सुश्रुतसंहिताSuśrutasaṃhitā

Su, 1, 12

12 of 186 · 70 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो ऽग्निकर्मविधिम् अध्यायं व्याख्यास्यामः ॥ (१।१)

athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

कौतेरिसिएरुन्ग् मित् ड़ेउएर्क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः तद्दग्धानां रोगाणाम् अपुनर्भावाद् भेषजशस्त्रक्षारैर् असाध्यानां तत्साध्यत्वाच्च ॥ (३।१)

Kauterisierung mit Feuerkṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca ||

4.1४.१

गेएइग्नेते स्तोड़्ड़ेअथेमानि दहनोपकरणानि तद्यथा पिप्पल्यजाशकृद्गोदन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्रगुडस्नेहाश् च । (४।१)

geeignete stoffeathemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca |

4.2४.२

तत्र पिप्पल्यजाशकृद्गोदन्तशरशलाकास् त्वग्गतानां जाम्बवौष्ठेतरलौहा मांसगतानां क्षौद्रगुडस्नेहाः सिरास्नायुसंध्यस्थिगतानाम् ॥ (४।२)

tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām ||

5.1५.१

~ उन्द् जह्रेस्ज़ेइतेन्तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां तत्राप्यात्ययिके ऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ॥ (५।१)

~ und Jahreszeitentatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā ||

6.1६.१

सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः मूढगर्भाश्मरीभगंदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ॥ (६।१)

sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta ||

7.1७.१

क्￶र्पेर्तेइले, दिए ड़्र् वेर्ब्रेन्नेन् गेएइग्नेत् सिन्द्तत्र द्विविधमग्निकर्माहुरेके त्वग्दग्धं मांसदग्धं च इह तु सिरास्नायुसंध्यस्थिष्वपि न प्रतिषिद्धो ऽग्निः ॥ (७।१)

K￶rperteile, die fr verbrennen geeignet sindtatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ ||

8.1८.१

ज़ेइछेन् ड़्र् एर्ड़ोल्ग्रेइछेस् ~तत्र शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश् च त्वग्दग्धे कपोतवर्णताल्पश्वयथुवेदना शुष्कसंकुचितव्रणता च मांसदग्धे कृष्णोन्नतव्रणता स्रावसंनिरोधश् च सिरास्नायुदग्धे रूक्षारुणता कर्कशस्थिरव्रणता च संध्यस्थिदग्धे ॥ (८।१)

Zeichen fr erfolgreiches ~tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe ||

9.1९.१

तत्र शिरोरोगाधिमन्थयोर् भ्रूललाटशङ्खप्रदेशेषु दहेत् वर्त्मरोगेष्वार्द्रालक्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ॥ (९।१)

tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān ||

10.1१०.१

इन्दिकतिओन्त्वङ्मांससिरास्नायुसंध्यस्थिस्थिते ऽत्युग्ररुजि वायावुच्छ्रितकठिनसुप्तमांसे व्रणे ग्रन्थ्यर्शोऽर्बुदभगंदरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसंधिसिराछेदनादिषु नाडीशोणितातिप्रवृत्तिषु चाग्निकर्म कुर्यात् ॥ (१०।१)

Indikationtvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||

11.1११.१

उन्तेरर्तेन्तत्र वलयबिन्दुविलेखाप्रतिसारणानीति दहनविशेषाः ॥ (११।१)

Unterartentatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ ||

12.1१२.१

भवति चात्र । (१२।१)

bhavati cātra |

12.2१२.२

रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च । (१२।२)

rogasya saṃsthānamavekṣya samyaṅnarasya marmāṇi balābalaṃ ca |

12.3१२.३

व्याधिं तथर्तुं च समीक्ष्य सम्यक् ततो व्यवस्येद्भिषगग्निकर्म ॥ (१२।३)

vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||

13.1१३.१

नछ्बेहन्द्लुन्ग्तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः ॥ (१३।१)

Nachbehandlungtatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ ||

14.1१४.१

कोन्त्रैन्दिकतिओनथेमानग्निना परिहरेत् पित्तप्रकृतिम् अन्तःशोणितं भिन्नकोष्ठम् अनुद्धृतशल्यं दुर्बलं बालं वृद्धं भीरुम् अनेकव्रणपीडितम् अस्वेद्यांश् चेति ॥ (१४।१)

Kontraindikationathemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti ||

15.1१५.१

वेर्ब्रेन्नुन्गेनत ऊर्ध्वमितरथा दग्धलक्षणं वक्ष्यामः । (१५।१)

verbrennungenata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ |

15.2१५.२

तत्र स्निग्धं रूक्षं वाश्रित्य द्रव्यमग्निर्दहति अग्निसंतप्तो हि स्नेहः सूक्ष्मसिरानुसारित्वात् त्वगादीन् अनुप्रविश्याशु दहति तस्मात् स्नेहदग्धे ऽधिका रुजो भवन्ति ॥ (१५।२)

tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti ||

16.1१६.१

तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धम् अतिदग्धं चेति चतुर्विधम् अग्निदग्धम् । (१६।१)

tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham |

16.2१६.२

एइगेन्स्छड़्तेन् देर् वेर्ब्रेन्नुन्ग्स्-क्लस्सेन्तत्र यद्विवर्णं प्लुष्यते ऽतिमात्रं तत् प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश् चोषदाहरागपाकवेदनाश् चिराच्चोपशाम्यन्ति तद्दुर्दग्धं सम्यग्दग्धम् अनवगाढं तालफलवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसंध्यस्थिव्यापादनम् अतिमात्रं ज्वरदाहपिपासामूर्छाश् चोपद्रवा भवन्ति व्रणश्चास्य चिरेण रोहति रूढश् च विवर्णो भवति । (१६।२)

Eigenschaften der verbrennungs-Klassentatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati |

16.3१६.३

तदेतच्चतुर्विधम् अग्निदग्धलक्षणम् आत्मकर्मप्रसाधकं भवति ॥ (१६।३)

tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati ||

17.1१७.१

भवति चात्र । (१७।१)

bhavati cātra |

17.2१७.२

Wइर्कुन्ग्स्wएइसे वोन् वेर्ब्रेन्नुन्गेनग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति । (१७।२)

Wirkungsweise von verbrennungenagninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati |

17.3१७.३

ततस्तेनैव वेगेन पित्तम् अस्याभ्युदीर्यते ॥ (१७।३)

tatastenaiva vegena pittam asyābhyudīryate ||

18.1१८.१

तुल्यवीर्ये उभे ह्येते रसतो द्रव्यतस्तथा । (१८।१)

tulyavīrye ubhe hyete rasato dravyatastathā |

18.2१८.२

तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते ॥ (१८।२)

tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate ||

19.1१९.१

स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च वर्धते । (१९।१)

sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate |

19.2१९.२

दग्धस्योपशमार्थाय चिकित्सा सम्प्रवक्ष्यते ॥ (१९।२)

dagdhasyopaśamārthāya cikitsā sampravakṣyate ||

20.1२०.१

बेहन्द्लुन्ग् देर् ४ वेर्ब्रेन्नुन्ग्स्-क्लस्सेन्प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् । (२०।१)

Behandlung der 4 verbrennungs-Klassenpluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham |

20.2२०.२

शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥ (२०।२)

śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam ||

21.1२१.१

प्रकृत्या ह्युदकं शीतं स्कन्दयत्यति शोणितम् । (२१।१)

prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam |

21.2२१.२

तस्मात् सुखयति ह्युष्णं नतु शीतं कथंचन ॥ (२१।२)

tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana ||

22.1२२.१

शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः । (२२।१)

śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ |

22.2२२.२

घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् ॥ (२२।२)

ghṛtālepanasekāṃstu śītānevāsya kārayet ||

23.1२३.१

सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः । (२३।१)

samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ |

23.2२३.२

सामृतैः सर्पिषा स्निग्धैर् आलेपं कारयेद्भिषक् ॥ (२३।२)

sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak ||

24.1२४.१

ग्राम्यानूपौदकैश् चैनं पिष्टैर् मांसैः प्रलेपयेत् । (२४।१)

grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet |

24.2२४.२

पित्तविद्रधिवच्चैनं संततोष्माणम् आचरेत् ॥ (२४।२)

pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret ||

25.1२५.१

अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् । (२५।१)

atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām |

25.2२५.२

क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः ॥ (२५।२)

kriyāṃ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ ||

26.1२६.१

तिन्दुकीत्वक्कपालैर् वा घृतमिश्रैः प्रलेपयेत् । (२६।१)

tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet |

26.2२६.२

व्रणं गुडूचीपत्त्रैर् वा छादयेद् अथवौदकैः ॥ (२६।२)

vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ ||

27.1२७.१

क्रियां च निखिलां कुर्याद् भिषक् पित्तविसर्पवत् । (२७।१)

kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat |

27.2२७.२

मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा ॥ (२७।२)

madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā ||

28.1२८.१

मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् । (२८।१)

mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet |

28.2२८.२

सर्वेषाम् अग्निदग्धानाम् एतद् रोपणम् उत्तमम् ॥ (२८।२)

sarveṣām agnidagdhānām etad ropaṇam uttamam ||

29.1२९.१

स्नेह~ मित् निछ्त्-ड़ेत्तेम् (रूक्ष) बेहन्देल्न्स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत् । (२९।१)

sneha~ mit nicht-fettem (rūkṣa) behandelnsnehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet |

29.2२९.२

अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् ॥ (२९।२)

ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam ||

30.1३०.१

श्वसिति क्षौति चात्यर्थम् अत्याधमति कासते । (३०।१)

śvasiti kṣauti cātyartham atyādhamati kāsate |

30.2३०.२

चक्षुषोः परिदाहश् च रागश्चैवोपजायते ॥ (३०।२)

cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate ||

31.1३१.१

सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च । (३१।१)

sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca |

31.2३१.२

तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ॥ (३१।२)

tathaiva ca rasān sarvān śrutiścāsyopahanyate ||

32.1३२.१

रौछ्वेर्गिड़्तुन्ग्तृष्णादाहज्वरयुतः सीदत्यथ च मूर्छति । (३२।१)

Rauchvergiftungtṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati |

32.2३२.२

धूमोपहत इत्येवं शृणु तस्य चिकित्सितम् ॥ (३२।२)

dhūmopahata ityevaṃ śṛṇu tasya cikitsitam ||

33.1३३.१

सर्पिरिक्षुरसं द्राक्षां पयो वा शर्कराम्बु वा । (३३।१)

sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā |

33.2३३.२

मधुराम्लौ रसौ वापि वमनाय प्रदापयेत् ॥ (३३।२)

madhurāmlau rasau vāpi vamanāya pradāpayet ||

34.1३४.१

वमतः कोष्ठशुद्धिः स्याद् धूमगन्धश् च नश्यति । (३४।१)

vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati |

34.2३४.२

विधिनानेन शाम्यन्ति सदनक्षवथुज्वराः ॥ (३४।२)

vidhinānena śāmyanti sadanakṣavathujvarāḥ ||

35.1३५.१

दाहमूर्छातृडाध्मानश्वासकासाश् च दारुणाः । (३५।१)

dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ |

35.2३५.२

मधुरैर् लवणाम्लैश् च कटुकैः कवलग्रहैः ॥ (३५।२)

madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ ||

36.1३६.१

सम्यग्गृह्णातीन्द्रियार्थान् मनश्चास्य प्रसीदति । (३६।१)

samyaggṛhṇātīndriyārthān manaścāsya prasīdati |

36.2३६.२

शिरोविरेचनं चास्मै दद्याद् योगेन शास्त्रवित् ॥ (३६।२)

śirovirecanaṃ cāsmai dadyād yogena śāstravit ||

37.1३७.१

दृष्टिर् विशुध्यते चास्य शिरोग्रीवं च देहिनः । (३७।१)

dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ |

37.2३७.२

अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ॥ (३७।२)

avidāhi laghu snigdhamāhāraṃ cāsya kalpayet ||

38.1३८.१

वेर्ब्रेन्नुन्गेन् दुर्छ् सोन्ने उन्द् Wइन्दुष्णवातातपैर् दग्धे शीतः कार्यो विधिः सदा । (३८।१)

verbrennungen durch sonne und Winduṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā |

38.2३८.२

शीतवर्षानिलैर् दग्धे स्निग्धमुष्णं च शस्यते ॥ (३८।२)

śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate ||

39.1३९.१

हित्ज़्स्छ्लग्तथातितेजसा दग्धे सिद्धिर्नास्ति कथंचन । (३९।१)

Hitzschlagtathātitejasā dagdhe siddhirnāsti kathaṃcana |

39.2३९.२

ब्लित्ज़्स्छ्लगिन्द्रवज्राग्निदग्धे ऽपि जीवति प्रतिकारयेत् । (३९।२)

Blitzschlagindravajrāgnidagdhe 'pi jīvati pratikārayet |

39.3३९.३

स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ॥ (३९।३)

snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 1, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit