सुश्रुतसंहिताSuśrutasaṃhitā

Su, 4, 2

74 of 186 · 192 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः ॥ (१।१)

athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः । (३।१)

dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ |

3.2३.२

विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ॥ (३।२)

viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt ||

4.1४.१

नानाधारामुखैः शस्त्रैर् नानास्थाननिपातितैः । (४।१)

nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ |

4.2४.२

नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ॥ (४।२)

nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam ||

5.1५.१

आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा । (५।१)

āyatāścaturasrāśca tryasrā maṇḍalinastathā |

5.2५.२

अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा ॥ (५।२)

ardhacandrapratīkāśā viśālāḥ kuṭilāstathā ||

6.1६.१

शरावनिम्नमध्याश् च यवमध्यास्तथापरे । (६।१)

śarāvanimnamadhyāś ca yavamadhyāstathāpare |

6.2६.२

एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ॥ (६।२)

evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ ||

7.1७.१

दोषजा वा स्वयं भिन्ना न तु वैद्यनिमित्तजाः । (७।१)

doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ |

7.2७.२

भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ॥ (७।२)

bhiṣagvraṇākṛtijño hi na mohamadhigacchati ||

8.1८.१

भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि । (८।१)

bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi |

8.2८.२

अनन्ताकृतिर् आगन्तुः स भिषग्भिः पुरातनैः ॥ (८।२)

anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ ||

9.1९.१

समासतो लक्षणतः षड्विधः परिकीर्तितः । (९।१)

samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ |

9.2९.२

छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितम् एव च ॥ (९।२)

chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca ||

10.1१०.१

घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् । (१०।१)

ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam |

10.2१०.२

छिन्नतिरश्चीन ऋजुर्वापि यो व्रणश्चायतो भवेत् ॥ (१०।२)

chinnatiraścīna ṛjurvāpi yo vraṇaścāyato bhavet ||

11.1११.१

गात्रस्य पातनं चापि छिन्नम् इत्युपदिश्यते । (११।१)

gātrasya pātanaṃ cāpi chinnam ityupadiśyate |

11.2११.२

भिन्नकुन्तशक्त्यृष्टिखड्गाग्रविषाणादिभिर् आशयः ॥ (११।२)

bhinnakuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ ||

12.1१२.१

हतः किंचित् स्रवेत्तद्धि भिन्नलक्षणम् उच्यते । (१२।१)

hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate |

12.2१२.२

स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ॥ (१२।२)

sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca ||

13.1१३.१

हृदुण्डुकः फुप्फुसश् च कोष्ठ इत्यभिधीयते । (१३।१)

hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate |

13.2१३.२

तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश् च जायते ॥ (१३।२)

tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate ||

14.1१४.१

मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति । (१४।१)

mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati |

14.2१४.२

मूर्च्छाश्वासतृडाध्मानम् अभक्तच्छन्द एव च ॥ (१४।२)

mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca ||

15.1१५.१

विण्मूत्रवातसङ्गश्च स्वेदास्रावो ऽक्षिरक्तता । (१५।१)

viṇmūtravātasaṅgaśca svedāsrāvo 'kṣiraktatā |

15.2१५.२

लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यम् एव च ॥ (१५।२)

lohagandhitvamāsyasya gātradaurgandhyam eva ca ||

16.1१६.१

हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु । (१६।१)

hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu |

16.2१६.२

आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ॥ (१६।२)

āmāśayasthe rudhire rudhiraṃ chardayet punaḥ ||

17.1१७.१

आध्मानमतिमात्रं च शूलं च भृशदारुणम् । (१७।१)

ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam |

17.2१७.२

पक्वाशयगते चापि रुजो गौरवम् एव च ॥ (१७।२)

pakvāśayagate cāpi rujo gauravam eva ca ||

18.1१८.१

शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः । (१८।१)

śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ |

18.2१८.२

अभिन्ने ऽप्याशये ऽन्त्राणां खैः सूक्ष्मैर् अन्त्रपूरणम् ॥ (१८।२)

abhinne 'pyāśaye 'ntrāṇāṃ khaiḥ sūkṣmair antrapūraṇam ||

19.1१९.१

पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् । (१९।१)

pihitāsye ghaṭe yadvallakṣyate tasya gauravam |

19.2१९.२

विद्धसूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना ॥ (१९।२)

viddhasūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā ||

20.1२०.१

उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् । (२०।१)

uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet |

20.2२०.२

नातिच्छिन्नं नातिभिन्नमुभयोर् लक्षणान्वितम् ॥ (२०।२)

nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam ||

21.1२१.१

विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् । (२१।१)

viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet |

21.2२१.२

पिच्चिटप्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ॥ (२१।२)

picciṭaprahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam ||

22.1२२.१

सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् । (२२।१)

sāsthi tat piccitaṃ vidyānmajjaraktapariplutam |

22.2२२.२

घृष्टविगतत्वग्यदङ्गं हि संघर्षादन्यथापि वा ॥ (२२।२)

ghṛṣṭavigatatvagyadaṅgaṃ hi saṃgharṣādanyathāpi vā ||

23.1२३.१

उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते । (२३।१)

uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate |

23.2२३.२

ग्रुन्द्स्¦त्ज़्लिछे बेहन्द्लुन्ग् वोन् व्रणस्छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् ॥ (२३।२)

grunds¦tzliche Behandlung von vraṇaschinne bhinne tathā viddhe kṣate vāsṛgatisravet ||

24.1२४.१

रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम् । (२४।१)

raktakṣayādrujastatra karoti pavano bhṛśam |

24.2२४.२

स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ॥ (२४।२)

snehapānaṃ hitaṃ tatra tatseko vihitastathā ||

25.1२५.१

वेशवारैः सकृशरैः सुस्निग्धैश् चोपनाहनम् । (२५।१)

veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam |

25.2२५.२

धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ॥ (२५।२)

dhānyasvedāṃśca kurvīta snigdhānyālepanāni ca ||

26.1२६.१

वातघ्नौषधसिद्धैश्च स्नेहैर् बस्तिर्विधीयते । (२६।१)

vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate |

26.2२६.२

पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ॥ (२६।२)

piccite ca vighṛṣṭe ca nātisravati śoṇitam ||

27.1२७.१

अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते । (२७।१)

agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate |

27.2२७.२

तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ॥ (२७।२)

tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ ||

28.1२८.१

शीतमालेपनं कार्यं परिषेकश्च शीतलः । (२८।१)

śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ |

28.2२८.२

षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ॥ (२८।२)

ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ ||

29.1२९.१

ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् । (२९।१)

jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam |

29.2२९.२

बेहन्द्लुन्ग् वोन् छिन्नअत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् ॥ (२९।२)

Behandlung von chinnaata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam ||

30.1३०.१

ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः । (३०।१)

ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ |

30.2३०.२

तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढम् एव च ॥ (३०।२)

tān sīvyedvidhinoktena badhnīyādgāḍham eva ca ||

31.1३१.१

कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम् । (३१।१)

karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam |

31.2३१.२

सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ॥ (३१।२)

sīvyedyathoktaṃ tailena srotaścābhipratarpayet ||

32.1३२.१

कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे । (३२।१)

kṛkāṭikānte chinne tu gacchatyapi samīraṇe |

32.2३२.२

सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ॥ (३२।२)

samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram ||

33.1३३.१

आजेन सर्पिषा चैवं परिषेकं तु कारयेत् । (३३।१)

ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet |

33.2३३.२

उत्तानो ऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः ॥ (३३।२)

uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ ||

34.1३४.१

शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् । (३४।१)

śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam |

34.2३४.२

सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ॥ (३४।२)

sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ ||

35.1३५.१

बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत् । (३५।१)

baddhvā vellitakenāśu tatastailena secayet |

35.2३५.२

चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ॥ (३५।२)

carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet ||

36.1३६.१

पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् । (३६।१)

pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam |

36.2३६.२

अतो ऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ॥ (३६।२)

ato 'nyathā corasije śāyayet puruṣaṃ vraṇe ||

37.1३७.१

छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् । (३७।१)

chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena buddhimān |

37.2३७.२

बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ॥ (३७।२)

badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam ||

38.1३८.१

चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः । (३८।१)

candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ |

38.2३८.२

हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ॥ (३८।२)

haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam ||

39.1३९.१

तैलमेभिर् विपक्वं तु प्रधानं व्रणरोपणम् । (३९।१)

tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam |

39.2३९.२

चन्दनं कर्कटाख्या च सहे मांस्याह्वयामृता ॥ (३९।२)

candanaṃ karkaṭākhyā ca sahe māṃsyāhvayāmṛtā ||

40.1४०.१

हरेणवो मृणालं च त्रिफला पद्मकोत्पले । (४०।१)

hareṇavo mṛṇālaṃ ca triphalā padmakotpale |

40.2४०.२

त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसान्वितम् ॥ (४०।२)

trayodaśāṅgaṃ trivṛtametadvā payasānvitam ||

41.1४१.१

तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे । (४१।१)

tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe |

41.2४१.२

बेहन्द्लुन्ग् वोन् भिन्नसत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ॥ (४१।२)

Behandlung von bhinnasata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam ||

42.1४२.१

भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत् । (४२।१)

bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat |

42.2४२.२

तन्निवेश्य यथास्थानम् अव्याविद्धसिरं शनैः ॥ (४२।२)

tanniveśya yathāsthānam avyāviddhasiraṃ śanaiḥ ||

43.1४३.१

पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु । (४३।१)

pīḍayet pāṇinā samyak padmapattrāntareṇa tu |

43.2४३.२

ततो ऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ॥ (४३।२)

tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā ||

44.1४४.१

आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च । (४४।१)

ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca |

44.2४४.२

जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ॥ (४४।२)

jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet ||

45.1४५.१

सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते । (४५।१)

sarvanetrābhighāte tu sarpiretat praśasyate |

45.2४५.२

उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ॥ (४५।२)

udarānmedaso vartirnirgatā yasya dehinaḥ ||

46.1४६.१

कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् । (४६।१)

kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit |

46.2४६.२

अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ॥ (४६।२)

agnitaptena śastreṇa chindyānmadhusamāyutam ||

47.1४७.१

बद्ध्वा व्रणं सुजीर्णे ऽन्ने सर्पिषः पानमिष्यते । (४७।१)

baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate |

47.2४७.२

स्नेहपानादृते चापि पयःपानं विधीयते ॥ (४७।२)

snehapānādṛte cāpi payaḥpānaṃ vidhīyate ||

48.1४८.१

शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया । (४८।१)

śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā |

48.2४८.२

चित्रासमन्वितं चैव रुजादाहविनाशनम् ॥ (४८।२)

citrāsamanvitaṃ caiva rujādāhavināśanam ||

49.1४९.१

आटोपो मरणं वा स्याच्छूलो वाच्छिद्यमानया । (४९।१)

āṭopo maraṇaṃ vā syācchūlo vācchidyamānayā |

49.2४९.२

मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ॥ (४९।२)

medogranthau tu yattailaṃ vakṣyate tacca yojayet ||

50.1५०.१

त्वचो ऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा । (५०।१)

tvaco 'tītya sirādīni bhittvā vā parihṛtya vā |

50.2५०.२

कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ॥ (५०।२)

koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān ||

51.1५१.१

तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् । (५१।१)

tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam |

51.2५१.२

शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ॥ (५१।२)

śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet ||

52.1५२.१

आमाशयस्थे रुधिरे वमनं पथ्यम् उच्यते । (५२।१)

āmāśayasthe rudhire vamanaṃ pathyam ucyate |

52.2५२.२

पक्वाशयस्थे देयं च विरेचनम् असंशयम् ॥ (५२।२)

pakvāśayasthe deyaṃ ca virecanam asaṃśayam ||

53.1५३.१

आस्थापनं च निःस्नेहं कार्यमुष्णैर् विशोधनैः । (५३।१)

āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ |

53.2५३.२

यवकोलकुलत्थानां निःस्नेहेन रसेन च ॥ (५३।२)

yavakolakulatthānāṃ niḥsnehena rasena ca ||

54.1५४.१

भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् । (५४।१)

bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām |

54.2५४.२

अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ॥ (५४।२)

atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk ||

55.1५५.१

स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः । (५५।१)

svamārgapratipannāstu yasya viṇmūtramārutāḥ |

55.2५५.२

व्युपद्रवः स भिन्ने ऽपि कोष्ठे जीवति मानवः ॥ (५५।२)

vyupadravaḥ sa bhinne 'pi koṣṭhe jīvati mānavaḥ ||

56.1५६.१

अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् । (५६।१)

abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet |

56.2५६.२

पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ॥ (५६।२)

pipīlikāśirograstaṃ tadapyeke vadanti tu ||

57.1५७.१

प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः । (५७।१)

prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ |

57.2५७.२

प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ॥ (५७।२)

praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ ||

58.1५८.१

प्रवेशयेत् क्षीरसिक्तं शुष्कम् अन्त्रं घृताप्लुतम् । (५८।१)

praveśayet kṣīrasiktaṃ śuṣkam antraṃ ghṛtāplutam |

58.2५८.२

अङ्गुल्याभिमृशेत् कण्ठं जलेनोद्वेजयेद् अपि ॥ (५८।२)

aṅgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api ||

59.1५९.१

हस्तपादेषु संगृह्य समुत्थाप्य महाबलाः । (५९।१)

hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ |

59.2५९.२

भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस् तथा ॥ (५९।२)

bhavatyantaḥpraveśastu yathā nirdhunuyus tathā ||

60.1६०.१

तथान्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च । (६०।१)

tathāntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca |

60.2६०.२

व्रणाल्पत्वाद् बहुत्वाद् वा दुष्प्रवेशं भवेत्तु यत् ॥ (६०।२)

vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat ||

61.1६१.१

तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् । (६१।१)

tadāpāṭya pramāṇena bhiṣagantraṃ praveśayet |

61.2६१.२

यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रितः ॥ (६१।२)

yathāsthānaṃ niviṣṭe ca vraṇaṃ sīvyedatandritaḥ ||

62.1६२.१

स्थानादपेतमादत्ते प्राणान् गुपितम् एव वा । (६२।१)

sthānādapetamādatte prāṇān gupitam eva vā |

62.2६२.२

वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ॥ (६२।२)

veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet ||

63.1६३.१

घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम् । (६३।१)

ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam |

63.2६३.२

मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ॥ (६३।२)

mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye ||

64.1६४.१

ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः । (६४।१)

tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ |

64.2६४.२

त्वचो ऽश्वकर्णधवयोर् मोचकीमेषशृङ्गयोः ॥ (६४।२)

tvaco 'śvakarṇadhavayor mocakīmeṣaśṛṅgayoḥ ||

65.1६५.१

शल्लक्यर्जुनयोश् चापि विदार्याः क्षीरिणां तथा । (६५।१)

śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā |

65.2६५.२

बलामूलानि चाहृत्य तैलमेतैर् विपाचयेत् ॥ (६५।२)

balāmūlāni cāhṛtya tailametair vipācayet ||

66.1६६.१

व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च । (६६।१)

vraṇaṃ saṃropayettena varṣamātraṃ yateta ca |

66.2६६.२

वेर्लुस्त् वोन् होदेन्पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ॥ (६६।२)

verlust von hodenpādau nirastamuṣkasya jalena prokṣya cākṣiṇī ||

67.1६७.१

प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् । (६७।१)

praveśya tunnasevanyā muṣkau sīvyettataḥ param |

67.2६७.२

कार्यो गोफणिकाबन्धः कट्याम् आवेश्य यन्त्रकम् ॥ (६७।२)

kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam ||

68.1६८.१

न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः । (६८।१)

na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ |

68.2६८.२

कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ॥ (६८।२)

kālānusāryāgurvelājātīcandanapadmakaiḥ ||

69.1६९.१

शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम् । (६९।१)

śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam |

69.2६९.२

ओप् अम् कोप्ड़्शिरसो ऽपहृते शल्ये वालवर्तिं निवेशयेत् ॥ (६९।२)

OP am Kopfśiraso 'pahṛte śalye vālavartiṃ niveśayet ||

70.1७०.१

वालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् । (७०।१)

vālavartyāmadattāyāṃ mastuluṅgaṃ vraṇāt sravet |

70.2७०.२

हन्यादेनं ततो वायुस्तस्माद् एवमुपाचरेत् ॥ (७०।२)

hanyādenaṃ tato vāyustasmād evamupācaret ||

71.1७१.१

व्रणे रोहति चैकैकं शनैर् वालमपक्षिपेत् । (७१।१)

vraṇe rohati caikaikaṃ śanair vālamapakṣipet |

71.2७१.२

गात्रादपहृते ऽन्यस्मात् स्नेहवर्तिं प्रवेशयेत् ॥ (७१।२)

gātrādapahṛte 'nyasmāt snehavartiṃ praveśayet ||

72.1७२.१

कृते निःशोणिते चापि विधिः सद्यःक्षते हितः । (७२।१)

kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ |

72.2७२.२

दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ॥ (७२।२)

dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān ||

73.1७३.१

कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् । (७३।१)

kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet |

73.2७३.२

समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थम् एव च ॥ (७३।२)

samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca ||

74.1७४.१

विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम् । (७४।१)

viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām |

74.2७४.२

संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ॥ (७४।२)

saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam ||

75.1७५.१

तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् । (७५।१)

tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam |

75.2७५.२

हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ॥ (७५।२)

haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ ||

76.1७६.१

पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् । (७६।१)

pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam |

76.2७६.२

क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ॥ (७६।२)

kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ ||

77.1७७.१

घृष्टे रुजो निगृह्याशु चूर्णैर् उपचरेद्व्रणम् । (७७।१)

ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam |

77.2७७.२

विश्लिष्टदेहं पतितं मथितं हतम् एव च ॥ (७७।२)

viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca ||

78.1७८.१

वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम् । (७८।१)

vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam |

78.2७८.२

अयम् एव विधिः कार्यः क्षीणे मर्महते तथा ॥ (७८।२)

ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā ||

79.1७९.१

रोपणे सपरीषेके पाने च व्रणिनां सदा । (७९।१)

ropaṇe saparīṣeke pāne ca vraṇināṃ sadā |

79.2७९.२

तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ॥ (७९।२)

tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi ||

80.1८०.१

घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ । (८०।१)

ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau |

80.2८०.२

सद्योव्रणेषु देयानि तानि वैद्येन जानता ॥ (८०।२)

sadyovraṇeṣu deyāni tāni vaidyena jānatā ||

81.1८१.१

सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् । (८१।१)

sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet |

81.2८१.२

सर्पिषा नातिशीतेन बलातैलेन वा पुनः ॥ (८१।२)

sarpiṣā nātiśītena balātailena vā punaḥ ||

82.1८२.१

समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् । (८२।१)

samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām |

82.2८२.२

पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ॥ (८२।२)

padmakaṃ rodhramadhukaṃ viḍaṅgāni hareṇukām ||

83.1८३.१

तालीशपत्रं नलदं चन्दनं पद्मकेसरम् । (८३।१)

tālīśapatraṃ naladaṃ candanaṃ padmakesaram |

83.2८३.२

मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ॥ (८३।२)

mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān ||

84.1८४.१

प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च । (८४।१)

priyālabījaṃ tindukyāstaruṇāni phalāni ca |

84.2८४.२

यथालाभं समाहृत्य तैलमेभिर् विपाचयेत् ॥ (८४।२)

yathālābhaṃ samāhṛtya tailamebhir vipācayet ||

85.1८५.१

सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् । (८५।१)

sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam |

85.2८५.२

कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत् ॥ (८५।२)

kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet ||

86.1८६.१

सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् । (८६।१)

sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret |

86.2८६.२

दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ॥ (८६।२)

duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam ||

87.1८७.१

विशोषणं तथाहारः शोणितस्य च मोक्षणम् । (८७।१)

viśoṣaṇaṃ tathāhāraḥ śoṇitasya ca mokṣaṇam |

87.2८७.२

कषायं राजवृक्षादौ सुरसादौ च धावनम् ॥ (८७।२)

kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam ||

88.1८८.१

तयोर् एव कषायेण तैलं शोधनमिष्यते । (८८।१)

tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate |

88.2८८.२

क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ॥ (८८।२)

kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam ||

89.1८९.१

द्रवन्ती चिरबिल्वश् च दन्ती चित्रकम् एव च । (८९।१)

dravantī cirabilvaś ca dantī citrakam eva ca |

89.2८९.२

पृथ्वीका निम्बपत्राणि कासीसं तुत्थम् एव च ॥ (८९।२)

pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca ||

90.1९०.१

त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः । (९०।१)

trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ |

90.2९०.२

भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ॥ (९०।२)

bhūmikadambaḥ suvahā śukākhyā lāṅgalāhvayā ||

91.1९१.१

नैपाली जालिनी चैव मदयन्ती मृगादनी । (९१।१)

naipālī jālinī caiva madayantī mṛgādanī |

91.2९१.२

सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ॥ (९१।२)

sudhāmūrvārkakīṭāriharitālakarañjikāḥ ||

92.1९२.१

यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम् । (९२।१)

yathopapatti kartavyaṃ tailametaistu śodhanam |

92.2९२.२

घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ॥ (९२।२)

ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā ||

93.1९३.१

सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके । (९३।१)

saindhavatrivṛderaṇḍapatrakalkastu vātike |

93.2९३.२

त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर् युतः ॥ (९३।२)

trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ ||

94.1९४.१

कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः । (९४।१)

kaphaje tilatejohvādantīsvarjikacitrakāḥ |

94.2९४.२

दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्व् अपि ॥ (९४।२)

duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api ||

95.1९५.१

षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः । (९५।१)

ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ |

95.2९५.२

नातः शक्यं परं वक्तुम् अपि निश्चितवादिभिः ॥ (९५।२)

nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ ||

96.1९६.१

उपसर्गैर् निपातैश् च तत्तु पण्डितमानिनः । (९६।१)

upasargair nipātaiś ca tattu paṇḍitamāninaḥ |

96.2९६.२

केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ॥ (९६।२)

kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ ||

97.1९७.१

बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते । (९७।१)

bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate |

97.2९७.२

विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ॥ (९७।२)

viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ matam ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 4, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit