LiPur, 1, 74
Select a line for its word-by-word analysis.
देइत्य् => लिङ्गलिङ्गानि कल्पयित्वैवं स्वाधिकारानुरूपतः । (१।२)
deity => liṅgaliṅgāni kalpayitvaivaṃ svādhikārānurūpataḥ |
विश्वकर्मा ददौ तेषां नियोगाद्ब्रह्मणः प्रभोः ॥ (१।३)
viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ ||
विश्वेदेवास् तथा रौप्यं वसवः कान्तिकं शुभम् । (३।१)
viśvedevās tathā raupyaṃ vasavaḥ kāntikaṃ śubham |
स्फाटिकं वरुणो राजा आदित्यास्ताम्रनिर्मितम् । (४।१)
sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam |
मौक्तिकं सोमराड् धीमांस् तथा लिङ्गमनुत्तमम् ॥ (४।२)
mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam ||
दैत्या ह्ययोमयं लिङ्गं राक्षसाश् च महात्मनः ॥ (५।२)
daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ ||
चामुण्डा सैकतं साक्षान्मातरश् च द्विजोत्तमाः ॥ (६।२)
cāmuṇḍā saikataṃ sākṣānmātaraś ca dvijottamāḥ ||
दारुजं नैरृतिर् भक्त्या यमो मारकतं शुभम् । (७।१)
dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham |
नीलाद्याश् च तथा रुद्राः शुद्धं भस्ममयं शुभम् ॥ (७।२)
nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham ||
लक्ष्मीवृक्षमयं लक्ष्मीर्गुहो वै गोमयात्मकम् । (८।१)
lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam |
वामाद्याः पुष्पलिङ्गं तु गन्धलिङ्गं मनोन्मनी । (९।१)
vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī |
उग्रा पिष्टमयं सर्वे मन्त्रा ह्याज्यमयं शुभम् ॥ (१०।२)
ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham ||
वेदाः सर्वे दधिमयं पिशाचाः सीसनिर्मितम् । (११।१)
vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam |
लेभिरे च यथायोग्यं प्रसादाद्ब्रह्मणः पदम् ॥ (११।२)
lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam ||
शिवलिङ्गं समभ्यर्च्य स्थितमत्र न संशयः ॥ (१२।२)
śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ ||
त्य्पेस् ओड़् लिङ्गस् अच्च्। तो मतेरिअल्षड्विधं लिङ्गमित्याहुर्द्रव्याणां च प्रभेदतः । (१३।१)
types of liṅgas acc. to materialṣaḍvidhaṃ liṅgamityāhurdravyāṇāṃ ca prabhedataḥ |
तेषां भेदाश्चतुर्युक्तचत्वारिंशदिति स्मृताः ॥ (१३।२)
teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ ||
शैलजं प्रथमं प्रोक्तं तद्धि साक्षाच्चतुर्विधम् । (१४।१)
śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham |
द्वितीयं रत्नजं तच्च सप्तधा मुनिसत्तमाः ॥ (१४।२)
dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ ||
तुरीयं दारुजं लिङ्गं तत्तु षोडशधोच्यते ॥ (१५।२)
turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate ||
मृन्मयं पञ्चमं लिङ्गं द्विधा भिन्नं द्विजोत्तमाः । (१६।१)
mṛnmayaṃ pañcamaṃ liṅgaṃ dvidhā bhinnaṃ dvijottamāḥ |
षष्ठं तु क्षणिकं लिङ्गं सप्तधा परिकीर्तितम् ॥ (१६।२)
ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ saptadhā parikīrtitam ||
श्रीप्रदं रत्नजं लिङ्गं शैलजं सर्वसिद्धिदम् । (१७।१)
śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam |
धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम् ॥ (१७।२)
dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam ||
मृन्मयं चैव विप्रेन्द्राः सर्वसिद्धिकरं शुभम् । (१८।१)
mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham |
शैलजं चोत्तमं प्रोक्तं मध्यमं चैव धातुजम् ॥ (१८।२)
śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam ||
मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः ॥ (१९।२)
mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ ||
शैलजं रत्नजं वापि धातुजं वापि दारुजम् ॥ (२१।२)
śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam ||
मृन्मयं क्षणिकं वापि भक्त्या स्थाप्य फलं शुभम् । (२२।१)
mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham |
सुरेन्द्राम्भोजगर्भाग्नियमाम्बुपधनेश्वरैः ॥ (२२।२)
surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ ||
सिद्धविद्याधराहीन्द्रैर्यक्षदानवकिन्नरैः । (२३।१)
siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ |
स्तूयमानः सुपुण्यात्मा देवदुन्दुभिनिःस्वनैः ॥ (२३।२)
stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ ||
भूर्भूवःस्वर्महर्लोकान् क्रमाद् वै जनतः परम् । (२४।१)
bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param |
तपः सत्यं पराक्रम्य भासयन् स्वेन तेजसा ॥ (२४।२)
tapaḥ satyaṃ parākramya bhāsayan svena tejasā ||
आशु ब्रह्माण्डमुद्भिद्य निर्गच्छन्निर्विशङ्कया ॥ (२५।२)
āśu brahmāṇḍamudbhidya nirgacchannirviśaṅkayā ||
शैलजं रत्नजं वापि धातुजं वापि दारुजम् । (२६।१)
śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam |
मृन्मयं क्षणिकं त्यक्त्वा स्थापयेत्सकलं वपुः ॥ (२६।२)
mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ ||
विधिना चैव कृत्वा तु स्कन्दोमासहितं शुभम् । (२७।१)
vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham |
कुन्दगोक्षीरसंकाशं लिङ्गं यः स्थापयेन्नरः ॥ (२७।२)
kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ ||
नृणां तनुं समास्थाय स्थितो रुद्रो न संशयः । (२८।१)
nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ |
दर्शनात्स्पर्शनात्तस्य लभन्ते निर्वृतिं नराः ॥ (२८।२)
darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ ||
तस्य पुण्यं मया वक्तुं सम्यग्युगशतैरपि । (२९।१)
tasya puṇyaṃ mayā vaktuṃ samyagyugaśatairapi |
शक्यते नैव विप्रेन्द्रास् तस्माद् वै स्थापयेत् तथा ॥ (२९।२)
śakyate naiva viprendrās tasmād vai sthāpayet tathā ||
सर्वेषामेव मर्त्यानां विभोर्दिव्यं वपुः शुभम् । (३०।१)
sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham |
इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवलिङ्गभेदसंस्थापनादिवर्णनं नाम चतुःसप्ततितमो ऽध्यायः ॥ (३१।१)
iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.