Su, 6, 18
Select a line for its word-by-word analysis.
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः । (३।१)
sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ |
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ॥ (३।२)
vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatirmuniḥ ||
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ॥ (४।२)
tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me ||
पूर्वाह्णे वापराह्णे वा कार्यम् अक्ष्णोस् तु तर्पणम् ॥ (५।२)
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam ||
आ पक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु । (८।१)
ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu |
स्वस्थे कफे षट् पित्ते ऽष्टौ दश वाते तदुत्तमम् ॥ (८।२)
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam ||
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ॥ (९।२)
yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca ||
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत् । (१०।१)
daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet |
ततश्चापाङ्गतः स्नेहं स्रावयित्वाक्षि शोधयेत् ॥ (१०।२)
tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet ||
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः । (११।१)
svinnena yavapiṣṭena snehavīryeritaṃ tataḥ |
एकाहं वा त्र्यहं वापि पञ्चाहं चेष्यते परम् । (१२।१)
ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param |
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् ॥ (१२।२)
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet ||
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम् । (१३।१)
sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam |
निर्वृतिर्व्याधिविध्वंसः क्रियालाघवम् एव च ॥ (१३।२)
nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca ||
गुर्वाविलम् अतिस्निग्धम् अश्रुकण्डूपदेहवत् । (१४।१)
gurvāvilam atisnigdham aśrukaṇḍūpadehavat |
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् ॥ (१४।२)
jñeyaṃ doṣasamutkliṣṭaṃ netramatyarthatarpitam ||
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च ॥ (१५।२)
vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca ||
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् ॥ (१६।२)
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit ||
ताम्यत्यतिविशुष्कं यद्रूक्षं यच्चातिदारुणम् । (१७।१)
tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam |
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् ॥ (१७।२)
śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam ||
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च ॥ (१८।२)
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca ||
अशान्तोपद्रवे चाक्ष्णि तर्पणं न प्रशस्यते । (१९।१)
aśāntopadrave cākṣṇi tarpaṇaṃ na praśasyate |
पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम् ॥ (१९।२)
puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam ||
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये । (२०।१)
tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye |
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् । (२१।१)
puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet |
हितः स्निग्धो ऽतिरूक्षस्य स्निग्धस्यापि च लेखनः । (२२।१)
hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ |
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् ॥ (२२।२)
dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut ||
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः । (२३।१)
snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ |
स्नेहतः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः ॥ (२३।२)
snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ ||
जाङ्गलानां यकृन्मांसैर् लेखनद्रव्यसंभृतैः । (२४।१)
jāṅgalānāṃ yakṛnmāṃsair lekhanadravyasaṃbhṛtaiḥ |
लेखनो वाक्शतं तस्य परं धारणम् उच्यते ॥ (२५।२)
lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate ||
स्तन्यजाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः । (२६।१)
stanyajāṅgalamadhvājyatiktadravyavipācitaḥ |
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः ॥ (२६।२)
lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ ||
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम् । (२७।१)
vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam |
स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे ॥ (२७।२)
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe ||
एकाहं वा द्व्यहं वापि त्र्यहं वाप्यवचारणम् । (२८।१)
ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam |
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते ॥ (२८।२)
yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate ||
अञ्जनाश्च्योतनस्वेदैर् यथास्वं तमुपाचरेत् ॥ (३०।२)
añjanāścyotanasvedair yathāsvaṃ tamupācaret ||
पाको ऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ॥ (३२।२)
pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā ||
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम् । (३३।१)
ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam |
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ॥ (३३।२)
dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau ||
द्रव्याणां बिल्वमात्रं तु द्रवाणां कुडवो मतः । (३४।१)
dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ |
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ॥ (३४।२)
tadaikadhyaṃ samāloḍya patraiḥ supariveṣṭitam ||
सक्षीरद्रुमकाष्ठैर् वा गोमयैर् वापि युक्तितः ॥ (३६।२)
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ ||
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम् । (३७।१)
svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām |
कनीनके निषेच्यः स्यान्नित्यम् उत्तानशायिनः । (३८।१)
kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ |
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ॥ (३८।२)
rakte pitte ca tau śītau koṣṇau vātakaphāpahau ||
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ । (३९।१)
atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau |
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ॥ (३९।२)
aplutau śītalau cāśrustambharuggharṣakārakau ||
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ । (४२।१)
tasmāt pariharan doṣān vidadhyāttau sukhāvahau |
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर् जयेत् ॥ (४२।२)
vyāpadaśca yathādoṣaṃ nasyadhūmāñjanair jayet ||
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः । (४३।१)
ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ |
तथा हितो ऽवसाने च धूमः श्लेष्मसमुच्छ्रितः ॥ (४३।२)
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ ||
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ॥ (४४।२)
rogamāścyotanaṃ hanti sekastu balavattaram ||
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ॥ (४५।२)
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa ||
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे । (४६।१)
āścyotane prayoktavyā dvādaśaiva tu ropaṇe |
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ॥ (४६।२)
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ ||
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ॥ (४७।२)
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ ||
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते । (४८।१)
yogāyogāt snehaseke tarpaṇoktān pracakṣate |
रोगाञ्छिरसि सम्भूतान् हत्वातिप्रबलान् गुणान् ॥ (४८।२)
rogāñchirasi sambhūtān hatvātiprabalān guṇān ||
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः । (४९।१)
karoti śiraso bastiruktā ye mūrdhatailikāḥ |
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ॥ (४९।२)
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu ||
ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम् । (५०।१)
ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham |
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ॥ (५०।२)
yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet ||
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत् । (५२।१)
netra eva sthite doṣe prāptamañjanamācaret |
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान् । (५३।१)
tatra pañca rasān vyastānādyaikarasavarjitān |
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रितः ॥ (५३।२)
pañcadhā lekhanaṃ yuñjyādyathādoṣamatandritaḥ ||
मुखनासाक्षिभिर् दोषमोजसा स्रावयेत्तु तत् ॥ (५४।२)
mukhanāsākṣibhir doṣamojasā srāvayettu tat ||
कषायं तिक्तकं वापि सस्नेहं रोपणं मतम् । (५५।१)
kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam |
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ॥ (५५।२)
tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam ||
मधुरं स्नेहसम्पन्नम् अञ्जनं तु प्रसादनम् । (५६।१)
madhuraṃ snehasampannam añjanaṃ tu prasādanam |
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ॥ (५६।२)
dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam ||
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ॥ (५७।२)
añjanāni yathoktāni prāhṇasāyāhnarātriṣu ||
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ॥ (५८।२)
yathāpūrvaṃ balaṃ teṣāṃ śreṣṭhamāhurmanīṣiṇaḥ ||
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः । (५९।१)
hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ |
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ॥ (५९।२)
prasādanasya cādhyardhā dviguṇā ropaṇasya ca ||
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ॥ (६०।२)
dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ ||
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि । (६१।१)
teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi |
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ॥ (६१।२)
sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam ||
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा । (६३।१)
aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā |
औदुम्बर्यश्मजा वापि शारीरी वा हिता भवेत् ॥ (६३।२)
audumbaryaśmajā vāpi śārīrī vā hitā bhavet ||
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम् । (६५।१)
āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam |
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ॥ (६५।२)
vartmopalepi vā yattadaṅgulyaiva prayojayet ||
अक्षि नात्यन्तयोर् अञ्ज्याद् बाधमानो ऽपि वा भिषक् । (६६।१)
akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak |
न चानिर्वान्तदोषे ऽक्ष्णि धावनं संप्रयोजयेत् ॥ (६६।२)
na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet ||
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा । (६७।१)
doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā |
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः । (६८।१)
prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ |
वेगाघातशिरोदोषैश्चार्तानां नेष्यते ऽञ्जनम् । (६९।१)
vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam |
निद्राक्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम् । (७०।१)
nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam |
संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम् । (७१।१)
saṃrambhaśūlau nasyānte śiroruji śirorujam |
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च । (७२।१)
doṣasthairyādapārthaṃ syāddoṣotkleśaṃ karoti ca |
अजीर्णे ऽप्येवम् एव स्यात् स्रोतोमार्गावरोधनात् ॥ (७२।२)
ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt ||
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्रवान् । (७३।१)
doṣavegodaye dattaṃ kuryāttāṃstānupadravān |
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ॥ (७३।२)
tasmāt pariharan doṣānañjanaṃ sādhu yojayet ||
यथास्वं धूमकवलैर् नस्यैश्चापि समुत्थिताः । (७५।१)
yathāsvaṃ dhūmakavalair nasyaiścāpi samutthitāḥ |
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ॥ (७५।२)
viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam ||
संशान्तोपद्रवं नेत्रं विरिक्तं सम्यगादिशेत् । (७६।१)
saṃśāntopadravaṃ netraṃ viriktaṃ samyagādiśet |
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ॥ (७६।२)
jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca ||
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः । (७७।१)
netraṃ virekātiyoge syandate cātimātraśaḥ |
तत्र संतर्पणं कार्यं विधानं चानिलापहम् ॥ (७७।२)
tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham ||
ज्ञेयं प्रसादने सम्यगुपयुक्ते ऽक्षि निर्वृतम् ॥ (७९।२)
jñeyaṃ prasādane samyagupayukte 'kṣi nirvṛtam ||
किंचिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति । (८०।१)
kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati |
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ॥ (८०।२)
tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu ||
प्रसादनवदाचष्टे तस्मिन् युक्ते ऽतिभेषजम् ॥ (८१।२)
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam ||
कर्तव्यं मात्रया तस्माद् अञ्जनं सिद्धिमिच्छता ॥ (८२।२)
kartavyaṃ mātrayā tasmād añjanaṃ siddhimicchatā ||
दृष्टेर्बलविवृद्ध्यर्थं याप्यरोगक्षयाय च । (८४।१)
dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca |
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ॥ (८४।२)
rājārhānyañjanāgryāṇi nibodhemānyataḥ param ||
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक् । (८६।१)
ekādaśaitān bhāgāṃstu yojayet kuśalo bhiṣak |
खदिराश्मन्तकाङ्गारैर् गोशकृद्भिरथापि वा । (८७।१)
khadirāśmantakāṅgārair gośakṛdbhirathāpi vā |
गवां शकृद्रसे मूत्रे दध्नि सर्पिषि माक्षिके ॥ (८७।२)
gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike ||
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ॥ (८९।२)
niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ ||
ततो ऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले । (९०।१)
tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale |
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ॥ (९०।२)
viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā ||
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ॥ (९१।२)
etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe ||
शातकुम्भे ऽथ शार्ङ्गे वा राजते वा सुसंस्कृते । (९२।२)
śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte |
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ॥ (९२।३)
sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet ||
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः । (९३।१)
tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ |
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ॥ (९३।२)
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ ||
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम् । (९४।१)
kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam |
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ॥ (९४।२)
meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca ||
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम् । (९५।१)
utpalasya bṛhatyośca padmasyāpi ca keśaram |
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम् । (९६।१)
kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām |
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ॥ (९६।२)
maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām ||
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत् । (९७।१)
kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat |
वक्रं समरिचं चैव मांसीं शैलेयम् एव च । (९८।१)
vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca |
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ॥ (९८।२)
tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā ||
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतो ऽञ्जनम् । (९९।१)
patrasya bhāgāścatvāro dviguṇaṃ sarvato 'ñjanam |
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम् । (१००।१)
manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam |
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः ॥ (१००।२)
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ ||
रोध्रं सावरकं चूर्णमायसं ताम्रम् एव च । (१०१।१)
rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca |
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः । (१०२।१)
tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ |
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा । (१०३।१)
kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā |
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् ॥ (१०३।२)
eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam ||
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत् । (१०४।१)
ājena payasā piṣṭvā tāmrapātraṃ pralepayet |
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः ॥ (१०४।२)
saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ ||
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर् मरिचषोडशा । (१०५।१)
pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā |
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता ॥ (१०५।२)
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā ||
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रितः ॥ (१०६।२)
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.