LiPur, 1, 51
Select a line for its word-by-word analysis.
तथान्यैर्मणिमुख्यैश् च निर्मिते निर्मले शुभे । (२।१)
tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe |
निर्झरैः कुसुमाकीर्णैरनेकैश् च विभूषिते ॥ (५।२)
nirjharaiḥ kusumākīrṇairanekaiś ca vibhūṣite ||
स्फाटिकैश् च विचित्रैश् च गोपुरैश् च समन्वितम् ॥ (९।२)
sphāṭikaiś ca vicitraiś ca gopuraiś ca samanvitam ||
क्षितावितस्ततः सम्यक् शर्वेणाधिष्ठितैः शुभैः ॥ (१०।२)
kṣitāvitastataḥ samyak śarveṇādhiṣṭhitaiḥ śubhaiḥ ||
अम्लानमालानिचितैर् नानावर्णैर् गृहोत्तमैः । (११।१)
amlānamālānicitair nānāvarṇair gṛhottamaiḥ |
मण्डपैः सुविचित्रैस्तु स्फाटिकस्तम्भसंयुतैः ॥ (११।२)
maṇḍapaiḥ suvicitraistu sphāṭikastambhasaṃyutaiḥ ||
संयुतं सर्वभूतेन्द्रैर् ब्रह्मेन्द्रोपेन्द्रपूजितैः । (१२।१)
saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ |
गृध्रोलूकमुखैश्चान्यैर् मृगोष्ट्राजमुखैरपि । (१३।१)
gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi |
प्रमथैर्विविधैः स्थूलैर्गिरिकूटोपमैः शुभैः ॥ (१३।२)
pramathairvividhaiḥ sthūlairgirikūṭopamaiḥ śubhaiḥ ||
करालैर्हरिकेशैश् च रोमशैश् च महाभुजैः । (१४।१)
karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ |
नानावर्णाकृतिधरैर् नानासंस्थानसंस्थितैः ॥ (१४।२)
nānāvarṇākṛtidharair nānāsaṃsthānasaṃsthitaiḥ ||
दीप्तास्यैर् दीप्तचरितैर् नन्दीश्वरमुखैः शुभैः । (१५।१)
dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ |
ब्रह्मेन्द्रविष्णुसंकाशैर् अणिमादिगुणान्वितैः ॥ (१५।२)
brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ ||
तत्र भूतपतेर्देवाः पूजां नित्यं प्रयुञ्जते ॥ (१६।२)
tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate ||
झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः । (१७।१)
jharjharaiḥ śaṅkhapaṭahairbherīḍiṇḍimagomukhaiḥ |
पूजितो वै महादेवः प्रमथैः प्रमथेश्वरः । (१८।१)
pūjito vai mahādevaḥ pramathaiḥ pramatheśvaraḥ |
सिद्धर्षिदेवगन्धर्वैर् ब्रह्मणा च महात्मना ॥ (१८।२)
siddharṣidevagandharvair brahmaṇā ca mahātmanā ||
उपेन्द्रप्रमुखैश्चान्यैः पूजितस्तत्र शंकरः । (१९।१)
upendrapramukhaiścānyaiḥ pūjitastatra śaṃkaraḥ |
विभक्तचारुशिखरं यत्र तच्छङ्खवर्चसम् ॥ (१९।२)
vibhaktacāruśikharaṃ yatra tacchaṅkhavarcasam ||
कैलासकैलासो यक्षराजस्य कुबेरस्य महात्मनः । (२०।१)
Kailāsakailāso yakṣarājasya kuberasya mahātmanaḥ |
निवासः कोटियक्षाणां तथान्येषां महात्मनाम् ॥ (२०।२)
nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām ||
जांबूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः । (२३।१)
jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ |
नीलवैडूर्यपत्रैश् च गन्धोपेतैर्महोत्पलैः ॥ (२३।२)
nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ ||
यक्षगन्धर्वनारीभिर् अप्सरोभिश् च सेविता ॥ (२४।२)
yakṣagandharvanārībhir apsarobhiś ca sevitā ||
तस्याश्चोत्तरपार्श्वे तु भवस्यायतनं शुभम् । (२६।१)
tasyāścottarapārśve tu bhavasyāyatanaṃ śubham |
वैडूर्यमणिसम्पन्नं तत्रास्ते शङ्करो ऽव्ययः ॥ (२६।२)
vaiḍūryamaṇisampannaṃ tatrāste śaṅkaro 'vyayaḥ ||
द्विजाः कनकनन्दायास्तीरे वै प्राचि दक्षिणे । (२७।१)
dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe |
तत्रापि सगणः साम्बः क्रीडतेऽद्रिसमे गृहे । (२८।१)
tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe |
नन्दायाः पश्चिमे तीरे किंचिद् वै दक्षिणाश्रिते ॥ (२८।२)
nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite ||
तत्रापि शतधा कृत्वा ह्यात्मानं चाम्बया सह ॥ (२९।२)
tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha ||
क्रीडते सगणः साम्बस् तच्छिवालयम् उच्यते । (३०।१)
krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate |
प्रतिद्वीपे मुनिश्रेष्ठाः पर्वतेषु वनेषु च । (३१।१)
pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca |
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकपञ्चाशत्तमो ऽध्यायः ॥ (३२।१)
iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.