सुश्रुतसंहिताSuśrutasaṃhitā

Su, 6, 58

178 of 186 · 142 verses

Select a line for its word-by-word analysis.

1.0१.०

अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः ॥ (१।०)

athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ ||

2.0२.०

यथोवाच भगवान् धन्वन्तरिः ॥ (२।०)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

वातकुण्डलिकाष्ठीला वातवस्तिस्तथैव च । (३।१)

vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca |

3.2३.२

मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ॥ (३।२)

mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā ||

4.1४.१

मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च । (४।१)

mūtragranthirmūtraśukramuṣṇavātastathaiva ca |

4.2४.२

मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ॥ (४।२)

mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ ||

5.1५.१

रौक्ष्याद्वेगविघाताद्वा वायुर् अन्तरम् आश्रितः । (५।१)

raukṣyādvegavighātādvā vāyur antaram āśritaḥ |

5.2५.२

मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः ॥ (५।२)

mūtraṃ carati saṃgṛhya viguṇaḥ kuṇḍalīkṛtaḥ ||

6.1६.१

सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः । (६।१)

sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ |

6.2६.२

वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ॥ (६।२)

vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam ||

7.1७.१

शकृन्मार्गस्य बस्तेश्च वायुर् अन्तरमाश्रितः । (७।१)

śakṛnmārgasya basteśca vāyur antaramāśritaḥ |

7.2७.२

अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम् ॥ (७।२)

aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam ||

8.1८.१

विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते । (८।१)

viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate |

8.2८.२

वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ॥ (८।२)

vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ ||

9.1९.१

वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः । (९।१)

vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ |

9.2९.२

निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतो ऽनिलः ॥ (९।२)

niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ ||

10.1१०.१

मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः । (१०।१)

mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ |

10.2१०.२

वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ॥ (१०।२)

vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||

11.1११.१

वेगं संधार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति । (११।१)

vegaṃ saṃdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati |

11.2११.२

तस्य नाभ्येति यदि वा कथंचित् सम्प्रवर्तते ॥ (११।२)

tasya nābhyeti yadi vā kathaṃcit sampravartate ||

12.1१२.१

प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः । (१२।१)

pravāhato mandarujamalpamalpaṃ punaḥ punaḥ |

12.2१२.२

मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् ॥ (१२।२)

mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam ||

13.1१३.१

मूत्रस्य विहते वेगे तदुदावर्तहेतुना । (१३।१)

mūtrasya vihate vege tadudāvartahetunā |

13.2१३.२

अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ॥ (१३।२)

apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam ||

14.1१४.१

नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् । (१४।१)

nābheradhastādādhmānaṃ janayettīvravedanam |

14.2१४.२

तं मूत्रजठरं विद्याद् अधःस्रोतोनिरोधनम् ॥ (१४।२)

taṃ mūtrajaṭharaṃ vidyād adhaḥsrotonirodhanam ||

15.1१५.१

बस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः । (१५।१)

bastau vāpyathavā nāle maṇau vā yasya dehinaḥ |

15.2१५.२

मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ॥ (१५।२)

mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ ||

16.1१६.१

स्रवेच्छनैरल्पमल्पं सरुजं वाथ नीरुजम् । (१६।१)

sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam |

16.2१६.२

विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ॥ (१६।२)

viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ ||

17.1१७.१

रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ । (१७।१)

rūkṣasya klāntadehasya bastisthau pittamārutau |

17.2१७.२

सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम् ॥ (१७।२)

sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam ||

18.1१८.१

अभ्यन्तरे बस्तिमुखे वृत्तो ऽल्पः स्थिर एव च । (१८।१)

abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca |

18.2१८.२

वेदनावानति सदा मूत्रमार्गनिरोधनः ॥ (१८।२)

vedanāvānati sadā mūtramārganirodhanaḥ ||

19.1१९.१

जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः । (१९।१)

jāyate sahasā yasya granthiraśmarilakṣaṇaḥ |

19.2१९.२

स मूत्रग्रन्थिरित्येवम् उच्यते वेदनादिभिः ॥ (१९।२)

sa mūtragranthirityevam ucyate vedanādibhiḥ ||

20.1२०.१

प्रत्युपस्थितमूत्रस्तु मैथुनं यो ऽभिनन्दति । (२०।१)

pratyupasthitamūtrastu maithunaṃ yo 'bhinandati |

20.2२०.२

तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते ॥ (२०।२)

tasya mūtrayutaṃ retaḥ sahasā sampravartate ||

21.1२१.१

पुरस्ताद्वापि मूत्रस्य पश्चाद्वापि कदाचन । (२१।१)

purastādvāpi mūtrasya paścādvāpi kadācana |

21.2२१.२

भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥ (२१।२)

bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate ||

22.1२२.१

व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम् । (२२।१)

vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam |

22.2२२.२

बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः ॥ (२२।२)

bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ ||

23.1२३.१

मूत्रं हारिद्रमथवा सरक्तं रक्तम् एव वा । (२३।१)

mūtraṃ hāridramathavā saraktaṃ raktam eva vā |

23.2२३.२

कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् ॥ (२३।२)

kṛcchrāt pravartate jantoruṣṇavātaṃ vadanti tam ||

24.1२४.१

विशदं पीतकं मूत्रं सदाहं बहलं तथा । (२४।१)

viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā |

24.2२४.२

शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् ॥ (२४।२)

śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham ||

25.1२५.१

मूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः । (२५।१)

mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ |

25.2२५.२

पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् ॥ (२५।२)

picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam ||

26.1२६.१

शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् । (२६।१)

śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram |

26.2२६.२

मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् ॥ (२६।२)

mūtraukasādaṃ taṃ vidyādāmayaṃ dvādaśaṃ kaphāt ||

27.1२७.१

कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च । (२७।१)

kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca |

27.2२७.२

क्षारमद्यासवस्वेदान् बस्तींश्चोत्तरसंज्ञितान् ॥ (२७।२)

kṣāramadyāsavasvedān bastīṃścottarasaṃjñitān ||

28.1२८.१

विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् । (२८।१)

vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam |

28.2२८.२

मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् ॥ (२८।२)

mūtrodāvartayogāṃśca kārtsnyenātra prayojayet ||

29.1२९.१

कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम् । (२९।१)

kalkamervārubījānāmakṣamātraṃ sasaindhavam |

29.2२९.२

धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते ॥ (२९।२)

dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate ||

30.1३०.१

सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः । (३०।१)

surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ |

30.2३०.२

मधु मांसोपदंशं वा पिबेद्वाप्यथ गौडिकम् ॥ (३०।२)

madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam ||

31.1३१.१

पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम् । (३१।१)

pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam |

31.2३१.२

रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ॥ (३१।२)

rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt ||

32.1३२.१

दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः । (३२।१)

dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ |

32.2३२.२

पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ॥ (३२।२)

pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate ||

33.1३३.१

पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च । (३३।१)

pṛthakparṇyādivargasya mūlaṃ gokṣurakasya ca |

33.2३३.२

अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ॥ (३३।२)

ardhaprasthena toyasya pacet kṣīracaturguṇam ||

34.1३४.१

क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत् । (३४।१)

kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet |

34.2३४.२

नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ॥ (३४।२)

naro mārutapittotthamūtrāghātanivāraṇam ||

35.1३५.१

निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः । (३५।१)

niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ |

35.2३५.२

रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ॥ (३५।२)

rasasya kuḍavaṃ tasya pibenmūtrarujāpaham ||

36.1३६.१

मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च । (३६।१)

mustābhayādevadārumūrvāṇāṃ madhukasya ca |

36.2३६.२

पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ॥ (३६।२)

pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam ||

37.1३७.१

अभयामलकाक्षाणां कल्कं बदरसंमितम् । (३७।१)

abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam |

37.2३७.२

अम्भसालवणोपेतं पिबेन्मूत्ररुजापहम् ॥ (३७।२)

ambhasālavaṇopetaṃ pibenmūtrarujāpaham ||

38.1३८.१

उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् । (३८।१)

udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam |

38.2३८.२

पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ॥ (३८।२)

pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham ||

39.1३९.१

निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम् । (३९।१)

nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam |

39.2३९.२

मूत्रदोषहरं कल्यमथवा क्षौद्रसंयुतम् ॥ (३९।२)

mūtradoṣaharaṃ kalyamathavā kṣaudrasaṃyutam ||

40.1४०.१

प्रपीड्यामलकानां तु रसं कुडवसंमितम् । (४०।१)

prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam |

40.2४०.२

पीत्वागदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ॥ (४०।२)

pītvāgadī bhavejjanturmūtradoṣarujāturaḥ ||

41.1४१.१

धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः । (४१।१)

dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ |

41.2४१.२

पिष्ट्वाथवा सुशीतेन शालितण्डुलवारिणा ॥ (४१।२)

piṣṭvāthavā suśītena śālitaṇḍulavāriṇā ||

42.1४२.१

तालस्य तरुणं मूलं त्रपुसस्य रसं तथा । (४२।१)

tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā |

42.2४२.२

श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ॥ (४२।२)

śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet ||

43.1४३.१

शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः । (४३।१)

śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ |

43.2४३.२

मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ॥ (४३।२)

mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam ||

44.1४४.१

बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान् । (४४।१)

balāśvadaṃṣṭrākrauñcāsthikokilākṣakataṇḍulān |

44.2४४.२

शतपर्वकमूलं च देवदारु सचित्रकम् ॥ (४४।२)

śataparvakamūlaṃ ca devadāru sacitrakam ||

45.1४५.१

अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः । (४५।१)

akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ |

45.2४५.२

मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ॥ (४५।२)

mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam ||

46.1४६.१

पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम् । (४६।१)

pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam |

46.2४६.२

पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ॥ (४६।२)

pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā ||

47.1४७.१

नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान् । (४७।१)

nalāśmabhedadarbhekṣutrapusairvārubījakān |

47.2४७.२

क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ॥ (४७।२)

kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān ||

48.1४८.१

पाटल्या यावशूकाच्च पारिभद्रात्तिलाद् अपि । (४८।१)

pāṭalyā yāvaśūkācca pāribhadrāttilād api |

48.2४८.२

क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ॥ (४८।२)

kṣārodakena matimān tvageloṣaṇacūrṇakam ||

49.1४९.१

पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक् । (४९।१)

pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak |

49.2४९.२

अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ॥ (४९।२)

ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam ||

50.1५०.१

स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम् । (५०।१)

snehasvedopapannānāṃ hitaṃ teṣu virecanam |

50.2५०.२

ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ॥ (५०।२)

tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ ||

51.1५१.१

स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते । (५१।१)

strīṇāmatiprasaṅgena śoṇitaṃ yasya dṛśyate |

51.2५१.२

मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ॥ (५१।२)

maithunoparamastasya bṛṃhaṇaśca vidhiḥ smṛtaḥ ||

52.1५२.१

ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु । (५२।१)

tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu |

52.2५२.२

विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ॥ (५२।२)

vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam ||

53.1५३.१

क्षौद्रार्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः । (५३।१)

kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ |

53.2५३.२

शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम् ॥ (५३।२)

śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam ||

54.1५४.१

स्वयंगुप्ताफलं चैव तथैवेक्षुरकस्य च । (५४।१)

svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca |

54.2५४.२

पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ॥ (५४।२)

pippalīcūrṇasaṃyuktamardhabhāgaṃ prakalpayet ||

55.1५५.१

तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् । (५५।१)

tadaikadhyaṃ samānīya khajenābhipramanthayet |

55.2५५.२

ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ॥ (५५।२)

tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet ||

56.1५६.१

एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा । (५६।१)

etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā |

56.2५६.२

मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ॥ (५६।२)

mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān ||

57.1५७.१

जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च । (५७।१)

jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca |

57.2५७.२

नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ॥ (५७।२)

nārī caitat prayuñjānā yonidoṣāt pramucyate ||

58.1५८.१

बला कोलास्थि मधुकं श्वदंष्ट्राथ शतावरी । (५८।१)

balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī |

58.2५८.२

मृणालं च कसेरुश्च बीजानीक्षुरकस्य च ॥ (५८।२)

mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca ||

59.1५९.१

सहस्रवीर्यांशुमती पयस्या सह कालया । (५९।१)

sahasravīryāṃśumatī payasyā saha kālayā |

59.2५९.२

शृगालविन्नातिबला बृंहणीयो गणस्तथा ॥ (५९।२)

śṛgālavinnātibalā bṛṃhaṇīyo gaṇastathā ||

60.1६०.१

एतानि समभागानि मतिमान् सह साधयेत् । (६०।१)

etāni samabhāgāni matimān saha sādhayet |

60.2६०.२

चतुर्गुणेन पयसा गुडस्य तुलया सह ॥ (६०।२)

caturguṇena payasā guḍasya tulayā saha ||

61.1६१.१

द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् । (६१।१)

droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam |

61.2६१.२

तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् ॥ (६१।२)

tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam ||

62.1६२.१

सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते । (६२।१)

sarpiretat prayuñjāno mūtradoṣāt pramucyate |

62.2६२.२

तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ॥ (६२।२)

tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca ||

63.1६३.१

क्षौद्रेण तुल्यान्यालोड्य प्रशस्ते ऽहनि लेहयेत् । (६३।१)

kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet |

63.2६३.२

तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ॥ (६३।२)

tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet ||

64.1६४.१

शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः । (६४।१)

śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ |

64.2६४.२

व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ॥ (६४।२)

vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham ||

65.1६५.१

ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति । (६५।१)

ojasvī balavānmartyaḥ pibanneva ca hṛṣyati |

65.2६५.२

चित्रकः सारिवा चैव बला कालानुसारिवा ॥ (६५।२)

citrakaḥ sārivā caiva balā kālānusārivā ||

66.1६६.१

द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् । (६६।१)

drākṣā viśālā pippalyastathā citraphalā bhavet |

66.2६६.२

तथैव मधुकं पथ्यां दद्यादामलकानि च ॥ (६६।२)

tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca ||

67.1६७.१

घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः । (६७।१)

ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ |

67.2६७.२

क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ (६७।२)

kṣīradroṇe jaladroṇe tatsiddhamavatārayet ||

68.1६८.१

शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् । (६८।१)

śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam |

68.2६८.२

तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ॥ (६८।२)

tugākṣīryāśca tat sarvaṃ matimān parimiśrayet ||

69.1६९.१

ततो मितं पिबेत्काले यथादोषं यथाबलम् । (६९।१)

tato mitaṃ pibetkāle yathādoṣaṃ yathābalam |

69.2६९.२

वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ॥ (६९।२)

vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet ||

70.1७०.१

रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् । (७०।१)

raktaretā granthiretāḥ pibedicchannarogatām |

70.2७०.२

जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ॥ (७०।२)

jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham ||

71.1७१.१

प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् । (७१।१)

prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam |

71.2७१.२

सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभते ऽचिरात् ॥ (७१।२)

sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt ||

72.1७२.१

असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान् । (७२।१)

asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān |

72.2७२.२

मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ (७२।२)

mūtradoṣeṣu sarveṣu kuryādetaccikitsitam ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 6, 58

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit