Su, 1, 33
Select a line for its word-by-word analysis.
उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् । (३।१)
upadravaistu ye juṣṭā vyādhayo yāntyavāryatām |
वातव्याधिः प्रमेहश् च कुष्ठमर्शो भगंदरम् । (४।१)
vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṃdaram |
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः । (५।१)
aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ |
मूर्च्छातिसारहिक्काभिः पुनश्चैतैर् उपद्रुताः । (६।१)
mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ |
वातरोगशूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् । (७।१)
vātarogaśūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam |
नरं रुजार्तमन्तश् च वातव्याधिर्विनाशयेत् ॥ (७।२)
naraṃ rujārtamantaś ca vātavyādhirvināśayet ||
प्रमेहयथोक्तोपद्रवाविष्टम् अतिप्रस्रुतम् एव वा । (८।१)
pramehayathoktopadravāviṣṭam atiprasrutam eva vā |
कुष्ठप्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् । (९।१)
kuṣṭhaprabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram |
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥ (९।२)
pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam ||
अर्शस्तृष्णारोचकशूलार्तम् अतिप्रस्रुतशोणितम् । (१०।१)
arśastṛṣṇārocakaśūlārtam atiprasrutaśoṇitam |
भगन्दरवातमूत्रपुरीषाणि क्रिमयः शुक्रम् एव च । (११।१)
bhagandaravātamūtrapurīṣāṇi krimayaḥ śukram eva ca |
भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥ (११।२)
bhagandarāt prasravanti yasya taṃ parivarjayet ||
अश्मरीप्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् । (१२।१)
aśmarīpraśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam |
मूढगर्भगर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः । (१३।१)
mūḍhagarbhagarbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ |
हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ॥ (१३।२)
hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ ||
उदरपार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् । (१४।१)
udarapārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् ॥ (१४।२)
viriktaṃ pūryamāṇaṃ ca varjayedudarārditam ||
ज्वरयस्ताम्यति विसंज्ञश् च शेते निपतितो ऽपि वा । (१५।१)
jvarayastāmyati visaṃjñaś ca śete nipatito 'pi vā |
शीतार्दितो ऽन्तरुष्णश् च ज्वरेण म्रियते नरः ॥ (१५।२)
śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् । (१६।१)
yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ॥ (१६।२)
nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam ||
हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम् । (१७।१)
hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam |
संततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥ (१७।२)
saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ ||
आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च । (१८।१)
āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca |
अतिसारश्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् । (१९।१)
atisāraśvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam |
यक्ष्मन्शुक्लाक्षम् अन्नद्वेष्टारम् ऊर्ध्वश्वासनिपीडितम् । (२०।१)
yakṣmanśuklākṣam annadveṣṭāram ūrdhvaśvāsanipīḍitam |
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥ (२०।२)
kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam ||
गुल्मश्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः । (२१।१)
gulmaśvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः ॥ (२१।२)
bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ ||
विद्रधिआध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् । (२२।१)
vidradhiādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam |
रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥ (२२।२)
rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram ||
पाण्डुपाण्डुदन्तनखो यश् च पाण्डुनेत्रश् च मानवः । (२३।१)
pāṇḍupāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ |
रक्तपित्तलोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः । (२४।१)
raktapittalohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ |
रक्तानां च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥ (२४।२)
raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati ||
उन्मादअवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः । (२५।१)
unmādaavāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ |
अपस्मरबहुशो ऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम् । (२६।१)
apasmarabahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam |
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ॥ (२६।२)
netrābhyāṃ ca vikurvāṇamapasmāro vināśayet ||
Data courtesy of The Digital Corpus of Sanskrit.