लिङ्गपुराणLiṅgapurāṇa

LiPur, 2, 28

136 of 163 · 207 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

स्नात्वा देवं नमस्कृत्य देवदेवमुमापतिम् । (१।२)

snātvā devaṃ namaskṛtya devadevamumāpatim |

1.3१.३

दिव्येन चक्षुषा रुद्रं नीललोहितमीश्वरम् ॥ (१।३)

divyena cakṣuṣā rudraṃ nīlalohitamīśvaram ||

2.1२.१

दृष्ट्वा तुष्टाव वरदं रुद्राध्यायेन शङ्करम् । (२।१)

dṛṣṭvā tuṣṭāva varadaṃ rudrādhyāyena śaṅkaram |

2.2२.२

देवो ऽपि तुष्ट्या निर्वाणं राज्यान्ते कर्मणैव तु ॥ (२।२)

devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu ||

3.1३.१

तवास्तीति सकृच्चोक्त्वा तत्रैवान्तरधीयत । (३।१)

tavāstīti sakṛccoktvā tatraivāntaradhīyata |

3.2३.२

स्वायंभुवो मनुर्देवं नमस्कृत्य वृषध्वजम् ॥ (३।२)

svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam ||

4.1४.१

आरुरोह महामेरुं महावृषमिवेश्वरः । (४।१)

āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ |

4.2४.२

तत्र देवं हिरण्याभं योगैश्वर्यसमन्वितम् ॥ (४।२)

tatra devaṃ hiraṇyābhaṃ yogaiśvaryasamanvitam ||

5.1५.१

सनत्कुमारं वरदमपश्यद्ब्रह्मणः सुतम् । (५।१)

sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam |

5.2५.२

नमश्चकार वरदं ब्रह्मण्यं ब्रह्मरूपिणम् ॥ (५।२)

namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam ||

6.1६.१

कृताञ्जलिपुटो भूत्वा तुष्टाव च महाद्युतिः । (६।१)

kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ |

6.2६.२

सो ऽपि दृष्ट्वा मनुं देवो हृष्टरोमाभवन्मुनिः ॥ (६।२)

so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ ||

7.1७.१

सनत्कुमारः प्राहेदं घृणया च घृणानिधे । (७।१)

sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe |

7.2७.२

सनत्कुमार उवाच । (७।२)

sanatkumāra uvāca

7.3७.३

दृष्ट्वा सर्वेश्वराच्छान्ताच्छङ्करान्नीललोहितात् ॥ (७।३)

dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt ||

8.1८.१

लब्ध्वाभिषेकं सम्प्राप्तो विवक्षुर्वद यद्यपि । (८।१)

labdhvābhiṣekaṃ samprāpto vivakṣurvada yadyapi |

8.2८.२

तस्य तद्वचनं श्रुत्वा प्रणिपत्य कृताञ्जलिः ॥ (८।२)

tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ ||

9.1९.१

विज्ञापयामास कथं कर्मणा निर्वृतिर्विभो । (९।१)

vijñāpayāmāsa kathaṃ karmaṇā nirvṛtirvibho |

9.2९.२

वक्तुमर्हसि चास्माकं कर्मणा केवलेन च ॥ (९।२)

vaktumarhasi cāsmākaṃ karmaṇā kevalena ca ||

10.1१०.१

ज्ञानेन निर्वृतिः सिद्धा विभो मिश्रेण वा क्वचित् । (१०।१)

jñānena nirvṛtiḥ siddhā vibho miśreṇa vā kvacit |

10.2१०.२

अथ तस्य वचः श्रुत्वा श्रुतिसारविदां निधिः ॥ (१०।२)

atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ ||

11.1११.१

सनत्कुमारो भगवान्कर्मणा निर्वृतिः क्रमात् । (११।१)

sanatkumāro bhagavānkarmaṇā nirvṛtiḥ kramāt |

11.2११.२

मिश्रेण च क्रमादेव क्षणाज्ज्ञानेन वै मुने ॥ (११।२)

miśreṇa ca kramādeva kṣaṇājjñānena vai mune ||

12.1१२.१

पुरा मानेन चोष्ट्रत्वम् अगमं नन्दिनः प्रभोः । (१२।१)

purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ |

12.2१२.२

शापात्पुनः प्रसादाद्धि शिवमभ्यर्च्य शङ्करम् ॥ (१२।२)

śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram ||

13.1१३.१

प्रसादान्नन्दिनस्तस्य कर्मणैव सुतो ह्यहम् । (१३।१)

prasādānnandinastasya karmaṇaiva suto hyaham |

13.2१३.२

श्रुत्वोत्तमां गतिं दिव्यामवस्थां प्राप्तवानहम् ॥ (१३।२)

śrutvottamāṃ gatiṃ divyāmavasthāṃ prāptavānaham ||

14.1१४.१

शिवार्चनप्रकारेण शिवधर्मेण नान्यथा । (१४।१)

śivārcanaprakāreṇa śivadharmeṇa nānyathā |

14.2१४.२

राज्ञां षोडशदानानि नन्दिना कथितानि च ॥ (१४।२)

rājñāṃ ṣoḍaśadānāni nandinā kathitāni ca ||

15.1१५.१

धर्मकामार्थमुक्त्यर्थं कर्मणैव महात्मना । (१५।१)

dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā |

15.2१५.२

तुलादिरोहणाद्यानि शृणु तानि यथातथम् ॥ (१५।२)

tulādirohaṇādyāni śṛṇu tāni yathātatham ||

16.1१६.१

ग्रहणादिषु कालेषु शुभदेशेषु शोभनम् । (१६।१)

grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam |

16.2१६.२

विंशद्धस्तप्रमाणेन मण्डपं कूटमेव च ॥ (१६।२)

viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca ||

17.1१७.१

यथाष्टादशहस्तेन कलाहस्तेन वा पुनः । (१७।१)

yathāṣṭādaśahastena kalāhastena vā punaḥ |

17.2१७.२

कृत्वा वेदिं तथा मध्ये नवहस्तप्रमाणतः ॥ (१७।२)

kṛtvā vediṃ tathā madhye navahastapramāṇataḥ ||

18.1१८.१

अष्टहस्तेन वा कार्या सप्तहस्तेन वा पुनः । (१८।१)

aṣṭahastena vā kāryā saptahastena vā punaḥ |

18.2१८.२

द्विहस्ता सार्धहस्ता वा वेदिका चातिशोभना ॥ (१८।२)

dvihastā sārdhahastā vā vedikā cātiśobhanā ||

19.1१९.१

द्वादशस्तंभसंयुक्ता साधुरम्या भ्रमन्तिका । (१९।१)

dvādaśastaṃbhasaṃyuktā sādhuramyā bhramantikā |

19.2१९.२

परितो नव कुण्डानि चतुरस्राणि कारयेत् ॥ (१९।२)

parito nava kuṇḍāni caturasrāṇi kārayet ||

20.1२०.१

ऐन्द्रिकेशानयोर् मध्ये प्रधानं ब्रह्मणः सुत । (२०।१)

aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta |

20.2२०.२

अथवा चतुरस्रं च योन्याकारमतः परम् ॥ (२०।२)

athavā caturasraṃ ca yonyākāramataḥ param ||

21.1२१.१

स्त्रीणां कुण्डानि विप्रेन्द्रा योन्याकाराणि कारयेत् । (२१।१)

strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet |

21.2२१.२

अर्धचन्द्रं त्रिकोणं च वर्तुलं कुण्डमेव च ॥ (२१।२)

ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca ||

22.1२२.१

षडस्रं सर्वतो वापि त्रिकोणं पद्मसन्निभम् । (२२।१)

ṣaḍasraṃ sarvato vāpi trikoṇaṃ padmasannibham |

22.2२२.२

अष्टास्रं सर्वमाने तु स्थण्डिलं केवलं तु वा ॥ (२२।२)

aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā ||

23.1२३.१

चतुर्द्वारसमोपेतं चतुस्तोरणभूषितम् । (२३।१)

caturdvārasamopetaṃ catustoraṇabhūṣitam |

23.2२३.२

दिग्गजाष्टकसंयुक्तं दर्भमालासमावृतम् ॥ (२३।२)

diggajāṣṭakasaṃyuktaṃ darbhamālāsamāvṛtam ||

24.1२४.१

अष्टमङ्गलसंयुक्तं वितानोपरिशोभितम् । (२४।१)

aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam |

24.2२४.२

तुलास्तंभद्रुमाश्चात्र बिल्वादीनि विशेषतः ॥ (२४।२)

tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ ||

25.1२५.१

बिल्वाश्वत्थपलाशाद्याः केवलं खादिरं तु वा । (२५।१)

bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā |

25.2२५.२

येन स्तंभः कृतः पूर्वं तेन सर्वं तु कारयेत् ॥ (२५।२)

yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet ||

26.1२६.१

अथवा मिश्रमार्गेण वेणुना वा प्रकल्पयेत् । (२६।१)

athavā miśramārgeṇa veṇunā vā prakalpayet |

26.2२६.२

अष्टहस्तप्रमाणं तु हस्तद्वयसमायुतम् ॥ (२६।२)

aṣṭahastapramāṇaṃ tu hastadvayasamāyutam ||

27.1२७.१

तुलास्तंभस्य विष्कंभो ऽनाहतस् त्रिगुणो मतः । (२७।१)

tulāstaṃbhasya viṣkaṃbho 'nāhatas triguṇo mataḥ |

27.2२७.२

द्व्यङ्गुलेन विहीनं तु सुवृत्तं निर्व्रणं तथा ॥ (२७।२)

dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā ||

28.1२८.१

उभयोरन्तरं चैव षड्ढस्तं नृपते स्मृतम् । (२८।१)

ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam |

28.2२८.२

द्वयोश् चतुर्हस्तकृतम् अन्तरं स्तंभयोरपि ॥ (२८।२)

dvayoś caturhastakṛtam antaraṃ staṃbhayorapi ||

29.1२९.१

षड्ढस्तम् अन्तरं ज्ञेयं स्तंभयोरुपरि स्थितम् । (२९।१)

ṣaḍḍhastam antaraṃ jñeyaṃ staṃbhayorupari sthitam |

29.2२९.२

वितस्तिमात्रं विस्तारो विष्कंभस्तावदुत्तरम् ॥ (२९।२)

vitastimātraṃ vistāro viṣkaṃbhastāvaduttaram ||

30.1३०.१

स्तंभयोस्तु प्रमाणेन उत्तरद्वारसंमितम् । (३०।१)

staṃbhayostu pramāṇena uttaradvārasaṃmitam |

30.2३०.२

षट्त्रिंशन्मात्रसंयुक्तं व्यायामं तु तुलात्मकम् ॥ (३०।२)

ṣaṭtriṃśanmātrasaṃyuktaṃ vyāyāmaṃ tu tulātmakam ||

31.1३१.१

विष्कंभमष्टमात्रं तु यवपञ्चकसंयुतम् । (३१।१)

viṣkaṃbhamaṣṭamātraṃ tu yavapañcakasaṃyutam |

31.2३१.२

षट्त्रिंशन्मात्रनाभं स्यान्निर्माणाद्वर्तुलं शुभम् ॥ (३१।२)

ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham ||

32.1३२.१

अग्रे मूले च मध्ये च हेमपट्टेन बन्धयेत् । (३२।१)

agre mūle ca madhye ca hemapaṭṭena bandhayet |

32.2३२.२

पट्टमध्ये प्रकर्तव्यम् अवलम्बनकत्रयम् ॥ (३२।२)

paṭṭamadhye prakartavyam avalambanakatrayam ||

33.1३३.१

ताम्रेण च प्रकर्तव्यम् अवलम्बनकत्रयम् । (३३।१)

tāmreṇa ca prakartavyam avalambanakatrayam |

33.2३३.२

आरेण वा प्रकर्तव्यमायसं नैव कारयेत् ॥ (३३।२)

āreṇa vā prakartavyamāyasaṃ naiva kārayet ||

34.1३४.१

मध्ये चोर्ध्वमुखं कार्यम् अवलंबः सुशोभनः । (३४।१)

madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ |

34.2३४.२

रश्मिभिस्तोरणाग्रे वा बन्धयेच्च विधानतः ॥ (३४।२)

raśmibhistoraṇāgre vā bandhayecca vidhānataḥ ||

35.1३५.१

जिह्वामेकां तुलामध्ये तोरणं तु विधीयते । (३५।१)

jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate |

35.2३५.२

उत्तरस्य च मध्ये च शङ्कुं दृढमनुत्तमम् ॥ (३५।२)

uttarasya ca madhye ca śaṅkuṃ dṛḍhamanuttamam ||

36.1३६.१

वितानेनोपरि छाद्य दृढं सम्यक्प्रयोजयेत् । (३६।१)

vitānenopari chādya dṛḍhaṃ samyakprayojayet |

36.2३६.२

शङ्कोः सुषिरसम्पन्नं वलयं कारयेन्मुने ॥ (३६।२)

śaṅkoḥ suṣirasampannaṃ valayaṃ kārayenmune ||

37.1३७.१

तुलामध्ये वितानेन तुलया लम्बके तथा । (३७।१)

tulāmadhye vitānena tulayā lambake tathā |

37.2३७.२

वलयेन प्रयोक्तव्यं कुण्डलं वावलंबनम् ॥ (३७।२)

valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam ||

38.1३८.१

सुदृढं च तुलामध्ये नवमाङ्गुलमानतः । (३८।१)

sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ |

38.2३८.२

पट्टस्यैव तु विस्तारं पञ्चमात्रप्रमाणतः ॥ (३८।२)

paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ ||

39.1३९.१

अपरौ सुदृढौ पिण्डौ शुभद्रव्येण कारयेत् । (३९।१)

aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet |

39.2३९.२

शिक्याधस्तात्प्रकर्तव्यौ पञ्चप्रादेशविस्तरौ । (३९।२)

śikyādhastātprakartavyau pañcaprādeśavistarau |

39.3३९.३

सहस्रेण तु कर्तव्यौ पलानां धारकावुभौ ॥ (३९।३)

sahasreṇa tu kartavyau palānāṃ dhārakāvubhau ||

40.1४०.१

शताष्टकेन वा कुर्यात्पलैः षट्शतमेव वा । (४०।१)

śatāṣṭakena vā kuryātpalaiḥ ṣaṭśatameva vā |

40.2४०.२

चतुस्तालं च कर्तव्यो विस्तारो मध्यमस्तथा ॥ (४०।२)

catustālaṃ ca kartavyo vistāro madhyamastathā ||

41.1४१.१

सार्धत्रितालविस्तारः कलशस्य विधीयते । (४१।१)

sārdhatritālavistāraḥ kalaśasya vidhīyate |

41.2४१.२

बध्नीयात्पञ्चपात्रं तु त्रिमात्रं षट्कमुच्यते ॥ (४१।२)

badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate ||

42.1४२.१

चतुर्द्वारसमोपेतं द्वारमङ्गुलमात्रकम् । (४२।१)

caturdvārasamopetaṃ dvāramaṅgulamātrakam |

42.2४२.२

कुण्डलैश्च समोपेतैः शुक्लशुद्धसमन्वितैः ॥ (४२।२)

kuṇḍalaiśca samopetaiḥ śuklaśuddhasamanvitaiḥ ||

43.1४३.१

कुण्डले कुण्डले कार्यं शृङ्खलापरिमण्डलम् । (४३।१)

kuṇḍale kuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam |

43.2४३.२

शृङ्खलाधारवलयम् अवलंबेन योजयेत् ॥ (४३।२)

śṛṅkhalādhāravalayam avalaṃbena yojayet ||

44.1४४.१

प्रादेशं वा चतुर्मात्रं भूमेस् त्यक्त्वावलम्बयेत् । (४४।१)

prādeśaṃ vā caturmātraṃ bhūmes tyaktvāvalambayet |

44.2४४.२

घटौ पुरुषमात्रौ तु कर्तव्यौ शोभनावुभौ ॥ (४४।२)

ghaṭau puruṣamātrau tu kartavyau śobhanāvubhau ||

45.1४५.१

तौ वालुकाभिः सम्पूर्य शिवं तत्र विनिष्क्षिपेत् । (४५।१)

tau vālukābhiḥ sampūrya śivaṃ tatra viniṣkṣipet |

45.2४५.२

द्विहस्तमात्रमवटे स्थापनीयौ प्रयत्नतः ॥ (४५।२)

dvihastamātramavaṭe sthāpanīyau prayatnataḥ ||

46.1४६.१

निःशेषं पूरयेद् विद्वान् वालुकाभिः समन्ततः । (४६।१)

niḥśeṣaṃ pūrayed vidvān vālukābhiḥ samantataḥ |

46.2४६.२

येन निश्चलतां गच्छेत्तेन मार्गेण कारयेत् ॥ (४६।२)

yena niścalatāṃ gacchettena mārgeṇa kārayet ||

47.1४७.१

श्रूयतां परमं गुह्यं वेदिकोपरिमण्डलम् । (४७।१)

śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam |

47.2४७.२

अष्टमाङ्गुलसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ (४७।२)

aṣṭamāṅgulasaṃyuktaṃ maṅgalāṅkuraśobhitam ||

48.1४८.१

फलपुष्पसमाकीर्णं धूपदीपसमन्वितम् । (४८।१)

phalapuṣpasamākīrṇaṃ dhūpadīpasamanvitam |

48.2४८.२

वेदिमध्ये प्रकर्तव्यं दर्पणोदरसन्निभम् ॥ (४८।२)

vedimadhye prakartavyaṃ darpaṇodarasannibham ||

49.1४९.१

आलिखेन्मण्डलं पूर्वं चतुर्द्वारसमन्वितम् । (४९।१)

ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam |

49.2४९.२

शोभोपशोभासम्पन्नं कर्णिकाकेसरान्वितम् ॥ (४९।२)

śobhopaśobhāsampannaṃ karṇikākesarānvitam ||

50.1५०.१

वर्णजातिसमोपेतं पञ्चवर्णं तु कारयेत् । (५०।१)

varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet |

50.2५०.२

वज्रं प्रागन्तरे भागे आग्नेय्यां शक्तिमुज्ज्वलाम् ॥ (५०।२)

vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām ||

51.1५१.१

आलिखेद्दक्षिणे दण्डं नैरृत्यां खड्गम् आलिखेत् । (५१।१)

ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet |

51.2५१.२

पाशश् च वारुणे लेख्यो ध्वजं वै वायुगोचरे ॥ (५१।२)

pāśaś ca vāruṇe lekhyo dhvajaṃ vai vāyugocare ||

52.1५२.१

कौबेर्यां तु गदा लेख्या ऐशान्यां शूलमालिखेत् । (५२।१)

kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet |

52.2५२.२

शूलस्य वामदेशेन चक्रं पद्मं तु दक्षिणे ॥ (५२।२)

śūlasya vāmadeśena cakraṃ padmaṃ tu dakṣiṇe ||

53.1५३.१

एवं लिखित्वा पश्चाच्च होमकर्म समाचरेत् । (५३।१)

evaṃ likhitvā paścācca homakarma samācaret |

53.2५३.२

प्रधानहोमं गायत्र्या स्वाहा शक्राय वह्नये ॥ (५३।२)

pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye ||

54.1५४.१

यमाय राक्षसेशाय वरुणाय च वायवे । (५४।१)

yamāya rākṣaseśāya varuṇāya ca vāyave |

54.2५४.२

कुबेरायेश्वरायाथ विष्णवे ब्रह्मणे पुनः ॥ (५४।२)

kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ ||

55.1५५.१

स्वाहान्तं प्रणवेनैव होतव्यं विधिपूर्वकम् । (५५।१)

svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam |

55.2५५.२

स्वशाखाग्निमुखेनैव जयादिप्रतिसंयुतम् ॥ (५५।२)

svaśākhāgnimukhenaiva jayādipratisaṃyutam ||

56.1५६.१

स्विष्टान्तं सर्वकार्याणि कारयेद्विधिवत्तदा । (५६।१)

sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā |

56.2५६.२

सर्वहोमाग्रहोमे च समित् पालाशम् उच्यते । (५६।२)

sarvahomāgrahome ca samit pālāśam ucyate |

56.3५६.३

एकविंशतिसंख्यातं मन्त्रेणानेन होमयेत् ॥ (५६।३)

ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet ||

57.1५७.१

अयन्त इध्म आत्मा जातवेदस् तेनेध्यस्व वर्धस्व चेद्धवर्धय चास्मान् प्रजया पशुभिर् ब्रह्मवर्चसेनान्नाद्येन स मेधय स्वाहा । (५७।१)

ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā |

57.2५७.२

भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वस्तथैव च । (५७।२)

bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca |

57.3५७.३

समिद्धोमश्च चरुणा घृतस्य च यथाक्रमम् । (५७।३)

samiddhomaśca caruṇā ghṛtasya ca yathākramam |

57.4५७.४

शुक्लान्नपायसं चैव मुद्गान्नं चरवः स्मृताः ॥ (५७।४)

śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ ||

58.1५८.१

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ (५८।१)

sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā ||

59.1५९.१

अग्न आयूंषि पवस आसुवोर् जमिषं च नः । (५९।१)

agna āyūṃṣi pavasa āsuvor jamiṣaṃ ca naḥ |

59.2५९.२

आरे बाधस्व छुनाम् । (५९।२)

āre bādhasva chunām |

59.3५९.३

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । (५९।३)

agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ |

59.4५९.४

तम् ईमहे महागयम् । (५९।४)

tam īmahe mahāgayam |

59.5५९.५

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । (५९।५)

agne pavasva svapā asme varcaḥ suvīryam |

59.6५९.६

दधद्रयिं मयि पोषम् । (५९।६)

dadhadrayiṃ mayi poṣam |

59.7५९.७

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । (५९।७)

prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva |

59.8५९.८

यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् । (५९।८)

yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām |

59.9५९.९

गायत्र्या च प्रधानस्य समिद्धोमस्तथैव च । (५९।९)

gāyatryā ca pradhānasya samiddhomastathaiva ca |

59.10५९.१०

चरुणा च तथाज्यस्य शक्रादीनां च होमयेत् ॥ (५९।१०)

caruṇā ca tathājyasya śakrādīnāṃ ca homayet ||

60.1६०.१

वज्रादीनां च होतव्यं सहस्रार्धं ततः क्रमात् । (६०।१)

vajrādīnāṃ ca hotavyaṃ sahasrārdhaṃ tataḥ kramāt |

60.2६०.२

ब्रह्मयज्ञेति मन्त्रेण ब्रह्मणे विष्णवे पुनः ॥ (६०।२)

brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ ||

61.1६१.१

नारायणाय विद्महे वासुदेवाय धीमहि । (६१।१)

nārāyaṇāya vidmahe vāsudevāya dhīmahi |

61.2६१.२

तन्नो विष्णुः प्रचोदयात् । (६१।२)

tanno viṣṇuḥ pracodayāt |

61.3६१.३

अयं विशेषः कथितो होममार्गः सुशोभनः । (६१।३)

ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ |

61.4६१.४

दूर्वया क्षीरयुक्तेन पञ्चविंशत्पृथक्पृथक् ॥ (६१।४)

dūrvayā kṣīrayuktena pañcaviṃśatpṛthakpṛthak ||

62.1६२.१

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् । (६२।१)

tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam |

62.2६२.२

उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥ (६२।२)

urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt ||

63.1६३.१

दूर्वाहोमः प्रशस्तो ऽयं वास्तुहोमश्च सर्वथा । (६३।१)

dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā |

63.2६३.२

प्रायश्चित्तमघोरेण सर्पिषा च शतंशतम् ॥ (६३।२)

prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam ||

64.1६४.१

ब्रह्माणं दक्षिणे वामे विष्णुं विश्वगुरुं शिवम् । (६४।१)

brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam |

64.2६४.२

मध्ये देव्या समं ज्ञेयमिन्द्रादिगणसंवृतम् ॥ (६४।२)

madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam ||

65.1६५.१

आदित्यं भास्करं भानुं रविं देवं दिवाकरम् । (६५।१)

ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram |

65.2६५.२

उषां प्रभां तथा प्रज्ञां संध्यां सावित्रिमेव च ॥ (६५।२)

uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca ||

66.1६६.१

पञ्चप्रकारविधिना खखोल्काय महात्मने । (६६।१)

pañcaprakāravidhinā khakholkāya mahātmane |

66.2६६.२

विष्टरां सुभगां चैव वर्धनीं च प्रदक्षिणाम् ॥ (६६।२)

viṣṭarāṃ subhagāṃ caiva vardhanīṃ ca pradakṣiṇām ||

67.1६७.१

आप्यायनीं च सम्पूज्य देवीं पद्मासने रविम् । (६७।१)

āpyāyanīṃ ca sampūjya devīṃ padmāsane ravim |

67.2६७.२

प्रभूतं वाथ कर्तव्यं विमलं दक्षिणे तथा ॥ (६७।२)

prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā ||

68.1६८.१

सारं पश्चिमभागे च आराध्यं चोत्तरे यजेत् । (६८।१)

sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet |

68.2६८.२

मध्ये सुखं विजानीयात्केसरेषु यथाक्रमम् ॥ (६८।२)

madhye sukhaṃ vijānīyātkesareṣu yathākramam ||

69.1६९.१

दीप्तां सूक्ष्मां जयां भद्रां विभूतिं विमलां क्रमात् । (६९।१)

dīptāṃ sūkṣmāṃ jayāṃ bhadrāṃ vibhūtiṃ vimalāṃ kramāt |

69.2६९.२

अमोघां विद्युतां चैव मध्यतः सर्वतोमुखीम् ॥ (६९।२)

amoghāṃ vidyutāṃ caiva madhyataḥ sarvatomukhīm ||

70.1७०.१

सोममङ्गारकं चैव बुधं गुरुमनुक्रमात् । (७०।१)

somamaṅgārakaṃ caiva budhaṃ gurumanukramāt |

70.2७०.२

भार्गवं च तथा मन्दं राहुं केतुं तथैव च ॥ (७०।२)

bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca ||

71.1७१.१

पूजयेद्धोमयेदेवं दापयेच्च विशेषतः । (७१।१)

pūjayeddhomayedevaṃ dāpayecca viśeṣataḥ |

71.2७१.२

योगिनो भोजयेत्तत्र शिवतत्त्वैकपारगान् ॥ (७१।२)

yogino bhojayettatra śivatattvaikapāragān ||

72.1७२.१

दिव्याध्ययनसम्पन्नान् कृत्वैवं विधिविस्तरम् । (७२।१)

divyādhyayanasampannān kṛtvaivaṃ vidhivistaram |

72.2७२.२

होमे प्रवर्तमाने च पूर्वदिक्स्थानमध्यमे ॥ (७२।२)

home pravartamāne ca pūrvadiksthānamadhyame ||

73.1७३.१

आरोहयेद्विधानेन रुद्राध्यायेन वै नृपम् । (७३।१)

ārohayedvidhānena rudrādhyāyena vai nṛpam |

73.2७३.२

धारयेत्तत्र भूपालं घटिकैकां विधानतः ॥ (७३।२)

dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ ||

74.1७४.१

यजमानो जपेन्मन्त्रं रुद्रगायत्रिसंज्ञकम् । (७४।१)

yajamāno japenmantraṃ rudragāyatrisaṃjñakam |

74.2७४.२

घटिकार्धं तदर्धं वा तत्रैवासनम् आरभेत् ॥ (७४।२)

ghaṭikārdhaṃ tadardhaṃ vā tatraivāsanam ārabhet ||

75.1७५.१

आलोक्य वारुणं धीमान्कूर्चहस्तः समाहितः । (७५।१)

ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ |

75.2७५.२

नृपश्च भूषणैर्युक्तः खड्गखेटकधारकः ॥ (७५।२)

nṛpaśca bhūṣaṇairyuktaḥ khaḍgakheṭakadhārakaḥ ||

76.1७६.१

स्वस्तिरित्यादिभिश्चादावन्ते चैव विशेषतः । (७६।१)

svastirityādibhiścādāvante caiva viśeṣataḥ |

76.2७६.२

पुण्याहं ब्राह्मणैः कार्यं वेदवेदाङ्गपारगैः ॥ (७६।२)

puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ ||

77.1७७.१

जयमङ्गलशब्दादिब्रह्मघोषैः सुशोभनैः । (७७।१)

jayamaṅgalaśabdādibrahmaghoṣaiḥ suśobhanaiḥ |

77.2७७.२

नृत्यवाद्यादिभिर्गीतैः सर्वशोभासमन्वितैः ॥ (७७।२)

nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ ||

78.1७८.१

स्वमेवं चन्द्रदिग्भागे सुवर्णं तत्र विक्षिपेत् । (७८।१)

svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet |

78.2७८.२

तुलाधारौ समौ वृत्तौ तुलाभारः सदा भवेत् ॥ (७८।२)

tulādhārau samau vṛttau tulābhāraḥ sadā bhavet ||

79.1७९.१

शतनिष्काधिकं श्रेष्ठं तदर्धं मध्यमं स्मृतम् । (७९।१)

śataniṣkādhikaṃ śreṣṭhaṃ tadardhaṃ madhyamaṃ smṛtam |

79.2७९.२

तस्यार्धं च कनिष्ठं स्यात्त्रिविधं तत्र कल्पितम् ॥ (७९।२)

tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam ||

80.1८०.१

वस्त्रयुग्ममथोष्णीषं कुण्डलं कण्ठशोभनम् । (८०।१)

vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam |

80.2८०.२

अङ्गुलीभूषणं चैव मणिबन्धस्य भूषणम् ॥ (८०।२)

aṅgulībhūṣaṇaṃ caiva maṇibandhasya bhūṣaṇam ||

81.1८१.१

एतानि चैव सर्वाणि प्रारम्भे धर्मकर्मणि । (८१।१)

etāni caiva sarvāṇi prārambhe dharmakarmaṇi |

81.2८१.२

पाशुपतव्रतायाथ भस्माङ्गाय प्रदापयेत् ॥ (८१।२)

pāśupatavratāyātha bhasmāṅgāya pradāpayet ||

82.1८२.१

पूर्वोक्तभूषणं सर्वं सोष्णीषं वस्त्रसंयुतम् । (८२।१)

pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam |

82.2८२.२

दद्याद् एतत् प्रयोक्तृभ्य आच्छादनपटं बुधः ॥ (८२।२)

dadyād etat prayoktṛbhya ācchādanapaṭaṃ budhaḥ ||

83.1८३.१

दक्षिणां च शतं सार्धं तदर्धं वा प्रदापयेत् । (८३।१)

dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ vā pradāpayet |

83.2८३.२

योगिनां चैव सर्वेषां पृथङ्निष्कं प्रदापयेत् ॥ (८३।२)

yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet ||

84.1८४.१

यागोपकरणं दिव्यमाचार्याय प्रदापयेत् । (८४।१)

yāgopakaraṇaṃ divyamācāryāya pradāpayet |

84.2८४.२

इतरेषां यतीनां तु पृथङ्निष्कं प्रदापयेत् ॥ (८४।२)

itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet ||

85.1८५.१

तुलारोहसुवर्णं च शिवाय विनिवेदयेत् । (८५।१)

tulārohasuvarṇaṃ ca śivāya vinivedayet |

85.2८५.२

प्रासादं मण्डपं चैव प्राकारं भूषणं तथा ॥ (८५।२)

prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā ||

86.1८६.१

सुवर्णपुष्पं पटहं खड्गं वै कोशमेव च । (८६।१)

suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca |

86.2८६.२

कृत्वा दत्त्वा शिवायाथ किंचिच्छेषं च बुद्धिमान् ॥ (८६।२)

kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān ||

87.1८७.१

आचार्येभ्यः प्रदातव्यं भस्माङ्गेभ्यो विशेषतः । (८७।१)

ācāryebhyaḥ pradātavyaṃ bhasmāṅgebhyo viśeṣataḥ |

87.2८७.२

बन्दीकृतान् विसर्ज्याथ कारागृहनिवासिनः ॥ (८७।२)

bandīkṛtān visarjyātha kārāgṛhanivāsinaḥ ||

88.1८८.१

सहस्रकलशैस्तत्र सेचयेत्परमेश्वरम् । (८८।१)

sahasrakalaśaistatra secayetparameśvaram |

88.2८८.२

घृतेन केवलेनापि देवदेवमुमापतिम् ॥ (८८।२)

ghṛtena kevalenāpi devadevamumāpatim ||

89.1८९.१

पयसा वाथ दध्ना वा सर्वद्रव्यैरथापि वा । (८९।१)

payasā vātha dadhnā vā sarvadravyairathāpi vā |

89.2८९.२

ब्रह्मकूर्चेन वा देवं पञ्चगव्येन वा पुनः ॥ (८९।२)

brahmakūrcena vā devaṃ pañcagavyena vā punaḥ ||

90.1९०.१

गायत्र्या चैव गोमूत्रं गोमयं प्रणवेन वा । (९०।१)

gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā |

90.2९०.२

आप्यायस्वेति वै क्षीरं दधिक्राव्णोति वै दधि ॥ (९०।२)

āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi ||

91.1९१.१

तेजोसीत्याज्यम् ईशानमन्त्रेणैवाभिषेचयेत् । (९१।१)

tejosītyājyam īśānamantreṇaivābhiṣecayet |

91.2९१.२

देवस्य त्वेति देवेशं कुशांबुकलशेन वै ॥ (९१।२)

devasya tveti deveśaṃ kuśāṃbukalaśena vai ||

92.1९२.१

रुद्राध्यायेन वा सर्वं स्नापयेत्परमेश्वरम् । (९२।१)

rudrādhyāyena vā sarvaṃ snāpayetparameśvaram |

92.2९२.२

सहस्रकलशं शंभोर्नाम्नां चैव सहस्रकैः ॥ (९२।२)

sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ ||

93.1९३.१

विष्णुना कथितैर्वापि तण्डिना कथितैस्तु वा । (९३।१)

viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā |

93.2९३.२

दक्षेण मुनिमुख्येन कीर्तितैरथवा पुनः ॥ (९३।२)

dakṣeṇa munimukhyena kīrtitairathavā punaḥ ||

94.1९४.१

महापूजा प्रकर्तव्या महादेवस्य भक्तितः । (९४।१)

mahāpūjā prakartavyā mahādevasya bhaktitaḥ |

94.2९४.२

शिवार्चकाय दातव्या दक्षिणा स्वगुरोः सदा ॥ (९४।२)

śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā ||

95.1९५.१

देहार्णवं च सर्वेषां दक्षिणा च यथाक्रमम् । (९५।१)

dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam |

95.2९५.२

दीनान्धकृपणानां च बालवृद्धकृशातुरान् ॥ (९५।२)

dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛśāturān ||

96.1९६.१

भोजयेच्च विधानेन दक्षिणामपि दापयेत् ॥ (९६।१)

bhojayecca vidhānena dakṣiṇāmapi dāpayet ||

97.1९७.१

इति श्रीलिङ्गमहापुराणे उत्तरभागे तुलापुरुषदानविधावष्टाविंशत्तमो ऽध्यायः ॥ (९७।१)

iti śrīliṅgamahāpurāṇe uttarabhāge tulāpuruṣadānavidhāvaṣṭāviṃśattamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 2, 28

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit