लिङ्गपुराणLiṅgapurāṇa

LiPur, 1, 81

81 of 163 · 119 verses

Select a line for its word-by-word analysis.

1.1१.१

ऋषय ऊचुः । (१।१)

ṛṣaya ūcuḥ |

1.2१.२

व्रतमेतत्त्वया प्रोक्तं पशुपाशविमोक्षणम् । (१।२)

vratametattvayā proktaṃ paśupāśavimokṣaṇam |

1.3१.३

व्रतं पाशुपतं लैङ्गं पुरा देवैर् अनुष्ठितम् ॥ (१।३)

vrataṃ pāśupataṃ laiṅgaṃ purā devair anuṣṭhitam ||

2.1२.१

वक्तुमर्हसि चास्माकं यथापूर्वं त्वया श्रुतम् । (२।१)

vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam |

2.2२.२

सूत उवाच । (२।२)

sūta uvāca

2.3२.३

पुरा सनत्कुमारेण पृष्टः शैलादिरादरात् ॥ (२।३)

purā sanatkumāreṇa pṛṣṭaḥ śailādirādarāt ||

3.1३.१

नन्दी प्राह वचस्तस्मै प्रवदामि समासतः । (३।१)

nandī prāha vacastasmai pravadāmi samāsataḥ |

3.2३.२

रेसुल्त् ओड़् लिङ्ग wओर्स्हिप्देवैर्दैत्यैस् तथा सिद्धैर्गन्धर्वैः सिद्धचारणैः ॥ (३।२)

result of liṅga worshipdevairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ ||

4.1४.१

मुनिभिश् च महाभागैरनुष्ठितमनुत्तमम् । (४।१)

munibhiś ca mahābhāgairanuṣṭhitamanuttamam |

4.2४.२

व्रतं द्वादशलिङ्गाख्यं पशुपाशविमोक्षणम् ॥ (४।२)

vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam ||

5.1५.१

भोगदं योगदं चैव कामदं मुक्तिदं शुभम् । (५।१)

bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham |

5.2५.२

अवियोगकरं पुण्यं भक्तानां भयनाशनम् ॥ (५।२)

aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam ||

6.1६.१

षडङ्गसहितान् वेदान्मथित्वा तेन निर्मितम् । (६।१)

ṣaḍaṅgasahitān vedānmathitvā tena nirmitam |

6.2६.२

सर्वदानोत्तमं पुण्यमश्वमेधायुताधिकम् ॥ (६।२)

sarvadānottamaṃ puṇyamaśvamedhāyutādhikam ||

7.1७.१

सर्वमङ्गलदं पुण्यं सर्वशत्रुविनाशनम् । (७।१)

sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam |

7.2७.२

संसारार्णवमग्नानां जन्तूनामपि मोक्षदम् ॥ (७।२)

saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam ||

8.1८.१

सर्वव्याधिहरं चैव सर्वज्वरविनाशनम् । (८।१)

sarvavyādhiharaṃ caiva sarvajvaravināśanam |

8.2८.२

देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा ॥ (८।२)

devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā ||

9.1९.१

च्रेअतिओन् ओड़् अ लिङ्गकृत्वा कनीयसं लिङ्गं स्नाप्य चन्दनवारिणा । (९।१)

creation of a liṅgakṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā |

9.2९.२

चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं चरेत् ॥ (९।२)

caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret ||

10.1१०.१

कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम् । (१०।१)

kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam |

10.2१०.२

नवरत्नैश् च खचितम् अष्टपत्रं यथाविधि ॥ (१०।२)

navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi ||

11.1११.१

कर्णिकायां न्यसेल्लिङ्गं स्फाटिकं पीठसंयुतम् । (११।१)

karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam |

11.2११.२

तत्र भक्त्या यथान्यायम् अर्चयेद् बिल्वपत्रकैः ॥ (११।२)

tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ ||

12.1१२.१

सितैः सहस्रकमलै रक्तैर्नीलोत्पलैरपि । (१२।१)

sitaiḥ sahasrakamalai raktairnīlotpalairapi |

12.2१२.२

श्वेतार्ककर्णिकारैश् च करवीरैर्बकैरपि ॥ (१२।२)

śvetārkakarṇikāraiś ca karavīrairbakairapi ||

13.1१३.१

एतैरन्यैर् यथालाभं गायत्र्या तस्य सुव्रताः । (१३।१)

etairanyair yathālābhaṃ gāyatryā tasya suvratāḥ |

13.2१३.२

सम्पूज्य चैव गन्धाद्यैर्धूपैर्दीपैश् च मङ्गलैः ॥ (१३।२)

sampūjya caiva gandhādyairdhūpairdīpaiś ca maṅgalaiḥ ||

14.1१४.१

नीराजनाद्यैश्चान्यैश् च लिङ्गमूर्तिमहेश्वरम् । (१४।१)

nīrājanādyaiścānyaiś ca liṅgamūrtimaheśvaram |

14.2१४.२

अगरुं दक्षिणे दद्यादघोरेण द्विजोत्तमाः ॥ (१४।२)

agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ ||

15.1१५.१

पश्चिमे सद्यमन्त्रेण दिव्यां चैव मनःशिलाम् । (१५।१)

paścime sadyamantreṇa divyāṃ caiva manaḥśilām |

15.2१५.२

उत्तरे वामदेवेन चन्दनं वापि दापयेत् ॥ (१५।२)

uttare vāmadevena candanaṃ vāpi dāpayet ||

16.1१६.१

पुरुषेण मुनिश्रेष्ठा हरितालं च पूर्वतः । (१६।१)

puruṣeṇa muniśreṣṭhā haritālaṃ ca pūrvataḥ |

16.2१६.२

सितागरूद्भवं विप्रास् तथा कृष्णागरूद्भवम् ॥ (१६।२)

sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam ||

17.1१७.१

तथा गुग्गुलुधूपं च सौगन्धिकमनुत्तमम् । (१७।१)

tathā gugguludhūpaṃ ca saugandhikamanuttamam |

17.2१७.२

सितारं नाम धूपं च दद्याद् ईशाय भक्तितः ॥ (१७।२)

sitāraṃ nāma dhūpaṃ ca dadyād īśāya bhaktitaḥ ||

18.1१८.१

महाचरुर्निवेद्यः स्यादाढकान्नमथापि वा । (१८।१)

mahācarurnivedyaḥ syādāḍhakānnamathāpi vā |

18.2१८.२

एतद् वः कथितं पुण्यं शिवलिङ्गमहाव्रतम् ॥ (१८।२)

etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam ||

19.1१९.१

तिमे ड़ोर् थिस् व्रतसर्वमासेषु सामान्यं विशेषोऽपि च कीर्त्यते । (१९।१)

time for this vratasarvamāseṣu sāmānyaṃ viśeṣo'pi ca kīrtyate |

19.2१९.२

वैशाखे वज्रलिङ्गं च ज्येष्ठे मारकतं तथा ॥ (१९।२)

vaiśākhe vajraliṅgaṃ ca jyeṣṭhe mārakataṃ tathā ||

20.1२०.१

आषाढे मौक्तिकं लिङ्गं श्रावणे नीलनिर्मितम् । (२०।१)

āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam |

20.2२०.२

मासि भाद्रपदे लिङ्गं पद्मरागमयं शुभम् ॥ (२०।२)

māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham ||

21.1२१.१

आश्विने चैव विप्रेन्द्राः गोमेदकमयं शुभम् । (२१।१)

āśvine caiva viprendrāḥ gomedakamayaṃ śubham |

21.2२१.२

प्रवालेनैव कार्तिक्यां तथा वै मार्गशीर्षके ॥ (२१।२)

pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake ||

22.1२२.१

मतेरिअल् ड़ोर् अ लिङ्गवैडूर्यनिर्मितं लिङ्गं पुष्परागेण पुष्यके । (२२।१)

material for a liṅgavaiḍūryanirmitaṃ liṅgaṃ puṣparāgeṇa puṣyake |

22.2२२.२

माघे च सूर्यकान्तेन फाल्गुने स्फाटिकेन च ॥ (२२।२)

māghe ca sūryakāntena phālgune sphāṭikena ca ||

23.1२३.१

सर्वमासेषु कमलं हैममेकं विधीयते । (२३।१)

sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate |

23.2२३.२

अलाभे राजतं वापि केवलं कमलं तु वा ॥ (२३।२)

alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā ||

24.1२४.१

रत्नानाम् अप्यलाभे तु हेम्ना वा राजतेन वा । (२४।१)

ratnānām apyalābhe tu hemnā vā rājatena vā |

24.2२४.२

रजतस्याप्यलाभे तु ताम्रलोहेन कारयेत् ॥ (२४।२)

rajatasyāpyalābhe tu tāmralohena kārayet ||

25.1२५.१

शैलं वा दारुजं वापि मृन्मयं वा सवेदिकम् । (२५।१)

śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam |

25.2२५.२

सर्वगन्धमयं वापि क्षणिकं परिकल्पयेत् ॥ (२५।२)

sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet ||

26.1२६.१

हैमन्तिके महादेवं श्रीपत्त्रेणैव पूजयेत् । (२६।१)

haimantike mahādevaṃ śrīpattreṇaiva pūjayet |

26.2२६.२

सर्वमासेषु कमलं हैममेकमथापि वा ॥ (२६।२)

sarvamāseṣu kamalaṃ haimamekamathāpi vā ||

27.1२७.१

राजतं वापि कमलं हैमकर्णिकमुत्तमम् । (२७।१)

rājataṃ vāpi kamalaṃ haimakarṇikamuttamam |

27.2२७.२

राजतस्याप्यभावे तु बिल्वपत्रैः समर्चयेत् ॥ (२७।२)

rājatasyāpyabhāve tu bilvapatraiḥ samarcayet ||

28.1२८.१

सहस्रकमलालाभे तदर्धेनापि पूजयेत् । (२८।१)

sahasrakamalālābhe tadardhenāpi pūjayet |

28.2२८.२

तदर्धार्धेन वा रुद्रमष्टोत्तरशतेन वा ॥ (२८।२)

tadardhārdhena vā rudramaṣṭottaraśatena vā ||

29.1२९.१

ड़्लोwएर् => देइत्य्बिल्वपत्रे स्थिता लक्ष्मीर्देवी लक्षणसंयुता । (२९।१)

flower => deitybilvapatre sthitā lakṣmīrdevī lakṣaṇasaṃyutā |

29.2२९.२

नीलोत्पलेऽंबिका साक्षादुत्पले षण्मुखः स्वयम् ॥ (२९।२)

nīlotpale'ṃbikā sākṣādutpale ṣaṇmukhaḥ svayam ||

30.1३०.१

पद्माश्रितो महादेवः सर्वदेवपतिः शिवः । (३०।१)

padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ |

30.2३०.२

तस्मात्सर्वप्रयत्नेन श्रीपत्त्रं न त्यजेद्बुधः ॥ (३०।२)

tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ ||

31.1३१.१

नीलोत्पलं चोत्पलं च कमलं च विशेषतः । (३१।१)

nīlotpalaṃ cotpalaṃ ca kamalaṃ ca viśeṣataḥ |

31.2३१.२

सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा ॥ (३१।२)

sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā ||

32.1३२.१

कृष्णागरुसमुद्भूतं सर्वपापनिकृन्तनम् । (३२।१)

kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam |

32.2३२.२

गुग्गुलुप्रभृतीनां चैव दीपानां च निवेदनम् ॥ (३२।२)

gugguluprabhṛtīnāṃ caiva dīpānāṃ ca nivedanam ||

33.1३३.१

सर्वरोगक्षयं चैव चन्दनं सर्वसिद्धिदम् । (३३।१)

sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam |

33.2३३.२

सौगन्धिकं तथा धूपं सर्वकामार्थसाधकम् ॥ (३३।२)

saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam ||

34.1३४.१

श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम् । (३४।१)

śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam |

34.2३४.२

सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम् ॥ (३४।२)

saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam ||

35.1३५.१

श्वेतार्ककुसुमे साक्षाच्चतुर्वक्त्रः प्रजापतिः । (३५।१)

śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ |

35.2३५.२

कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता ॥ (३५।२)

karṇikārasya kusume medhā sākṣādvyavasthitā ||

36.1३६.१

करवीरे गणाध्यक्षो बके नारायणः स्वयम् । (३६।१)

karavīre gaṇādhyakṣo bake nārāyaṇaḥ svayam |

36.2३६.२

सुगन्धिषु च सर्वेषु कुसुमेषु नगात्मजा ॥ (३६।२)

sugandhiṣu ca sarveṣu kusumeṣu nagātmajā ||

37.1३७.१

तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः । (३७।१)

tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ |

37.2३७.२

पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः ॥ (३७।२)

pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ ||

38.1३८.१

निवेदयेत्ततो भक्त्या पायसं च महाचरुम् । (३८।१)

nivedayettato bhaktyā pāyasaṃ ca mahācarum |

38.2३८.२

सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम् ॥ (३८।२)

saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam ||

39.1३९.१

शुद्धान्नं वापि मुद्गान्नमाढकं चार्धकं तु वा । (३९।१)

śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā |

39.2३९.२

चामरं तालवृन्तं च तस्मै भक्त्या निवेदयेत् ॥ (३९।२)

cāmaraṃ tālavṛntaṃ ca tasmai bhaktyā nivedayet ||

40.1४०.१

उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि । (४०।१)

upahārāṇi puṇyāni nyāyenaivārjitānyapi |

40.2४०.२

नानाविधानि चार्हाणि प्रोक्षितान्यंभसा पुनः ॥ (४०।२)

nānāvidhāni cārhāṇi prokṣitānyaṃbhasā punaḥ ||

41.1४१.१

निवेदयेच्च रुद्राय भक्तियुक्तेन चेतसा । (४१।१)

nivedayecca rudrāya bhaktiyuktena cetasā |

41.2४१.२

क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम् ॥ (४१।२)

kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam ||

42.1४२.१

विष्णुना जिष्णुना साक्षादन्ने सर्वं प्रतिष्ठितम् । (४२।१)

viṣṇunā jiṣṇunā sākṣādanne sarvaṃ pratiṣṭhitam |

42.2४२.२

भूतानाम् अन्नदानेन प्रीतिर् भवति शङ्करे ॥ (४२।२)

bhūtānām annadānena prītir bhavati śaṅkare ||

43.1४३.१

तस्मात् सम्पूजयेद् देवम् अन्ने प्राणाः प्रतिष्ठिताः । (४३।१)

tasmāt sampūjayed devam anne prāṇāḥ pratiṣṭhitāḥ |

43.2४३.२

उपहारे तथा तुष्टिर्व्यञ्जने पवनः स्वयम् ॥ (४३।२)

upahāre tathā tuṣṭirvyañjane pavanaḥ svayam ||

44.1४४.१

सर्वात्मको महादेवो गन्धतोये ह्यपाम्पतिः । (४४।१)

sarvātmako mahādevo gandhatoye hyapāmpatiḥ |

44.2४४.२

पीठे वै प्रकृतिः साक्षान्महदाद्यैर्व्यवस्थिता ॥ (४४।२)

pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā ||

45.1४५.१

तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि । (४५।१)

tasmāddevaṃ yajedbhaktyā pratimāsaṃ yathāvidhi |

45.2४५.२

पौर्णमास्यां व्रतं कार्यं सर्वकामार्थसिद्धये ॥ (४५।२)

paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye ||

46.1४६.१

सत्यं शौचं दया शान्तिः संतोषो दानमेव च । (४६।१)

satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca |

46.2४६.२

पौर्णमास्याममावास्यामुपवासं च कारयेत् ॥ (४६।२)

paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet ||

47.1४७.१

संवत्सरान्ते गोदानं वृषोत्सर्गं विशेषतः । (४७।१)

saṃvatsarānte godānaṃ vṛṣotsargaṃ viśeṣataḥ |

47.2४७.२

भोजयेद्ब्राह्मणान्भक्त्या श्रोत्रियान् वेदपारगान् ॥ (४७।२)

bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān ||

48.1४८.१

तल् लिङ्गं पूजितं तेन सर्वद्रव्यसमन्वितम् । (४८।१)

tal liṅgaṃ pūjitaṃ tena sarvadravyasamanvitam |

48.2४८.२

स्थापयेद् वा शिवक्षेत्रे दापयेद् ब्राह्मणाय वा ॥ (४८।२)

sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā ||

49.1४९.१

य एवं सर्वमासेषु शिवलिङ्गमहाव्रतम् । (४९।१)

ya evaṃ sarvamāseṣu śivaliṅgamahāvratam |

49.2४९.२

कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः ॥ (४९।२)

kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ ||

50.1५०.१

सूर्यकोटिप्रतीकाशैर्विमानै रत्नभूषितैः । (५०।१)

sūryakoṭipratīkāśairvimānai ratnabhūṣitaiḥ |

50.2५०.२

गत्वा शिवपुरं दिव्यं नेहायाति कदाचन ॥ (५०।२)

gatvā śivapuraṃ divyaṃ nehāyāti kadācana ||

51.1५१.१

अथवा ह्येकमासं वा चरेदेवं व्रतोत्तमम् । (५१।१)

athavā hyekamāsaṃ vā caredevaṃ vratottamam |

51.2५१.२

शिवलोकमवाप्नोति नात्र कार्या विचारणा ॥ (५१।२)

śivalokamavāpnoti nātra kāryā vicāraṇā ||

52.1५२.१

अथवा सक्तचित्तश्चेद्यान्यान् संचिन्तयेद्वरान् । (५२।१)

athavā saktacittaścedyānyān saṃcintayedvarān |

52.2५२.२

वर्षमेकं चरेदेवं तांस्तान्प्राप्य शिवं व्रजेत् ॥ (५२।२)

varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet ||

53.1५३.१

देवत्वं वा पितृत्वं वा देवराजत्वमेव च । (५३।१)

devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca |

53.2५३.२

गाणपत्यपदं वापि सक्तोऽपि लभते नरः ॥ (५३।२)

gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ ||

54.1५४.१

विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् । (५४।१)

vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt |

54.2५४.२

द्रव्यार्थी च निधिं पश्येद् आयुःकामश् चिरायुषम् ॥ (५४।२)

dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam ||

55.1५५.१

यान्यांश्चिन्तयते कामांस्तांस्तान्प्राप्येह मोदते । (५५।१)

yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate |

55.2५५.२

एकमासव्रतादेव सो ऽन्ते रुद्रत्वमाप्नुयात् ॥ (५५।२)

ekamāsavratādeva so 'nte rudratvamāpnuyāt ||

56.1५६.१

इदं पवित्रं परमं रहस्यं व्रतोत्तमं विश्वसृजापि सृष्टम् । (५६।१)

idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam |

56.2५६.२

हिताय देवासुरसिद्धमर्त्यविद्याधराणां परमं शिवेन ॥ (५६।२)

hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena ||

57.1५७.१

सम्पूज्य पूज्यं विधिनैवमीशं प्रणम्य मूर्ध्ना सह भृत्यपुत्रैः । (५७।१)

sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ |

57.2५७.२

व्यपोहनं नाम जपेत्स्तवं च प्रदक्षिणं कृत्य शिवं प्रयत्नात् ॥ (५७।२)

vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt ||

58.1५८.१

पुराकृतं विश्वसृजा स्तवं च हिताय देवेन जगत्त्रयस्य । (५८।१)

purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya |

58.2५८.२

पितामहेनैव सुरैश्च सार्धं महानुभावेन महार्घ्यम् एतत् ॥ (५८।२)

pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat ||

59.1५९.१

इति श्रीलिङ्गमहापुराणे पूर्वभागे पशुपाशविमोचनलिङ्गपूजादिकथनं नामैकाशीतितमो ऽध्यायः ॥ (५९।१)

iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 1, 81

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit