Su, 1, 24
Select a line for its word-by-word analysis.
अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः ॥ (१।१)
athāto vyādhisamuddeśīyamadhyāyaṃ vyākhyāsyāmaḥ ||
२ क्रन्खेइत्स्त्य्पेन्: ओपेरतिव् ओदेर् मेदिकमेन्त्स् ज़ु बेहन्देल्न्द्विविधास्तु व्याधयः शस्त्रसाध्याः स्नेहादिक्रियासाध्याश् च । (३।१)
2 Krankheitstypen: operativ oder medikaments zu behandelndvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca |
तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ॥ (३।२)
tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
३ अर्तेन् वोन् दुःखसस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते । (४।१)
3 Arten von duḥkhasasmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate |
तच्च दुःखं त्रिविधम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकम् इति । (४।३)
tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti |
ज़ेर्ड़ल्लेन् इन् ७ उन्तेर्क्लस्सेन्तत्तु सप्तविधे व्याधावुपनिपतति । (४।४)
zerfallen in 7 Unterklassentattu saptavidhe vyādhāvupanipatati |
ते पुनः सप्तविधा व्याधयः तद्यथा आदिबलप्रवृत्ताः जन्मबलप्रवृत्ताः दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति ॥ (४।५)
te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
१। आध्यात्मिकतत्रादिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः ते ऽपि द्विविधाः मातृजाः पितृजाश् च । (५।१)
1. ādhyātmikatatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca |
जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते ते ऽपि द्विविधा रसकृताः दौहृदापचारकृताश् च । (५।२)
janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca |
दोषबलप्रवृत्ता य आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश् च ते ऽपि द्विविधाः आमाशयसमुत्थाः पक्वाशयसमुत्थाश् च । (५।३)
doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca |
२। आधिभौतिकसंघातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात् ते ऽपि द्विविधाः शस्त्रकृता व्यालकृताश् च । (६।१)
2. ādhibhautikasaṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca |
३। आधिदैविककालबलप्रवृत्ता ये शीतोष्णवातवर्षाप्रभृतिनिमित्ताः ते ऽपि द्विविधाः व्यापन्नर्तुकृता अव्यापन्नर्तुकृताश् च । (७।१)
3. ādhidaivikakālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca |
दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्वणकृता उपसर्गजाश् च ते ऽपि द्विविधाः विद्युदशनिकृताः पिशाचादिकृताश् च पुनश् च द्विविधाः संसर्गजा आकस्मिकाश् च । (७।२)
daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca |
स्वभावबलप्रवृत्ता ये क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयः ते ऽपि द्विविधाः कालकृता अकालकृताश् च तत्र परिरक्षणकृताः कालकृताः अपरिरक्षणकृता अकालकृताः । (७।३)
svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ |
त्रिदोष = उर्सछे अल्लेर् क्रन्खेइतेन्सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गत्वाद् दृष्टफलत्वाद् आगमाच्च । (८।१)
tridoṣa = Ursache aller Krankheitensarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca |
यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते एवम् एव कृत्स्नं विकारजातं विश्वरूपेणावस्थितम् अव्यतिरिच्य वातपित्तश्लेष्माणो वर्तन्ते । (८।२)
yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante |
दोषधातुमलसंसर्गाद् आयतनविशेषान्निमित्ततश् चैषां विकल्पः । (८।३)
doṣadhātumalasaṃsargād āyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ |
दोषदूषितेष्वत्यर्थं धातुषु संज्ञा रसजो ऽयं शोणितजो ऽयं मांसजो ऽयं मेदोजो ऽयम् अस्थिजो ऽयं मज्जजो ऽयं शुक्रजो ऽयम् व्याधिर् इति ॥ (८।४)
doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti ||
स्य्म्प्तोमे वोन् क्रन्खेइतेन् नछ् एर्क्रन्क्तेम् दोष।क्र्पेरेलेमेन्त्तत्र अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गोपरोधकार्श्यवैरस्याङ्गसादाकालवलिपलितदर्शनप्रभृतयो रसदोषजा विकाराः कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गेन्द्रलुप्तप्लीहविद्रधिगुल्मवातशोणितार्शोऽर्बुदाङ्गमर्दासृग्दररक्तपित्तप्रभृतयो रक्तदोषजाः गुदमुखमेढ्रपाकाश्च अधिमांसार्बुदार्शो ऽधिजिह्वोपजिह्वोपकुशगलशुण्डिकालजीमांससंघातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः । (९।१)
symptome von Krankheiten nach erkranktem doṣa|Krperelementtatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ |
ग्रन्थिवृद्धिगलगण्डार्बुदमेदोजौष्ठप्रकोपमधुमेहातिस्थौल्यातिस्वेदप्रभृतयो ऽस्थिदोषजाः तमोदर्शनमूर्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिष्यन्दप्रभृतयो मज्जदोषजाः क्लैब्याप्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश् च तद्दोषाः त्वग्दोषाः सङ्गो ऽतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः इन्द्रियाणाम् अप्रवृत्तिर् अयथाप्रवृत्तिर् वेन्द्रियायतनदोषाः इत्य् एष समास उक्तः विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ॥ (९।२)
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ ||
एन्त्स्तेहुन्ग् वोन् दोष-क्रन्खेइतेन्कुपितानां हि दोषाणां शरीरे परिधावताम् । (१०।२)
Entstehung von doṣa-Krankheitenkupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām |
यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते ॥ (१०।३)
yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate ||
वेर्बिन्दुन्ग् दोष-क्रन्खेइत् wएदेर् एwइग् नोछ् तेम्पोर्¦र्भूयो ऽत्र जिज्ञास्यं किं वातादीनां ज्वरादीनां च नित्यः संश्लेषः परिच्छेदो वा इति यदि नित्यः संश्लेषः स्यात्तर्हि नित्यातुराः सर्व एव प्राणिनः स्युः अथाप्यन्यथा वातादीनां ज्वरादीनां चान्यत्र वर्तमानानामन्यत्र लिङ्गं न भवतीति कृत्वा यदुच्यते वातादयो ज्वरादीनां मूलानीति तन्न । (११।१)
verbindung doṣa-Krankheit weder ewig noch tempor¦rbhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna |
अत्रोच्यते दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति अथ च न नित्यः सम्बन्धः यथाहि विद्युद्वाताशनिवर्षाण्याकाशं प्रत्याख्याय न भवन्ति सत्यप्याकाशे कदाचिन् न भवन्ति अथ च निमित्ततस्तत एवोत्पत्तिरिति तरंगबुद्बुदादयश् चोदकविशेषाः एव वातादीनां ज्वरादीनां च नाप्येवम् संश्लेषो न परिच्छेदः शाश्वतिकः अथ च निमित्तत एवोत्पत्तिर् इति ॥ (११।२)
atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti ||
विकारपरिमाणं च संख्या चैषां पृथक् पृथक् । (१२।२)
vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश् च वक्ष्यते ॥ (१२।३)
vistareṇottare tantre sarvābādhāś ca vakṣyate ||
Data courtesy of The Digital Corpus of Sanskrit.