सुश्रुतसंहिताSuśrutasaṃhitā

Su, 5, 2

114 of 186 · 107 verses

Select a line for its word-by-word analysis.

1.0१.०

अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ (१।०)

athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||

2.0२.०

यथोवाच भगवान् धन्वन्तरिः ॥ (२।०)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

स्थावरं जङ्गमं चैव द्विविधं विषम् उच्यते । (३।१)

sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate |

3.2३.२

दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ॥ (३।२)

daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam ||

4.1४.१

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च । (४।१)

mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca |

4.2४.२

निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ (४।२)

niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ ||

5.0५.०

तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि विषपत्त्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि फेनाश्महरितालं च द्वे धातुविषे कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ॥ (५।०)

tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti ||

6.1६.१

चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते । (६।१)

catvāri vatsanābhāni mustake dve prakīrtite |

6.2६.२

षट् चैव सर्षपाण्याहुः शेषाण्येकैकम् एव तु ॥ (६।२)

ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu ||

7.1७.१

उद्वेष्टनं मूलविषैः प्रलापो मोह एव च । (७।१)

udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca |

7.2७.२

जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ॥ (७।२)

jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu ||

8.1८.१

मुष्कशोफः फलविषैर् दाहो ऽन्नद्वेष एव च । (८।१)

muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca |

8.2८.२

भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ॥ (८।२)

bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca ||

9.1९.१

त्वक्सारनिर्यासविषैर् उपयुक्तैर् भवन्ति हि । (९।१)

tvaksāraniryāsaviṣair upayuktair bhavanti hi |

9.2९.२

आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ॥ (९।२)

āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ ||

10.1१०.१

फेनागमः क्षीरविषैर् विड्भेदो गुरुजिह्वता । (१०।१)

phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā |

10.2१०.२

हृत्पीडनं धातुविषैर् मूर्च्छा दाहश्च तालुनि ॥ (१०।२)

hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaśca tāluni ||

11.1११.१

प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् । (११।१)

prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet |

11.2११.२

कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ॥ (११।२)

kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram ||

12.1१२.१

स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च । (१२।१)

sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca |

12.2१२.२

ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ॥ (१२।२)

grīvāstambho vatsanābhe pītaviṇmūtranetratā ||

13.1१३.१

सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च । (१३।१)

sarṣape vātavaiguṇyamānāho granthijanma ca |

13.2१३.२

ग्रीवादौर्बल्यवाक्सङ्गौ पालके ऽनुमताविह ॥ (१३।२)

grīvādaurbalyavāksaṅgau pālake 'numatāviha ||

14.1१४.१

प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता । (१४।१)

prasekaḥ kardamākhyena viḍbhedo netrapītatā |

14.2१४.२

वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ॥ (१४।२)

vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate ||

15.1१५.१

गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु । (१५।१)

gātrastambho vepathuśca jāyate mustakena tu |

15.2१५.२

शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ॥ (१५।२)

śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ ||

16.1१६.१

पुण्डरीकेण रक्तत्वम् अक्ष्णोर् वृद्धिस्तथोदरे । (१६।१)

puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare |

16.2१६.२

वैवर्ण्यं मूलकैश् छर्दिर् हिक्काशोफप्रमूढताः ॥ (१६।२)

vaivarṇyaṃ mūlakaiś chardir hikkāśophapramūḍhatāḥ ||

17.1१७.१

चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै । (१७।१)

cireṇocchvasiti śyāvo naro hālāhalena vai |

17.2१७.२

महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥ (१७।२)

mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam ||

18.1१८.१

कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि । (१८।१)

karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi |

18.2१८.२

कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश ॥ (१८।२)

kandajānyugravīryāṇi pratyuktāni trayodaśa ||

19.1१९.१

सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर् गुणैः । (१९।१)

sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ |

19.2१९.२

रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ॥ (१९।२)

rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca ||

20.1२०.१

विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम् । (२०।१)

vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam |

20.2२०.२

तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् ॥ (२०।२)

tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam ||

21.1२१.१

मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च । (२१।१)

matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca |

21.2२१.२

शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ॥ (२१।२)

śarīrāvayavān saukṣmyāt praviśedvikaroti ca ||

22.1२२.१

आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् । (२२।१)

āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet |

22.2२२.२

क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलान् अपि ॥ (२२।२)

kṣapayecca vikāśitvāddoṣāndhātūnmalān api ||

23.1२३.१

वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात् । (२३।१)

vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt |

23.2२३.२

दुर्हरं चाविपाकित्वात् तस्मात् क्लेशयते चिरम् ॥ (२३।२)

durharaṃ cāvipākitvāt tasmāt kleśayate ciram ||

24.0२४.०

स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ॥ (२४।०)

sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam ||

25.1२५.१

सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् । (२५।१)

sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam |

25.2२५.२

यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत् । (२५।२)

yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat |

25.3२५.३

जीर्णं विषघ्नौषधिभिर् हतं वा दावाग्निवातातपशोषितं वा ॥ (२५।३)

jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā ||

26.1२६.१

स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषताम् उपैति । (२६।१)

svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti |

26.2२६.२

वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ॥ (२६।२)

vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi ||

27.1२७.१

तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी । (२७।१)

tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī |

27.2२७.२

मूर्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः ॥ (२७।२)

mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ ||

28.1२८.१

आमाशयस्थे कफवातरोगी पक्वाशयस्थे ऽनिलपित्तरोगी । (२८।१)

āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī |

28.2२८.२

भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ॥ (२८।२)

bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ ||

29.1२९.१

स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् । (२९।१)

sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān |

29.2२९.२

कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम् ॥ (२९।२)

kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam ||

30.1३०.१

निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाङ्गमर्दः । (३०।१)

nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ |

30.2३०.२

ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ॥ (३०।२)

tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān ||

31.1३१.१

धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् । (३१।१)

dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram |

31.2३१.२

वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ॥ (३१।२)

vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā ||

32.1३२.१

उन्मादम् अन्यज्जनयेत् तथान्यदानाहम् अन्यत् क्षपयेच्च शुक्रम् । (३२।१)

unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram |

32.2३२.२

गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ॥ (३२।२)

gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān ||

33.1३३.१

देड़िनितिओन् दूषीविषदूषितं देशकालान्नदिवास्वप्नैर् अभीक्ष्णशः । (३३।१)

Definition dūṣīviṣadūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ |

33.2३३.२

यस्माद्दूषयते धातून् तस्माद् दूषीविषं स्मृतम् ॥ (३३।२)

yasmāddūṣayate dhātūn tasmād dūṣīviṣaṃ smṛtam ||

34.1३४.१

स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् । (३४।१)

sthāvarasyopayuktasya vege tu prathame nṛṇām |

34.2३४.२

श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ॥ (३४।२)

śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate ||

35.1३५.१

द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा । (३५।१)

dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā |

35.2३५.२

विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ॥ (३५।२)

viṣamāmāśayaprāptaṃ kurute hṛdi vedanām ||

36.1३६.१

तालुशोषं तृतीये तु शूलं चामाशये भृशम् । (३६।१)

tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam |

36.2३६.२

दुर्वर्णे हरिते शूने जायेते चास्य लोचने ॥ (३६।२)

durvarṇe harite śūne jāyete cāsya locane ||

37.1३७.१

पक्वामाशययोस्तोदो हिक्का कासो ऽन्त्रकूजनम् । (३७।१)

pakvāmāśayayostodo hikkā kāso 'ntrakūjanam |

37.2३७.२

चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥ (३७।२)

caturthe jāyate vege śirasaścātigauravam ||

38.1३८.१

कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे । (३८।१)

kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame |

38.2३८.२

सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ॥ (३८।२)

sarvadoṣaprakopaśca pakvādhāne ca vedanā ||

39.1३९.१

षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते । (३९।१)

ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ cāpyatisāryate |

39.2३९.२

स्कन्धपृष्ठकटीभङ्गः संनिरोधश्च सप्तमे ॥ (३९।२)

skandhapṛṣṭhakaṭībhaṅgaḥ saṃnirodhaśca saptame ||

40.1४०.१

प्रथमे विषवेगे तु वान्ते शीताम्बुसेचितम् । (४०।१)

prathame viṣavege tu vānte śītāmbusecitam |

40.2४०.२

अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ॥ (४०।२)

agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam ||

41.1४१.१

द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् । (४१।१)

dvitīye pūrvavadvāntaṃ pāyayettu virecanam |

41.2४१.२

तृतीये ऽगदपानं तु हितं नस्यं तथाञ्जनम् ॥ (४१।२)

tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam ||

42.1४२.१

चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक् । (४२।१)

caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak |

42.2४२.२

पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ॥ (४२।२)

pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ||

43.1४३.१

षष्ठे ऽतीसारवत् सिद्धिरवपीडश्च सप्तमे । (४३।१)

ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame |

43.2४३.२

मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ॥ (४३।२)

mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet ||

44.1४४.१

वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् । (४४।१)

vegāntare tvanyatame kṛte karmaṇi śītalām |

44.2४४.२

यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ॥ (४४।२)

yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām ||

45.1४५.१

कोषातक्यो ऽग्निकः पाठासूर्यवल्ल्यमृताभयाः । (४५।१)

koṣātakyo 'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ |

45.2४५.२

शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ॥ (४५।२)

śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam ||

46.1४६.१

पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला । (४६।१)

punarnave hareṇuśca trikaṭuḥ sārive balā |

46.2४६.२

एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ॥ (४६।२)

eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam ||

47.1४७.१

मधुकं तगरं कुष्ठं भद्रदारु हरेणवः । (४७।१)

madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ |

47.2४७.२

पुंनागैलैलवालूनि नागपुष्पोत्पलं सिता ॥ (४७।२)

puṃnāgailailavālūni nāgapuṣpotpalaṃ sitā ||

48.1४८.१

विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा । (४८।१)

viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā |

48.2४८.२

हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ॥ (४८।२)

haridre dve bṛhatyau ca sārive ca sthirā sahā ||

49.1४९.१

कल्कैर् एषां घृतं सिद्धमजेयमिति विश्रुतम् । (४९।१)

kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam |

49.2४९.२

विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ॥ (४९।२)

viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit ||

50.1५०.१

दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् । (५०।१)

dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam |

50.2५०.२

पाययेतागदं नित्यमिमं दूषीविषापहम् ॥ (५०।२)

pāyayetāgadaṃ nityamimaṃ dūṣīviṣāpaham ||

51.1५१.१

पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् । (५१।१)

pippalyo dhyāmakaṃ māṃsī śāvaraḥ paripelavam |

51.2५१.२

सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ॥ (५१।२)

suvarcikā sasūkṣmailā toyaṃ kanakagairikam ||

52.1५२.१

क्षौद्रयुक्तो ऽगदो ह्येष दूषीविषमपोहति । (५२।१)

kṣaudrayukto 'gado hyeṣa dūṣīviṣamapohati |

52.2५२.२

नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ॥ (५२।२)

nāmnā dūṣīviṣāristu na cānyatrāpi vāryate ||

53.1५३.१

ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये । (५३।१)

jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye |

53.2५३.२

शोफे ऽतिसारे मूर्च्छायां हृद्रोगे जठरे ऽपि च ॥ (५३।२)

śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca ||

54.1५४.१

उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः । (५४।१)

unmāde vepathau caiva ye cānye syurupadravāḥ |

54.2५४.२

यथास्वं तेषु कुर्वीत विषघ्नैर् औषधैः क्रियाम् ॥ (५४।२)

yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām ||

55.1५५.१

साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् । (५५।१)

sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam |

55.2५५.२

दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ॥ (५५।२)

dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 5, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit