LiPur, 1, 89
Select a line for its word-by-word analysis.
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम् । (१।२)
ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam |
यदनुष्ठाय शुद्धात्मा परेत्य गतिमाप्नुयात् ॥ (१।३)
yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt ||
संक्षेपात्सर्ववेदार्थं संचयं ब्रह्मवादिनाम् ॥ (२।२)
saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām ||
यस्तत्राथाप्रमत्तः स्यात्स मुनिर्नावसीदति ॥ (३।२)
yastatrāthāpramattaḥ syātsa munirnāvasīdati ||
प्राप्यानुज्ञां ततश्चैव ज्ञानयोगमनुत्तमम् । (६।१)
prāpyānujñāṃ tataścaiva jñānayogamanuttamam |
चक्षुःपूतं चरेन्मार्गं वस्त्रपूतं जलं पिबेत् । (७।१)
cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet |
मत्स्यगृह्यस्य यत्पापं षण्मासाभ्यन्तरे भवेत् । (८।१)
matsyagṛhyasya yatpāpaṃ ṣaṇmāsābhyantare bhavet |
अघोरलक्षणं मन्त्रं ततः शुद्धिमवाप्नुयात् ॥ (९।२)
aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt ||
अथवा पूजयेच्छंभुं घृतस्नानादिविस्तरैः । (१०।१)
athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ |
त्रिधा प्रदक्षिणीकृत्य शुध्यते नात्र संशयः ॥ (१०।२)
tridhā pradakṣiṇīkṛtya śudhyate nātra saṃśayaḥ ||
आतिथ्यश्राद्धयज्ञेषु न गच्छेद्योगवित्क्वचित् । (११।१)
ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit |
रुलेस् ड़ोर् भैक्ष्यचरणवह्नौ विधूमे ऽत्यङ्गारे सर्वस्मिन्भुक्तवज्जने । (१२।१)
rules for bhaikṣyacaraṇavahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane |
चरेत्तु मतिमान् भैक्ष्यं न तु तेष्वेव नित्यशः ॥ (१२।२)
carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ ||
तथा युक्तं चरेद्भैक्ष्यं सतां धर्ममदूषयन् ॥ (१३।२)
tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmamadūṣayan ||
श्रेष्ठा तु प्रथमा हीयं वृत्तिरस्योपजायते ॥ (१४।२)
śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate ||
अत ऊर्ध्वं गृहस्थेषु शीलीनेषु चरेद्द्विजाः । (१५।१)
ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ |
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ (१५।२)
śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu ||
भैक्ष्यचर्या हि वर्णेषु जघन्या वृत्तिरुच्यते ॥ (१६।२)
bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate ||
भैक्ष्यं यवागूस्तक्रं वा पयो यावकमेव च । (१७।१)
bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca |
इत्येव ते मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः । (१८।१)
ityeva te mayā proktā yogināṃ siddhivarddhanāḥ |
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्ष्यमिति स्मृतम् ॥ (१८।२)
āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣyamiti smṛtam ||
अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्नुते । (१९।१)
abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute |
न्यायतो यश्चरेद्भैक्ष्यं पूर्वोक्तात्स विशिष्यते ॥ (१९।२)
nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate ||
एवं दाययते तस्मात्तद्भैक्ष्यमिति संस्मृतम् ॥ (२०।२)
evaṃ dāyayate tasmāttadbhaikṣyamiti saṃsmṛtam ||
दधिभक्षाः पयोभक्षा ये चान्ये जीवक्षीणकाः । (२१।१)
dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ |
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ (२१।२)
sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm ||
भस्मशायी भवेन्नित्यं भिक्षाचारी जितेन्द्रियः । (२२।१)
bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ |
य इच्छेत् परमं स्थानं व्रतं पाशुपतं चरेत् ॥ (२२।२)
ya icchet paramaṃ sthānaṃ vrataṃ pāśupataṃ caret ||
बेहविओउर् ओड़् अ योगिन्योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं भवेत् । (२३।१)
behaviour of a yoginyogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet |
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् ॥ (२३।२)
ekaṃ dve trīṇi catvāri śaktito vā samācaret ||
अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च । (२४।१)
asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca |
व्रतानि पञ्च भिक्षूणामहिंसा परमा त्विह ॥ (२४।२)
vratāni pañca bhikṣūṇāmahiṃsā paramā tviha ||
नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः ॥ (२५।२)
nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ ||
देवैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञाज्जाप्यं ज्ञानमाहुश् च जाप्यात् । (२७।१)
devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt |
ज्ञानाद् ध्यानं संगरागादपेतं तस्मिन्प्राप्ते शाश्वतस्योपलम्भः ॥ (२७।२)
jñānād dhyānaṃ saṃgarāgādapetaṃ tasminprāpte śāśvatasyopalambhaḥ ||
दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेषु चार्जवम् । (२८।१)
damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam |
अतीन्द्रियं ज्ञानमिदं तथा शिवं प्राहुस् तथा ज्ञानविशुद्धबुद्धयः ॥ (२८।२)
atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ ||
समाहितो ब्रह्मपरो ऽप्रमादी शुचिस् तथैकान्तरतिर् जितेन्द्रियः । (२९।१)
samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ |
समाप्नुयाद्योगमिमं महात्मा महर्षयश्चैवम् अनिन्दितामलाः ॥ (२९।२)
samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ ||
प्राप्यते ऽभिमतान् देशानङ्कुशेन निवारितः । (३०।१)
prāpyate 'bhimatān deśānaṅkuśena nivāritaḥ |
एतन्मार्गेण शुद्धेन दग्धबीजो ह्यकल्मषः ॥ (३०।२)
etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ ||
सर्वांल्लोकान् विनिर्जित्य ब्रह्मलोकं व्रजन्ति ते ॥ (३१।२)
sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te ||
सलुततिओन् ओड़् सुपेरिओर्स्पितामहेनोपदिष्टो धर्मः साक्षात्सनातनः । (३२।१)
salutation of superiorspitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ |
सर्वलोकोपकारार्थं शृणुध्वं प्रवदामि वः ॥ (३२।२)
sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ ||
गुरूपदेशयुक्तानां वृद्धानां क्रमवर्त्तिनाम् । (३३।१)
gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām |
अभ्युत्थानादिकं सर्वं प्रणामं चैव कारयेत् ॥ (३३।२)
abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet ||
अष्टाङ्गप्रणिपातेनत्रिधा न्यस्तेन सुव्रताः । (३४।१)
aṣṭāṅgapraṇipātenatridhā nyastena suvratāḥ |
त्रिःप्रदक्षिणयोगेन वन्द्यो वै ब्रह्मणो गुरुः ॥ (३४।२)
triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ ||
ज्येष्ठान्ये ऽपि च ते सर्वे वन्दनीया विजानता । (३५।१)
jyeṣṭhānye 'pi ca te sarve vandanīyā vijānatā |
आज्ञाभङ्गं न कुर्वीत यदीच्छेत् सिद्धिम् उत्तमाम् ॥ (३५।२)
ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām ||
धातुशून्यबिलक्षेत्रक्षुद्रमन्त्रोपजीवनम् । (३६।१)
dhātuśūnyabilakṣetrakṣudramantropajīvanam |
विषग्रहविडम्बादीन् वर्जयेत् सर्वयत्नतः ॥ (३६।२)
viṣagrahaviḍambādīn varjayet sarvayatnataḥ ||
कैतवं वित्तशाठ्यं च पैशुन्यं वर्जयेत्सदा । (३७।१)
kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā |
अतिहासम् अवष्टम्भं लीलास्वेच्छाप्रवर्तनम् ॥ (३७।२)
atihāsam avaṣṭambhaṃ līlāsvecchāpravartanam ||
तद्वाक्यप्रतिकूलं च अयुक्तं वै गुरोर्वचः ॥ (३८।२)
tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ ||
यतीनामासनं वस्त्रं दण्डाद्यं पादुके तथा ॥ (३९।२)
yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā ||
माल्यं च शयनस्थानं पात्रं छायां च यत्नतः । (४०।१)
mālyaṃ ca śayanasthānaṃ pātraṃ chāyāṃ ca yatnataḥ |
यज्ञोपकरणाङ्गं च न स्पृशेद् वै पदेन च ॥ (४०।२)
yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca ||
देवद्रोहं गुरुद्रोहं न कुर्यात्सर्वयत्नतः । (४१।१)
devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ |
कृत्वा प्रमादतो विप्राः प्रणवस्यायुतं जपेत् ॥ (४१।२)
kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet ||
संध्यालोपे कृते विप्रः त्रिरावृत्त्यैव शुध्यति । (४४।१)
saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati |
लङ्घने समयानां तु अभक्ष्यस्य च भक्षणे । (४५।१)
laṅghane samayānāṃ tu abhakṣyasya ca bhakṣaṇe |
शतमष्टोत्तरं जप्त्वा मुच्यते नात्र संशयः ॥ (४६।२)
śatamaṣṭottaraṃ japtvā mucyate nātra saṃśayaḥ ||
यः पुनस्तत्त्ववेत्ता च ब्रह्मविद् ब्राह्मणोत्तमः । (४७।१)
yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ |
स्मरणाच्छुद्धिमाप्नोति नात्र कार्या विचारणा ॥ (४७।२)
smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā ||
विश्वस्यैव हि ते शुद्धा ब्रह्मविद्याविदो जनाः ॥ (४८।२)
viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ ||
योगध्यानैकनिष्ठाश् च निर्लेपाः काञ्चनं यथा । (४९।१)
yogadhyānaikaniṣṭhāś ca nirlepāḥ kāñcanaṃ yathā |
शुद्धानां शोधनं नास्ति विशुद्धा ब्रह्मविद्यया ॥ (४९।२)
śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā ||
च्लेअनिन्ग् ओड़् wअतेरुद्धृतानुष्णफेनाभिः पूताभिर् वस्त्रचक्षुषा । (५०।१)
cleaning of wateruddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā |
अद्भिः समाचरेत्सर्वं वर्जयेत्कलुषोदकम् ॥ (५०।२)
adbhiḥ samācaretsarvaṃ varjayetkaluṣodakam ||
गन्धवर्णरसैर्दुष्टमशुचिस्थानसंस्थितम् । (५१।१)
gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam |
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम् ॥ (५१।२)
paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam ||
सशैवालं तथान्यैर्वा दोषैर्दुष्टं विवर्जयेत् । (५२।१)
saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet |
च्लेअनिन्ग् ओड़् च्लोथेस्वस्त्रशौचान्वितः कुर्यात्सर्वकार्याणि वै द्विजाः ॥ (५२।२)
cleaning of clothesvastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ ||
वस्त्रशौचविहीनात्मा ह्यशुचिर्नात्र संशयः ॥ (५३।२)
vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ ||
देवकार्योपयुक्तानां प्रत्यहं शौचमिष्यते । (५४।१)
devakāryopayuktānāṃ pratyahaṃ śaucamiṣyate |
इतरेषां हि वस्त्राणां शौचं कार्यं मलागमे ॥ (५४।२)
itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame ||
वर्जयेत्सर्वयत्नेन वासो ऽन्यैर् विधृतं द्विजाः । (५५।१)
varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ |
कौशेयाविकयो रूक्षैः क्षौमाणां गौरसर्षपैः ॥ (५५।२)
kauśeyāvikayo rūkṣaiḥ kṣaumāṇāṃ gaurasarṣapaiḥ ||
चर्मणां विदलानां च वेत्राणां वस्त्रवन्मतम् ॥ (५६।२)
carmaṇāṃ vidalānāṃ ca vetrāṇāṃ vastravanmatam ||
चैलवच्छौचमाख्यातं ब्रह्मविद्भिर् मुनीश्वरैः ॥ (५७।२)
cailavacchaucamākhyātaṃ brahmavidbhir munīśvaraiḥ ||
च्लेअनिन्ग् ओड़् ओब्जेच्त्स्भस्मना शुध्यते कांस्यं क्षारेणायसम् उच्यते । (५८।१)
cleaning of objectsbhasmanā śudhyate kāṃsyaṃ kṣāreṇāyasam ucyate |
हैमम् अद्भिः शुभं पात्रं रौप्यपात्रं द्विजोत्तमाः । (५९।१)
haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ |
मण्यश्मशङ्खमुक्तानां शौचं तैजसवत्स्मृतम् ॥ (५९।२)
maṇyaśmaśaṅkhamuktānāṃ śaucaṃ taijasavatsmṛtam ||
रसानामिह सर्वेषां शुद्धिरुत्प्लवनं स्मृतम् ॥ (६०।२)
rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam ||
तृणकाष्ठादिवस्तूनां शुभेनाभ्युक्षणं स्मृतम् । (६१।१)
tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam |
उष्णेन वारिणा शुद्धिस् तथा स्रुक्स्रुवयोरपि ॥ (६१।२)
uṣṇena vāriṇā śuddhis tathā sruksruvayorapi ||
शृङ्गास्थिदारुदन्तानां तक्षणेनैव शोधनम् ॥ (६२।२)
śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam ||
संहतानां महाभागा द्रव्याणां प्रोक्षणं स्मृतम् । (६३।१)
saṃhatānāṃ mahābhāgā dravyāṇāṃ prokṣaṇaṃ smṛtam |
असंहतानां द्रव्याणां प्रत्येकं शौचमुच्यते ॥ (६३।२)
asaṃhatānāṃ dravyāṇāṃ pratyekaṃ śaucamucyate ||
तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशांभसा ॥ (६४।२)
tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā ||
मार्जनोन्मार्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥ (६५।२)
mārjanonmārjanair veśma punaḥpākena mṛnmayam ||
भूमिस्थम् उदकं शुद्धं वैतृष्ण्यं यत्र गौर्व्रजेत् । (६७।१)
bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet |
अव्याप्तं यदमेध्येन गन्धवर्णरसान्वितम् ॥ (६७।२)
avyāptaṃ yadamedhyena gandhavarṇarasānvitam ||
स्वदारास्यं गृहस्थानां रतौ भार्याभिकाङ्क्षया ॥ (६८।२)
svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā ||
हस्ताभ्यां क्षालितं वस्त्रं कारुणा च यथाविधि । (६९।१)
hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi |
कुशांबुना सुसंप्रोक्ष्य गृह्णीयाद्धर्मवित्तमः ॥ (६९।२)
kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ ||
छाया च विप्लुषो विप्रा मक्षिकाद्या द्विजोत्तमाः । (७१।१)
chāyā ca vipluṣo viprā makṣikādyā dvijottamāḥ |
रजो भूर् वायुर् अग्निश् च मेध्यानि स्पर्शने सदा ॥ (७१।२)
rajo bhūr vāyur agniś ca medhyāni sparśane sadā ||
सुप्त्वा भुक्त्वा च वै विप्राः क्षुत्त्वा पीत्वा च वै तथा । (७२।१)
suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā |
ष्ठीवित्वाध्ययनादौ च शुचिरप्याचमेत्पुनः ॥ (७२।२)
ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ ||
ते पार्थिवैः समा ज्ञेया न तैरप्रयतो भवेत् ॥ (७३।२)
te pārthivaiḥ samā jñeyā na tairaprayato bhavet ||
कृत्वा च मैथुनं स्पृष्ट्वा पतितं कुक्कुटादिकम् । (७४।१)
kṛtvā ca maithunaṃ spṛṣṭvā patitaṃ kukkuṭādikam |
सूकरं चैव काकादि श्वानमुष्ट्रं खरं तथा ॥ (७४।२)
sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā ||
यूपं चाण्डालकाद्यांश् च स्पृष्ट्वा स्नानेन शुध्यति । (७५।१)
yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati |
रजस्वलां सूतिकां च न स्पृशेदन्त्यजामपि ॥ (७५।२)
rajasvalāṃ sūtikāṃ ca na spṛśedantyajāmapi ||
संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुध्यति ॥ (७६।२)
saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati ||
उन्देड़िलब्ले पेओप्लेनैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम् । (७७।१)
undefilable peoplenaivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām |
नैष्ठिकानां नृपाणां च मण्डलीनां च सुव्रताः ॥ (७७।२)
naiṣṭhikānāṃ nṛpāṇāṃ ca maṇḍalīnāṃ ca suvratāḥ ||
ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत् । (७८।१)
tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet |
असंचयाद् द्विजानां च स्नानमात्रेण नान्यथा । (७९।१)
asaṃcayād dvijānāṃ ca snānamātreṇa nānyathā |
तथा संनिहितानां च यज्ञार्थं दीक्षितस्य च ॥ (७९।२)
tathā saṃnihitānāṃ ca yajñārthaṃ dīkṣitasya ca ||
एकाहाद् यज्ञयाजिनां शुद्धिरुक्ता स्वयंभुवा । (८०।१)
ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā |
ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम् ॥ (८०।२)
tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām ||
दुरतिओन् ओड़् देड़िलेमेन्त्सूतकं प्रेतकं नास्ति त्र्यहाद् ऊर्ध्वम् अमुत्र वै । (८१।१)
duration of defilementsūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai |
अर्वाग् एकादशाहान्तं बान्धवानां द्विजोत्तमाः ॥ (८१।२)
arvāg ekādaśāhāntaṃ bāndhavānāṃ dvijottamāḥ ||
स्नानमात्रेण वै शुद्धिर्मरणे समुपस्थिते । (८२।१)
snānamātreṇa vai śuddhirmaraṇe samupasthite |
सप्तवर्षात् ततश्चार्वाक् त्रिरात्रं हि ततः परम् । (८३।१)
saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param |
दशाहं ब्राह्मणानां वै प्रथमे ऽहनि वा पितुः ॥ (८३।२)
daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ ||
अर्वाक् त्रिवर्षात्स्नानेन बान्धवानां पितुः सदा ॥ (८४।२)
arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā ||
अष्टाब्दाद् एकरात्रेण शुद्धिः स्याद् बान्धवस्य तु । (८५।१)
aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu |
द्वादशाब्दात्ततश्चार्वाक् त्रिरात्रं स्त्रीषु सुव्रताः ॥ (८५।२)
dvādaśābdāttataścārvāk trirātraṃ strīṣu suvratāḥ ||
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ (८६।२)
atikrānte daśāhe tu trirātramaśucirbhavet ||
ततः संनिहितो विप्रश्चार्वाक् पूर्वं तदेव वै । (८७।१)
tataḥ saṃnihito vipraścārvāk pūrvaṃ tadeva vai |
संवत्सरे व्यतीते तु स्नानमात्रेण शुध्यति ॥ (८७।२)
saṃvatsare vyatīte tu snānamātreṇa śudhyati ||
पुरिड़िचतिओन् अड़्तेर् तोउछिन्ग् अ देअद् बोद्य्स्पृष्ट्वा प्रेतं त्रिरात्रेण धर्मार्थं स्नानमुच्यते । (८८।१)
purification after touching a dead bodyspṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate |
अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुध्यति । (८९।१)
anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati |
आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते ॥ (८९।२)
ācāryamaraṇe caiva trirātraṃ śrotriye mṛte ||
पक्षिणी मातुलानां च सोदराणां च वा द्विजाः । (९०।१)
pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ |
भूपानां मण्डलीनां च सद्यो नीराष्ट्रवासिनाम् ॥ (९०।२)
bhūpānāṃ maṇḍalīnāṃ ca sadyo nīrāṣṭravāsinām ||
केवलं द्वादशाहेन क्षत्त्रियाणां द्विजोत्तमाः । (९१।१)
kevalaṃ dvādaśāhena kṣattriyāṇāṃ dvijottamāḥ |
नाभिषिक्तस्य चाशौचं संप्रमादेषु वै रणे ॥ (९१।२)
nābhiṣiktasya cāśaucaṃ saṃpramādeṣu vai raṇe ||
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति । (९२।१)
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati |
इति संक्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा ॥ (९२।२)
iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā ||
मेन्स्त्रुअतिओन्त्रेताप्रभृति नारीणां मासि मास्यार्तवं द्विजाः ॥ (९३।२)
menstruationtretāprabhṛti nārīṇāṃ māsi māsyārtavaṃ dvijāḥ ||
प्रयान्ति च महाभागा भार्याभिः कुरवो यथा ॥ (९४।२)
prayānti ca mahābhāgā bhāryābhiḥ kuravo yathā ||
वर्णाश्रमव्यवस्था च त्रेताप्रभृति सुव्रताः । (९५।१)
varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ |
भारते दक्षिणे वर्षे व्यवस्था नेतरेष्वथ ॥ (९५।२)
bhārate dakṣiṇe varṣe vyavasthā netareṣvatha ||
शाकद्वीपादिषु प्रोक्तो धर्मो वै भारते यथा ॥ (९६।२)
śākadvīpādiṣu prokto dharmo vai bhārate yathā ||
रसोल्लासा कृते वृत्तिस्त्रेतायां गृहवृक्षजा । (९७।१)
rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā |
सैवार्तवकृताद् दोषाद् रागद्वेषादिभिर् नृणाम् ॥ (९७।२)
saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām ||
यवाद्याः सम्प्रजायन्ते ग्राम्यारण्याश्चतुर्दश ॥ (९८।२)
yavādyāḥ samprajāyante grāmyāraṇyāścaturdaśa ||
ओषध्यश् च रजोदोषाः स्त्रीणां रागादिभिर् नृणाम् । (९९।१)
oṣadhyaś ca rajodoṣāḥ strīṇāṃ rāgādibhir nṛṇām |
अकालकृष्टा विध्वस्ताः पुनरुत्पादितास् तथा ॥ (९९।२)
akālakṛṣṭā vidhvastāḥ punarutpāditās tathā ||
तस्मात्सर्वप्रयत्नेन न संभाष्या रजस्वला । (१००।१)
tasmātsarvaprayatnena na saṃbhāṣyā rajasvalā |
प्रथमे ऽहनि चाण्डाली यथा वर्ज्या तथाङ्गना ॥ (१००।२)
prathame 'hani cāṇḍālī yathā varjyā tathāṅganā ||
द्वितीये ऽहनि विप्रा हि यथा वै ब्रह्मघातिनी । (१०१।१)
dvitīye 'hani viprā hi yathā vai brahmaghātinī |
तृतीये ऽह्नि तदर्धेन चतुर्थे ऽहनि सुव्रताः ॥ (१०१।२)
tṛtīye 'hni tadardhena caturthe 'hani suvratāḥ ||
स्नात्वार्धमासात् संशुद्धा ततः शुद्धिर्भविष्यति । (१०२।१)
snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati |
आ षोडशात् ततः स्त्रीणां मूत्रवच्छौचमिष्यते ॥ (१०२।२)
ā ṣoḍaśāt tataḥ strīṇāṃ mūtravacchaucamiṣyate ||
पञ्चरात्रं तथास्पृश्या रजसा वर्तते यदि । (१०३।१)
pañcarātraṃ tathāspṛśyā rajasā vartate yadi |
सा विंशद्दिवसादूर्ध्वं रजसा पूर्ववत्तथा ॥ (१०३।२)
sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā ||
स्नानं शौचं तथा गानं रोदनं हसनं तथा । (१०४।१)
snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā |
यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनम् ॥ (१०४।२)
yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam ||
दिवास्वप्नं विशेषेण तथा वै दन्तधावनम् । (१०५।१)
divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam |
मैथुनं मानसं वापि वाचिकं देवतार्चनम् ॥ (१०५।२)
maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam ||
संत्यागं चैव वस्त्राणां वर्जयेत्सर्वयत्नतः । (१०७।१)
saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ |
स्नात्वान्यपुरुषं नारी न स्पृशेत्तु रजस्वला ॥ (१०७।२)
snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā ||
ईक्षयेद्भास्करं देवं ब्रह्मकूर्चं ततः पिबेत् । (१०८।१)
īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet |
केवलं पञ्चगव्यं वा क्षीरं वा चात्मशुद्धये ॥ (१०८।२)
kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye ||
चतुर्थ्यां स्त्री न गम्या तु गतोऽल्पायुः प्रसूयते । (१०९।१)
caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate |
विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम् ॥ (१०९।२)
vidyāhīnaṃ vratabhraṣṭaṃ patitaṃ pāradārikam ||
दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते । (११०।१)
dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate |
कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत्पुनः ॥ (११०।२)
kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ ||
रक्ताधिक्याद्भवेन्नारी शुक्राधिक्ये भवेत्पुमान् । (१११।१)
raktādhikyādbhavennārī śukrādhikye bhavetpumān |
समे नपुंसकं चैव पञ्चम्यां कन्यका भवेत् ॥ (१११।२)
same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet ||
षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत् । (११२।१)
ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet |
पुत्रत्वं व्यञ्जयेत्तस्य जातपुत्रो महाद्युतिः ॥ (११२।२)
putratvaṃ vyañjayettasya jātaputro mahādyutiḥ ||
पुमिति नरकस्याख्या दुःखं च नरकं विदुः । (११३।१)
pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ |
पुंसस्त्राणान्वितं पुत्रं तथाभूतं प्रसूयते ॥ (११३।२)
puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate ||
सप्तम्यां चैव कन्यार्थी गच्छेत्सैव प्रसूयते । (११४।१)
saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate |
अष्टम्यां सर्वसम्पन्नं तनयं सम्प्रसूयते ॥ (११४।२)
aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate ||
नवम्यां दारिकायार्थी दशम्यां पण्डितो भवेत् । (११५।१)
navamyāṃ dārikāyārthī daśamyāṃ paṇḍito bhavet |
एकादश्यां तथा नारीं जनयेत्सैव पूर्ववत् ॥ (११५।२)
ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat ||
द्वादश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम् । (११६।१)
dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam |
त्रयोदश्यां जडां नारीं सर्वसंकरकारिणीम् ॥ (११६।२)
trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm ||
जनयत्यङ्गना यस्मान्न गच्छेत्सर्वयत्नतः । (११७।१)
janayatyaṅganā yasmānna gacchetsarvayatnataḥ |
चतुर्दश्यां यदा गच्छेत् सा पुत्रजननी भवेत् ॥ (११७।२)
caturdaśyāṃ yadā gacchet sā putrajananī bhavet ||
पञ्चदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम् । (११८।१)
pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam |
स्त्रीणां वै मैथुने काले वामपार्श्वे प्रभञ्जनः ॥ (११८।२)
strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ ||
चरेद्यदि भवेन्नारी पुमांसं दक्षिणे लभेत् । (११९।१)
caredyadi bhavennārī pumāṃsaṃ dakṣiṇe labhet |
स्त्रीणां मैथुनकाले तु पापग्रहविवर्जिते ॥ (११९।२)
strīṇāṃ maithunakāle tu pāpagrahavivarjite ||
उक्तकाले शुचिर्भूत्वा शुद्धां गच्छेच्छुचिस्मिताम् । (१२०।१)
uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām |
इत्येवं संप्रसंगेन यतीनां धर्मसंग्रहे ॥ (१२०।२)
ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe ||
सर्वेषामेव भूतानां सदाचारः प्रकीर्तितः । (१२१।१)
sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ |
यः पठेच्छृणुयाद् वापि सदाचारं शुचिर्नरः ॥ (१२१।२)
yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ ||
श्रावयेद्वा यथान्यायं ब्राह्मणान् दग्धकिल्बिषान् । (१२२।१)
śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān |
ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते ॥ (१२२।२)
brahmalokamanuprāpya brahmaṇā saha modate ||
इति श्रीलिङ्गमहापुराणे पूर्वभागे सदाचारकथनं नामैकोननवतितमो ऽध्यायः ॥ (१२३।१)
iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.