Su, 6, 59
Select a line for its word-by-word analysis.
अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः ॥ (१।०)
athāto mūtrakṛcchrapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ ||
वातेन पित्तेन कफेन सर्वैस्तथाभिघातैः शकृदश्मरीभ्याम् । (३।१)
vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām |
तथापरः शर्करया सुकष्टो मूत्रोपघातः कथितो ऽष्टमस्तु ॥ (३।२)
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu ||
हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः । (५।१)
hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ |
स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः । (६।१)
snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ |
वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् । (९।१)
vātabastestu tulyāni tasya liṅgāni lakṣayet |
आध्मानं च सशूलं च मूत्रसङ्गं करोति हि । (१०।१)
ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi |
श्लेष्मणो ऽवयवा भिन्नाः शर्करा इति संज्ञिताः ॥ (१२।२)
śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ ||
हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः । (१३।१)
hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ |
ताभिर् भवति मूर्च्छा च मूत्राघातश्च दारुणः ॥ (१३।२)
tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ ||
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् ॥ (१४।२)
yāvadanyā punarnaiti guḍikā srotaso mukham ||
शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम् । (१५।१)
śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam |
अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् । (१६।१)
aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat |
यथादोषं प्रयुञ्जीत स्नेहादिम् अपि च क्रमम् ॥ (१६।२)
yathādoṣaṃ prayuñjīta snehādim api ca kramam ||
श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम् । (१७।१)
śvadaṃṣṭrāśmabhidau kumbhīṃ hapuṣāṃ kaṇṭakārikām |
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् ॥ (१७।२)
balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām ||
तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत् । (१८।१)
tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet |
तैलं घृतं वा तत् पेयं तेन वाप्यनुवासनम् ॥ (१८।२)
tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam ||
दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये । (१९।१)
dadyāduttarabastiṃ ca vātakṛcchropaśāntaye |
श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् ॥ (१९।२)
śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram ||
पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम् । (२०।१)
paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham |
पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरम् एव वा । (२१।१)
pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā |
दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये ॥ (२१।२)
dadyāduttarabastiṃ ca pittakṛcchropaśāntaye ||
एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु । (२२।१)
ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu |
हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर् युतम् ॥ (२२।२)
hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam ||
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते ॥ (२३।२)
tailaṃ tathā yavāgvādi kaphāghāte praśasyate ||
फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा ॥ (२४।२)
phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā ||
सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् । (२५।१)
surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham |
तथाभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् ॥ (२५।२)
tathābhighātaje kuryāt sadyovraṇacikitsitam ||
मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया । (२६।१)
mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā |
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा ॥ (२६।२)
svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā ||
ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः ॥ (२७।१)
ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.