सुश्रुतसंहिताSuśrutasaṃhitā

Su, 1, 25

25 of 186 · 89 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो ऽष्टविधशस्त्रकर्मीयम् अध्यायं व्याख्यास्यामः ॥ (१।१)

athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

छेदन बेइ ॥।छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः । (३।१)

chedana bei ...chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ |

3.2३.२

व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलो ऽस्थिमांसगम् ॥ (३।२)

vraṇavartmārbudānyarśaścarmakīlo 'sthimāṃsagam ||

4.1४.१

शल्यं जतुमणिर्मांससंघातो गलशुण्डिका । (४।१)

śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā |

4.2४.२

स्नायुमांससिराकोथो वल्मीकं शतपोनकः ॥ (४।२)

snāyumāṃsasirākotho valmīkaṃ śataponakaḥ ||

5.1५.१

अध्रुषश्चोपदंशाश् च मांसकन्द्यधिमांसकः । (५।१)

adhruṣaścopadaṃśāś ca māṃsakandyadhimāṃsakaḥ |

5.2५.२

भेदन बेइ ॥।भेद्या विद्रधयो ऽन्यत्र सर्वजाद् ग्रन्थयस्त्रयः ॥ (५।२)

bhedana bei ...bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ ||

6.1६.१

आदितो ये विसर्पाश् च वृद्धयः सविदारिकाः । (६।१)

ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ |

6.2६.२

प्रमेहपिडकाशोफस्तनरोगावमन्थकाः ॥ (६।२)

pramehapiḍakāśophastanarogāvamanthakāḥ ||

7.1७.१

कुम्भीकानुशयी नाड्यो वृन्दौ पुष्करिकालजी । (७।१)

kumbhīkānuśayī nāḍyo vṛndau puṣkarikālajī |

7.2७.२

प्रायशः क्षुद्ररोगाश् च पुप्पुटौ तालुदन्तजौ ॥ (७।२)

prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau ||

8.1८.१

तुण्डिकेरी गिलायुश् च पूर्वं ये च प्रपाकिणः । (८।१)

tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ |

8.2८.२

वस्तिस्तथाश्मरीहेतोर् मेदोजा ये च केचन ॥ (८।२)

vastistathāśmarīhetor medojā ye ca kecana ||

9.1९.१

लेखन बेइ ॥।लेख्याश्चतस्रो रोहिण्यः किलासम् उपजिह्विका । (९।१)

lekhana bei ...lekhyāścatasro rohiṇyaḥ kilāsam upajihvikā |

9.2९.२

मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ॥ (९।२)

medojo dantavaidarbho granthirvartmādhijihvikā ||

10.1१०.१

अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा । (१०।१)

arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatistathā |

10.2१०.२

वेधन बेइ ॥।वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् ॥ (१०।२)

vedhana bei ...vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram ||

11.1११.१

एषण बेइ ॥।एष्या नाड्यः सशल्याश् च व्रणा उन्मार्गिणश् च । (११।१)

eṣaṇa bei ...eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca |

11.2११.२

आहारण बेइ ॥।आहार्याः शर्करास्तिस्रो दन्तकर्णमलो ऽश्मरी ॥ (११।२)

āhāraṇa bei ...āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī ||

12.1१२.१

शल्यानि मूढगर्भाश् च वर्चश् च निचितं गुदे । (१२।१)

śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude |

12.2१२.२

स्रावण बेइ ॥।स्राव्या विद्रधयः पञ्च भवेयुः सर्वजादृते ॥ (१२।२)

srāvaṇa bei ...srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte ||

13.1१३.१

कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः । (१३।१)

kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ |

13.2१३.२

पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् ॥ (१३।२)

pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam ||

14.1१४.१

अर्बुदानि विसर्पाश् च ग्रन्थयश्चादितस्तु ये । (१४।१)

arbudāni visarpāś ca granthayaścāditastu ye |

14.2१४.२

त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका ॥ (१४।२)

trayastrayaścopadaṃśāḥ stanarogā vidārikā ||

15.1१५.१

सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः । (१५।१)

suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ |

15.2१५.२

देन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः ॥ (१५।२)

dentaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ ||

16.1१६.१

पित्तासृक्कफजाश् चौष्ठ्याः क्षुद्ररोगाश् च भूयशः । (१६।१)

pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ |

16.2१६.२

सीवन बेइ ॥।सीव्या मेदःसमुत्थाश् च भिन्नाः सुलिखिता गदाः ॥ (१६।२)

sīvana bei ...sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ ||

17.1१७.१

सद्योव्रणाश् च ये चैव चलसन्धिव्यपाश्रिताः । (१७।१)

sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ |

17.2१७.२

केइन् सीवन, सोन्देर्न् विशोधन बेइ ॥।न क्षाराग्निविषैर् जुष्टा न च मारुतवाहिनः ॥ (१७।२)

kein sīvana, sondern viśodhana bei ...na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ ||

18.1१८.१

नान्तर्लोहितशल्याश् च तेषु सम्यग्विशोधनम् । (१८।१)

nāntarlohitaśalyāś ca teṣu samyagviśodhanam |

18.2१८.२

पांशुरोमनखादीनि चलमस्थि भवेच्च यत् ॥ (१८।२)

pāṃśuromanakhādīni calamasthi bhavecca yat ||

19.1१९.१

अहृतानि यतो ऽमूनि पाचयेयुर्भृशं व्रणम् । (१९।१)

ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam |

19.2१९.२

रुजश् च विविधाः कुर्युस्तस्माद् एतान् विशोधयेत् ॥ (१९।२)

rujaś ca vividhāḥ kuryustasmād etān viśodhayet ||

20.1२०.१

न्¦हेन् एइनेर् Wउन्देततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम् । (२०।१)

N¦hen einer Wundetato vraṇaṃ samunnamya sthāpayitvā yathāsthitam |

20.2२०.२

सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा ॥ (२०।२)

sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā ||

21.1२१.१

शणजक्षौमसूत्राभ्यां स्नाय्वा वालेन वा पुनः । (२१।१)

śaṇajakṣaumasūtrābhyāṃ snāyvā vālena vā punaḥ |

21.2२१.२

मूर्वागुडूचीतानैर् वा सीव्येद्वेल्लितकं शनैः ॥ (२१।२)

mūrvāguḍūcītānair vā sīvyedvellitakaṃ śanaiḥ ||

22.1२२.१

सीव्येद्गोफणिकां वापि सीव्येद्वा तुन्नसेवनीम् । (२२।१)

sīvyedgophaṇikāṃ vāpi sīvyedvā tunnasevanīm |

22.2२२.२

ऋजुग्रन्थिमथो वापि यथायोगमथापि वा ॥ (२२।२)

ṛjugranthimatho vāpi yathāyogamathāpi vā ||

23.1२३.१

ड़ोर्म् देर् नदेल्देशे ऽल्पमांसे सन्धौ च सूची वृत्ताङ्गुलद्वयम् । (२३।१)

Form der Nadeldeśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam |

23.2२३.२

आयता त्र्यङ्गुला त्र्यस्रा मांसले वापि पूजिता ॥ (२३।२)

āyatā tryaṅgulā tryasrā māṃsale vāpi pūjitā ||

24.1२४.१

धनुर्वक्रा हिता मर्मफलकोशोदरोपरि । (२४।१)

dhanurvakrā hitā marmaphalakośodaropari |

24.2२४.२

इत्य् एतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः ॥ (२४।२)

ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ ||

25.1२५.१

कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः । (२५।१)

kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |

25.2२५.२

नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् ॥ (२५।२)

nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet ||

26.1२६.१

दूराद्रुजो व्रणौष्ठस्य संनिकृष्टे ऽवलुञ्चनम् ॥ (२६।१)

dūrādrujo vraṇauṣṭhasya saṃnikṛṣṭe 'valuñcanam ||

27.1२७.१

नछ्बेहन्द्लुन्ग् नछ् सीवनअथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् । (२७।१)

Nachbehandlung nach sīvanaatha kṣaumapicucchannaṃ susyūtaṃ pratisārayet |

27.2२७.२

प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णैः समन्ततः ॥ (२७।२)

priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ ||

28.1२८.१

शल्लकीफलचूर्णैर् वा क्षौमध्यामेन वा पुनः । (२८।१)

śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ |

28.2२८.२

ततो व्रणं यथायोगं बद्ध्वाचारिकमादिशेत् ॥ (२८।२)

tato vraṇaṃ yathāyogaṃ baddhvācārikamādiśet ||

29.1२९.१

एतदष्टविधं कर्म समासेन प्रकीर्तितम् । (२९।१)

etadaṣṭavidhaṃ karma samāsena prakīrtitam |

29.2२९.२

चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते ॥ (२९।२)

cikitsiteṣu kārtsnyena vistarastasya vakṣyate ||

30.1३०.१

देसस्तेर् बेइ छिरुर्गिस्छेर् बेहन्द्लुन्घीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः । (३०।१)

Desaster bei chirurgischer Behandlunghīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ |

30.2३०.२

एताश्चतस्रो ऽष्टविधे कर्मणि व्यापदः स्मृताः ॥ (३०।२)

etāścatasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ ||

31.1३१.१

अज्ञानलोभाहितवाक्ययोगभयप्रमोहैर् अपरैश् च भावैः । (३१।१)

ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ |

31.2३१.२

यदा प्रयुञ्जीत भिषक् कुशस्त्रं तदा स शेषान् कुरुते विकारान् ॥ (३१।२)

yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān ||

32.1३२.१

तं क्षारशस्त्राग्निभिर् औषधैश् च भूयो ऽभियुञ्जानमयुक्तियुक्तम् । (३२।१)

taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam |

32.2३२.२

जिजीविषुर्दूरत एव वैद्यं विवर्जयेदुग्रविषाहितुल्यम् ॥ (३२।२)

jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam ||

33.1३३.१

वेर्लेत्ज़ुन्ग् वोन् गेड़्¦￟एन् उन्द् मर्मन्स्तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव । (३३।१)

verletzung von Gef¦￟en und marmanstadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva |

33.2३३.२

मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर् वियुञ्ज्यादथवा कथंचित् ॥ (३३।२)

mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit ||

34.1३४.१

अन्ज़ेइछेन् ड़्र् वेर्लेत्ज़ुन्ग् एइनेस् मर्मन्स्भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च । (३४।१)

Anzeichen fr verletzung eines marmansbhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca |

34.2३४.२

स्रस्ताङ्गता मूर्छनम् ऊर्ध्ववातस् तीव्रा रुजो वातकृताश् च तास्ताः ॥ (३४।२)

srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ ||

35.1३५.१

मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव । (३५।१)

māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva |

35.2३५.२

दशार्धसंख्येष्वपि विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ॥ (३५।२)

daśārdhasaṃkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam ||

36.1३६.१

अन्ज़ेइछेन् ड़्र् वेर्लेत्ज़ुन्ग् वोन् सिरास्सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश् च वायुः । (३६।१)

Anzeichen fr verletzung von sirāssurendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ |

36.2३६.२

करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ॥ (३६।२)

karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu ||

37.1३७.१

अन्ज़ेइछेन् ड़्र् वेर्लेत्ज़ुन्ग् वोन् स्नायुस्कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस् तुमुला रुजश् च । (३७।१)

Anzeichen fr verletzung von snāyuskaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca |

37.2३७.२

चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ॥ (३७।२)

cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet ||

38.1३८.१

अन्ज़ेइछेन् ड़्र् वेर्लेत्ज़ुन्ग् वोन् सन्धिस्शोफातिवृद्धिस्तुमुला रुजश् च बलक्षयः पर्वसु भेदशोफौ । (३८।१)

Anzeichen fr verletzung von sandhisśophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau |

38.2३८.२

क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश् च लिङ्गम् ॥ (३८।२)

kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam ||

39.1३९.१

अन्ज़ेइछेन् ड़्र् वेर्लेत्ज़ुन्ग् वोन् क्नोछेन्घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति । (३९।१)

Anzeichen fr verletzung von Knochenghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti |

39.2३९.२

तृष्णाङ्गसादौ श्वयथुश् च रुक्च तमस्थिविद्धं मनुजं व्यवस्येत् ॥ (३९।२)

tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet ||

40.1४०.१

अन्ज़ेइछेन् ड़्र् वेर्लेत्ज़ुन्ग् वोन् मर्मन्स्यथास्वमेतानि विभावयेयुर्लिङ्गानि मर्मस्वभिताडितेषु । (४०।१)

Anzeichen fr verletzung von marmansyathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu |

40.2४०.२

स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ॥ (४०।२)

sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt ||

41.1४१.१

अर्ज़्त् वेर्लेत्ज़्त् सिछ् बेइ ओपेरतिओन् सेल्ब्स्तात्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन् । (४१।१)

Arzt verletzt sich bei Operation selbstātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan |

41.2४१.२

तमात्मवान् आत्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ॥ (४१।२)

tamātmavān ātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ ||

42.1४२.१

तिर्यक्प्रणिहिते शस्त्रे दोषाः पूर्वमुदाहृताः । (४२।१)

tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ |

42.2४२.२

तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ॥ (४२।२)

tasmāt pariharan doṣān kuryācchastranipātanam ||

43.1४३.१

मातरं पितरं पुत्रान् बान्धवान् अपि चातुरः । (४३।१)

mātaraṃ pitaraṃ putrān bāndhavān api cāturaḥ |

43.2४३.२

अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ॥ (४३।२)

apyetānabhiśaṅketa vaidye viśvāsameti ca ||

44.1४४.१

विसृजत्यात्मनात्मानं न चैनं परिशङ्कते । (४४।१)

visṛjatyātmanātmānaṃ na cainaṃ pariśaṅkate |

44.2४४.२

तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ॥ (४४।२)

tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak ||

45.1४५.१

धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम् । (४५।१)

dharmārthau kīrtimityarthaṃ satāṃ grahaṇamuttamam |

45.2४५.२

प्राप्नुयात् स्वर्गवासं च हितम् आरभ्य कर्मणा ॥ (४५।२)

prāpnuyāt svargavāsaṃ ca hitam ārabhya karmaṇā ||

46.1४६.१

कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित् त्रिभिस्तथा । (४६।१)

karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā |

46.2४६.२

विकारः साध्यते कश्चिच् चतुर्भिर् अपि कर्मभिः ॥ (४६।२)

vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 1, 25

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit