LiPur, 1, 33
Select a line for its word-by-word analysis.
स्तुतिं श्रुत्वा स्तुतस्तेषामिदं वचनमब्रवीत् ॥ (१।३)
stutiṃ śrutvā stutasteṣāmidaṃ vacanamabravīt ||
यः पठेच्छृणुयाद्वापि युष्माभिः कीर्तितं स्तवम् । (२।१)
yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam |
श्रावयेद्वा द्विजान्विप्रो गाणपत्यमवाप्नुयात् ॥ (२।२)
śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt ||
वक्ष्यामि वो हितं पुण्यं भक्तानां मुनिपुङ्गवाः । (३।१)
vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ |
अद्वन्तगेस् ओड़् थे पाशुपत बेहविओउर्स्त्रीलिङ्गमखिलं देवी प्रकृतिर्मम देहजा ॥ (३।२)
advantages of the Pāśupata behaviourstrīliṅgamakhilaṃ devī prakṛtirmama dehajā ||
पुंल्लिङ्गं पुरुषो विप्रा मम देहसमुद्भवः । (४।१)
puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ |
उभाभ्यामेव वै सृष्टिर्मम विप्रा न संशयः ॥ (४।२)
ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ ||
बालोन्मत्तविचेष्टं तु मत्परं ब्रह्मवादिनम् ॥ (५।२)
bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam ||
ये हि मां भस्मनिरता भस्मना दग्धकिल्बिषाः । (६।१)
ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ |
तस्मादेतद्व्रतं दिव्यमव्यक्तं व्यक्तलिङ्गिनः ॥ (८।२)
tasmādetadvrataṃ divyamavyaktaṃ vyaktaliṅginaḥ ||
भस्मव्रताश् च मुण्डाश् च व्रतिनो विश्वरूपिणः । (९।१)
bhasmavratāś ca muṇḍāś ca vratino viśvarūpiṇaḥ |
न तान्परिवदेद्विद्वान्न चैतान्नाभिलङ्घयेत् ॥ (९।२)
na tānparivadedvidvānna caitānnābhilaṅghayet ||
न हसेन्नाप्रियं ब्रूयादमुत्रेह हितार्थवान् । (१०।१)
na hasennāpriyaṃ brūyādamutreha hitārthavān |
यस्तान्निन्दति मूढात्मा महादेवं स निन्दति ॥ (१०।२)
yastānnindati mūḍhātmā mahādevaṃ sa nindati ||
यस् त्वेतान् पूजयेन् नित्यं स पूजयति शङ्करम् । (११।१)
yas tvetān pūjayen nityaṃ sa pūjayati śaṅkaram |
एवं चरत भद्रं वस्ततः सिद्धिमवाप्स्यथ ॥ (१२।२)
evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha ||
अतुलमिह महाभयप्रणाशहेतुं शिवकथितं परमं पदं विदित्वा । (१३।१)
atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā |
व्यपगतभवलोभमोहचित्ताः प्रणिपतिताः सहसा शिरोभिर् उग्रम् ॥ (१३।२)
vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram ||
ततः प्रमुदिता विप्राः श्रुत्वैवं कथितं तदा । (१४।१)
tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā |
गन्धोदकैः सुशुद्धैश् च कुशपुष्पविमिश्रितैः ॥ (१४।२)
gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ ||
स्नापयन्ति महाकुम्भैर् अद्भिर् एव महेश्वरम् । (१५।१)
snāpayanti mahākumbhair adbhir eva maheśvaram |
गायन्ति विविधैर्गुह्यैर् हुंकारैश्चापि सुस्वरैः ॥ (१५।२)
gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ ||
सुरचितसुविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् । (१८।१)
suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam |
मृगपतिवरचर्मवाससे च प्रथितयशसे नमो ऽस्तु शङ्कराय ॥ (१८।२)
mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya ||
ततस् तान् स मुनीन् प्रीतः प्रत्युवाच महेश्वरः । (१९।१)
tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ |
प्रीतो ऽस्मि तपसा युष्मान् वरं वृणुत सुव्रताः ॥ (१९।२)
prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ ||
ततस्ते मुनयः सर्वे प्रणिपत्य महेश्वरम् । (२०।१)
tataste munayaḥ sarve praṇipatya maheśvaram |
भृग्वङ्गिरा वसिष्ठश् च विश्वामित्रस्तथैव च ॥ (२०।२)
bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca ||
गौतमो ऽत्रिः सुकेशश् च पुलस्त्यः पुलहः क्रतुः । (२१।१)
gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ |
मरीचिः कश्यपः कण्वः संवर्तश् च महातपाः ॥ (२१।२)
marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ ||
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता ॥ (२२।२)
bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā ||
सेव्यासेव्यत्वमेवं च ह्येतदिच्छाम वेदितुम् । (२३।१)
sevyāsevyatvamevaṃ ca hyetadicchāma veditum |
ततस्तेषां वचः श्रुत्वा भगवान्परमेश्वरः ॥ (२३।२)
tatasteṣāṃ vacaḥ śrutvā bhagavānparameśvaraḥ ||
सस्मितं प्राह सम्प्रेक्ष्य सर्वान्मुनिवरांस्तदा ॥ (२४।१)
sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā ||
इति श्रीलिङ्गमहापुराणे पूर्वभागे ऋषिवाक्यं नाम त्रयस्त्रिंशो ऽध्यायः ॥ (२५।१)
iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.