Su, 6, 10
Select a line for its word-by-word analysis.
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ॥ (१।१)
athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम् । (३।१)
pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam |
अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ॥ (३।२)
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam ||
गुन्द्रां शालिं शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम् । (४।१)
gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram |
पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ॥ (४।२)
padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca ||
द्राक्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा । (५।१)
drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā |
सर्पिः सिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ॥ (५।२)
sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam ||
योज्यो वर्गो व्यस्त एषो ऽन्यथा वा सम्यङ्नस्ये ऽष्टार्धसंख्ये ऽपि नित्यम् । (६।१)
yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam |
क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ॥ (६।२)
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam ||
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्रयुक्तम् । (७।१)
pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam |
रसक्रियां शर्कराक्षौद्रयुक्तां पालिन्द्यां वा मधुके वापि कुर्यात् ॥ (७।२)
rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt ||
मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्रसश्च । (८।१)
mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca |
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ॥ (८।२)
tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ ||
चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम् । (९।१)
cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām |
योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रोपेतं कैंशुकं चापि पुष्पम् ॥ (९।२)
yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam ||
रोध्रं द्राक्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च । (१०।१)
rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca |
पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च ॥ (१०।२)
piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca ||
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः । (११।१)
kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ |
योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्राक्षां शर्करामुत्पलं च ॥ (११।२)
yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca ||
क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम् । (१२।१)
kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram |
तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव ॥ (१२।२)
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva ||
एषो ऽम्लाख्ये ऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः ॥ (१३।१)
eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ ||
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम् । (१४।१)
sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam |
दोषे ऽधस्ताच्छुक्तिकायामपास्ते शीतैर् द्रव्यैरञ्जनं कार्यमाशु ॥ (१४।२)
doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu ||
वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम् । (१५।१)
vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham |
चूर्णं सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्तिं हन्यादञ्जनं चैतदाशु ॥ (१५।२)
cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu ||
युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्रक्तपित्ते विधानम् । (१६।१)
yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam |
यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् ॥ (१६।२)
yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam ||
Data courtesy of The Digital Corpus of Sanskrit.