे च तथा मासे कृत्वा वै नक्तभोजनम् ॥ (२९।२)

vaiśākhe ca tathā māse kṛtvā vai naktabhojanam ||

30.1३०.१

पौर्णमास्यां भवं स्नाप्य पञ्चगव्यघृतादिभिः । (३०।१)

paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ |

30.2३०.२

श्वेतं गोमिथुनं दत्त्वा सोऽश्वमेधफलं लभेत् ॥ (३०।२)

śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet ||

31.1३१.१

ज्येष्ठे मासे च देवेशं भवं शर्वमुमापतिम् । (३१।१)

jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim |

31.2३१.२

सम्पूज्य श्रद्धया भक्त्या कृत्वा वै नक्तभोजनम् ॥ (३१।२)

sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam ||

32.1३२.१

रक्तशाल्यन्नमध्वा चाद्भिः पूतं घृतादिभिः । (३२।१)

raktaśālyannamadhvā cādbhiḥ pūtaṃ ghṛtādibhiḥ |

32.2३२.२

वीरासनो निशार्धं च गवां शुश्रूषणे रतः ॥ (३२।२)

vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ ||

33.1३३.१

पौर्णमास्यां तु सम्पूज्य देवदेवमुमापतिम् । (३३।१)

paurṇamāsyāṃ tu sampūjya devadevamumāpatim |

33.2३३.२

स्नाप्य शक्त्या यथान्यायं चरुं दद्याच् च शूलिने ॥ (३३।२)

snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline ||

34.1३४.१

ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् । (३४।१)

brāhmaṇān bhojayitvā ca yathāvibhavavistaram |

34.2३४.२

धूम्रं गोमिथुनं दत्त्वा वायुलोके महीयते ॥ (३४।२)

dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate ||

35.1३५.१

आषाढे मासि चाप्येवं नक्तभोजनतत्परः । (३५।१)

āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ |

35.2३५.२

भूरिखण्डाज्यसंमिश्रं सक्तुभिश्चैव गोरसम् ॥ (३५।२)

bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam ||

36.1३६.१

पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि । (३६।१)

paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi |

36.2३६.२

ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् ॥ (३६।२)

brāhmaṇān bhojayitvā ca śrotriyān vedapāragān ||

37.1३७.१

दद्याद्गोमिथुनं गौरं वारुणं लोकमाप्नुयात् । (३७।१)

dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt |

37.2३७.२

श्रावणे च द्विजा मासे कृत्वा वै नक्तभोजनम् ॥ (३७।२)

śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam ||

38.1३८.१

क्षीरषष्टिकभक्तेन सम्पूज्य वृषभध्वजम् । (३८।१)

kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam |

38.2३८.२

पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ॥ (३८।२)

paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi ||

39.1३९.१

ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् । (३९।१)

brāhmaṇān bhojayitvā ca śrotriyān vedapāragān |

39.2३९.२

श्वेताग्रपादं पौण्ड्रं च दद्याद्गोमिथुनं पुनः ॥ (३९।२)

śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ ||

40.1४०.१

स याति वायुसायुज्यं वायुवत्सर्वगो भवेत् । (४०।१)

sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet |

40.2४०.२

प्राप्ते भाद्रपदे मासे कृत्वैवं नक्तभोजनम् ॥ (४०।२)

prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam ||

41.1४१.१

हुतशेषं च विप्रेन्द्रान् वृक्षमूलाश्रितो दिवा । (४१।१)

hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā |

41.2४१.२

पौर्णमास्यां तु देवेशं स्नाप्य सम्पूज्य शङ्करम् ॥ (४१।२)

paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram ||

42.1४२.१

नीलस्कन्धं वृषं गां च दत्त्वा भक्त्या यथाविधि । (४२।१)

nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi |

42.2४२.२

ब्राह्मणान् भोजयित्वा च वेदवेदाङ्गपारगान् ॥ (४२।२)

brāhmaṇān bhojayitvā ca vedavedāṅgapāragān ||

43.1४३.१

यक्षलोकमनुप्राप्य यक्षराजो भवेन्नरः । (४३।१)

yakṣalokamanuprāpya yakṣarājo bhavennaraḥ |

43.2४३.२

ततश्चाश्वयुजे मासि कृत्वैवं नक्तभोजनम् ॥ (४३।२)

tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam ||

44.1४४.१

सघृतं शङ्करं पूज्य पौर्णमास्यां च पूर्ववत् । (४४।१)

saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat |

44.2४४.२

ब्राह्मणान् भोजयित्वा च शिवभक्तान् सदा शुचीन् ॥ (४४।२)

brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn ||

45.1४५.१

वृषभं नीलवर्णाभमुरोदेशसमुन्नतम् । (४५।१)

vṛṣabhaṃ nīlavarṇābhamurodeśasamunnatam |

45.2४५.२

गां च दत्त्वा यथान्यायम् ऐशानं लोकमाप्नुयात् ॥ (४५।२)

gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt ||

46.1४६.१

कार्तिके च तथा मासे कृत्वा वै नक्तभोजनम् । (४६।१)

kārtike ca tathā māse kṛtvā vai naktabhojanam |

46.2४६.२

क्षीरौदनेन साज्येन सम्पूज्य च भवं प्रभुम् ॥ (४६।२)

kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum ||

47.1४७.१

पौर्णमास्यां च विधिवत्स्नाप्य दत्त्वा चरुं पुनः । (४७।१)

paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ |

47.2४७.२

ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् ॥ (४७।२)

brāhmaṇān bhojayitvā ca yathāvibhavavistaram ||

48.1४८.१

दत्त्वा गोमिथुनं चैव कापिलं पूर्ववद् द्विजाः । (४८।१)

dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ |

48.2४८.२

सूर्यसायुज्यमाप्नोति नात्र कार्या विचारणा ॥ (४८।२)

sūryasāyujyamāpnoti nātra kāryā vicāraṇā ||

49.1४९.१

मार्गशीर्षे च मासेऽपि कृत्वैवं नक्तभोजनम् । (४९।१)

mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam |

49.2४९.२

यवान्नेन यथान्यायमाज्यक्षीरादिभिः समम् ॥ (४९।२)

yavānnena yathānyāyamājyakṣīrādibhiḥ samam ||

50.1५०.१

पौर्णमास्यां च पूर्वोक्तं कृत्वा शर्वाय शंभवे । (५०।१)

paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave |

50.2५०.२

ब्राह्मणान् भोजयित्वा च दरिद्रान्वेदपारगान् ॥ (५०।२)

brāhmaṇān bhojayitvā ca daridrānvedapāragān ||

51.1५१.१

दत्त्वा गोमिथुनं चैव पाण्डुरं विधिपूर्वकम् । (५१।१)

dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam |

51.2५१.२

सोमलोकमनुप्राप्य सोमेन सह मोदते ॥ (५१।२)

somalokamanuprāpya somena saha modate ||

52.1५२.१

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया । (५२।१)

ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā |

52.2५२.२

त्रिःस्नानं चाग्निहोत्रं च भूशय्या नक्तभोजनम् ॥ (५२।२)

triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam ||

53.1५३.१

पक्षयोरुपवासं च चतुर्दश्यष्टमीषु च ॥ (५३।१)

pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca ||

54.1५४.१

इत्येतदखिलं प्रोक्तं प्रतिमासं शिवव्रतम् ॥ (५४।१)

ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam ||

55.1५५.१

कुर्याद्वर्षं क्रमेणैव व्युत्क्रमेणापि वा द्विजाः । (५५।१)

kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ |

55.2५५.२

स याति शिवसायुज्यं ज्ञानयोगमवाप्नुयात् ॥ (५५।२)

sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt ||

56.1५६.१

इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवव्रतकथनं नाम त्र्यशीतितमो ऽध्यायः ॥ (५६।१)

iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 1, 83

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit