सुश्रुतसंहिताSuśrutasaṃhitā

Su, 6, 42

162 of 186 · 289 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो गुल्मप्रतिषेधं व्याख्यास्यामः ॥ (१।१)

athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

यथोक्तैः कोपनैर् दोषाः कुपिताः कोष्ठमागताः । (३।१)

yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ |

3.2३.२

जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ॥ (३।२)

janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate ||

4.1४.१

हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वाचलः । (४।१)

hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ |

4.2४.२

चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ॥ (४।२)

cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ ||

5.1५.१

पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः । (५।१)

pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ |

5.2५.२

गुपितानिलमूलत्वाद्गूढमूलोदयाद् अपि ॥ (५।२)

gupitānilamūlatvādgūḍhamūlodayād api ||

6.1६.१

गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते । (६।१)

gulmavadvā viśālatvādgulma ityabhidhīyate |

6.2६.२

स यस्मादात्मनि चयं गच्छत्य् अप्स्विव बुद्बुदः ॥ (६।२)

sa yasmādātmani cayaṃ gacchaty apsviva budbudaḥ ||

7.1७.१

अन्तः सरति यस्माच्च न पाकम् उपयात्यतः । (७।१)

antaḥ sarati yasmācca na pākam upayātyataḥ |

7.2७.२

स व्यस्तैर् जायते दोषैः समस्तैरपि चोच्छ्रितैः ॥ (७।२)

sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ ||

8.1८.१

पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः । (८।१)

puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ |

8.2८.२

सदनं मदन्ता वह्नेराटोपो ऽन्त्रविकूजनम् ॥ (८।२)

sadanaṃ madantā vahnerāṭopo 'ntravikūjanam ||

9.1९.१

विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा । (९।१)

viṇmūtrānilasaṅgaśca sauhityāsahatā tathā |

9.2९.२

द्वेषो ऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ॥ (९।२)

dveṣo 'nne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām ||

10.1१०.१

हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर् निरोधो विषमाग्निता च । (१०।१)

hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca |

10.2१०.२

ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मे ऽनिलसंभवे तु ॥ (१०।२)

te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu ||

11.1११.१

स्वेदज्वराहारविदाहदाहास् तृष्णाङ्गरागः कटुवक्त्रता च । (११।१)

svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca |

11.2११.२

पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ॥ (११।२)

pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme ||

12.1१२.१

स्तैमित्यमन्ने ऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च । (१२।१)

staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca |

12.2१२.२

कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु ॥ (१२।२)

kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu ||

13.1१३.१

सर्वात्मकः सर्वविकारयुक्तः सो ऽसाध्य उक्तः क्षतजं प्रवक्ष्ये । (१३।१)

sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye |

13.2१३.२

नवप्रसूताहितभोजना या या चामगर्भं विसृजेदृतौ वा ॥ (१३।२)

navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā ||

14.1१४.१

वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् । (१४।१)

vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham |

14.2१४.२

पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध ॥ (१४।२)

paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha ||

15.1१५.१

न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम् । (१५।१)

na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām |

15.2१५.२

तं गर्भकालातिगमे चिकित्स्यम् असृग्भवं गुल्ममुशन्ति तज्ज्ञाः ॥ (१५।२)

taṃ garbhakālātigame cikitsyam asṛgbhavaṃ gulmamuśanti tajjñāḥ ||

16.1१६.१

वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः । (१६।१)

vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ |

16.2१६.२

उपाचरेद्यथाकालं निरूहैः सानुवासनैः ॥ (१६।२)

upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ ||

17.1१७.१

पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु । (१७।१)

pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu |

17.2१७.२

विरिक्तं मधुरैर् योगैर् निरूहैः समुपाचरेत् ॥ (१७।२)

viriktaṃ madhurair yogair nirūhaiḥ samupācaret ||

18.1१८.१

श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु । (१८।१)

śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu |

18.2१८.२

तीक्ष्णैर् विरिक्तं तद्रूपैर् निरूहैः समुपाचरेत् ॥ (१८।२)

tīkṣṇair viriktaṃ tadrūpair nirūhaiḥ samupācaret ||

19.1१९.१

सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः । (१९।१)

sannipātotthite gulme tridoṣaghno vidhirhitaḥ |

19.2१९.२

पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः ॥ (१९।२)

pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ ||

20.1२०.१

विशेषमपरं चास्याः शृणु रक्तविभेदनम् । (२०।१)

viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam |

20.2२०.२

पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् ॥ (२०।२)

palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet ||

21.1२१.१

दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु । (२१।१)

dadyāduttarabastiṃ ca pippalyādighṛtena tu |

21.2२१.२

उष्णैर् वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ॥ (२१।२)

uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ ||

22.1२२.१

आनूपौदकमज्जानो वसा तैलं घृतं दधि । (२२।१)

ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi |

22.2२२.२

विपक्वमेकतः शस्तं वातगुल्मे ऽनुवासनम् ॥ (२२।२)

vipakvamekataḥ śastaṃ vātagulme 'nuvāsanam ||

23.1२३.१

जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके । (२३।१)

jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike |

23.2२३.२

तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते ॥ (२३।२)

tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite ||

24.1२४.१

धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् । (२४।१)

dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam |

24.2२४.२

शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने ॥ (२४।२)

śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine ||

25.1२५.१

चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः । (२५।१)

citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ |

25.2२५.२

दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः ॥ (२५।२)

dīpyakagranthikājājīhapuṣādhānyakaiḥ samaiḥ ||

26.1२६.१

दध्यारनालबदरमूलकस्वरसैर् घृतम् । (२६।१)

dadhyāranālabadaramūlakasvarasair ghṛtam |

26.2२६.२

तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् ॥ (२६।२)

tatpibedvātagulmāgnidaurbalyāṭopaśūlanut ||

27.1२७.१

हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः । (२७।१)

hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ |

27.2२७.२

पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः ॥ (२७।२)

puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ ||

28.1२८.१

शटीवचाजगन्धैलासुरसैश्च विपाचितम् । (२८।१)

śaṭīvacājagandhailāsurasaiśca vipācitam |

28.2२८.२

शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ॥ (२८।२)

śūlānāhaharaṃ sarpirdadhnā cānilagulminām ||

29.1२९.१

विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः । (२९।१)

viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ |

29.2२९.२

हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः ॥ (२९।२)

hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ ||

30.1३०.१

बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् । (३०।१)

bījapūrarasopetaṃ sarpirdadhicaturguṇam |

30.2३०.२

साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ॥ (३०।२)

sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit ||

31.1३१.१

रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् । (३१।१)

rasonasvarase sarpiḥ pañcamūlarasānvitam |

31.2३१.२

सुरारनालदध्यम्लमूलकस्वरसैः सह ॥ (३१।२)

surāranāladadhyamlamūlakasvarasaiḥ saha ||

32.1३२.१

व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः । (३२।१)

vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ |

32.2३२.२

हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ॥ (३२।२)

hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ ||

33.1३३.१

सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् । (३३।१)

siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān |

33.2३३.२

कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ॥ (३३।२)

kāsāpasmāramandāgniplīhaśūlānilāñjayet ||

34.1३४.१

दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ । (३४।१)

dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau |

34.2३४.२

पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ॥ (३४।२)

pañcāḍhakāni vipacedāvāpya dvipalānyatha ||

35.1३५.१

सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम् । (३५।१)

sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam |

35.2३५.२

वातगुल्मापहं सर्पिरेतद्दीपनम् एव च ॥ (३५।२)

vātagulmāpahaṃ sarpiretaddīpanam eva ca ||

36.1३६.१

तृणमूलकषाये तु जीवनीयैः पचेद्घृतम् । (३६।१)

tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam |

36.2३६.२

न्यग्रोधादिगणे वापि गणे वाप्युत्पलादिके ॥ (३६।२)

nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike ||

37.1३७.१

रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम् । (३७।१)

raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam |

37.2३७.२

आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ॥ (३७।२)

āragvadhādau vipaceddīpanīyayutaṃ ghṛtam ||

38.1३८.१

क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणे ऽपरम् । (३८।१)

kṣāravarge paceccānyat pacenmūtragaṇe 'param |

38.2३८.२

घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ॥ (३८।२)

ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam ||

39.1३९.१

यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम् । (३९।१)

yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam |

39.2३९.२

चूर्णं हिङ्ग्वादिकं वापि घृतं वा प्लीहनाशनम् ॥ (३९।२)

cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam ||

40.1४०.१

पिबेद्गुल्मापहं काले सर्पिस्तैल्वकम् एव वा । (४०।१)

pibedgulmāpahaṃ kāle sarpistailvakam eva vā |

40.2४०.२

तिलेक्षुरकपालाशसार्षपं यावनालजम् ॥ (४०।२)

tilekṣurakapālāśasārṣapaṃ yāvanālajam ||

41.1४१.१

भस्म मूलकजं चापि गोऽजाविखरहस्तिनाम् । (४१।१)

bhasma mūlakajaṃ cāpi go'jāvikharahastinām |

41.2४१.२

मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ॥ (४१।२)

mūtreṇa mahiṣīṇāṃ ca pālikaiścāvacūrṇitaiḥ ||

42.1४२.१

कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः । (४२।१)

kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ |

42.2४२.२

साजमोदैश्च दशभिः सामुद्राच्च पलैर् युतम् ॥ (४२।२)

sājamodaiśca daśabhiḥ sāmudrācca palair yutam ||

43.1४३.१

अयःपात्रे ऽग्निनाल्पेन पक्त्वा लेह्यमथोद्धरेत् । (४३।१)

ayaḥpātre 'gninālpena paktvā lehyamathoddharet |

43.2४३.२

तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषापि वा ॥ (४३।२)

tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā ||

44.1४४.१

धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा । (४४।१)

dhānyāmlenoṣṇatoyena kaulatthena rasena vā |

44.2४४.२

गुल्मान् वातविकारांश्च क्षारो ऽयं हन्त्यसंशयम् ॥ (४४।२)

gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam ||

45.1४५.१

स्वर्जिकाकुष्ठसहितः क्षारः केतकिजो ऽपि वा । (४५।१)

svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā |

45.2४५.२

तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् ॥ (४५।२)

tailena śamayet pīto gulmaṃ pavanasaṃbhavam ||

46.1४६.१

पीतं सुखाम्बुना वापि स्वर्जिकाकुष्ठसैन्धवम् । (४६।१)

pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam |

46.2४६.२

वृश्चीवमुरुबूकं च वर्षाभूर्बृहतीद्वयम् ॥ (४६।२)

vṛścīvamurubūkaṃ ca varṣābhūrbṛhatīdvayam ||

47.1४७.१

चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम् । (४७।१)

citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam |

47.2४७.२

मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ॥ (४७।२)

māgadhīcitrakakṣaudralipte kumbhe nidhāpayet ||

48.1४८.१

मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् । (४८।१)

madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam |

48.2४८.२

बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ॥ (४८।२)

busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ ||

49.1४९.१

अरिष्टो ऽयं जयेद्गुल्ममविपाकमरोचकम् । (४९।१)

ariṣṭo 'yaṃ jayedgulmamavipākamarocakam |

49.2४९.२

पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ॥ (४९।२)

pāṭhānikumbharajanītrikaṭutriphalāgnikam ||

50.1५०.१

लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः । (५०।१)

lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ |

50.2५०.२

पथ्याभिर् वा युतं चूर्णं गवां मूत्रयुतं पचेत् ॥ (५०।२)

pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet ||

51.1५१.१

गुटिकास् तद् घनीभूतं कृत्वा खादेदभुक्तवान् । (५१।१)

guṭikās tad ghanībhūtaṃ kṛtvā khādedabhuktavān |

51.2५१.२

गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ॥ (५१।२)

gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ ||

52.1५२.१

हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् । (५२।१)

hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam |

52.2५२.२

सशूले सोन्नते ऽस्पन्दे दाहपाकरुगन्विते ॥ (५२।२)

saśūle sonnate 'spande dāhapākaruganvite ||

53.1५३.१

गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत् । (५३।१)

gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret |

53.2५३.२

सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ॥ (५३।२)

sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ ||

54.1५४.१

कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम् । (५४।१)

kaṭutrikasamāyuktā hitāḥ pāne tu gulminām |

54.2५४.२

पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ॥ (५४।२)

peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ ||

55.1५५.१

खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः । (५५।१)

khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ |

55.2५५.२

बद्धवर्चोऽनिलानां तु सार्द्रकं क्षीरमिष्यते ॥ (५५।२)

baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate ||

56.1५६.१

कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक् । (५६।१)

kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak |

56.2५६.२

गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ॥ (५६।२)

gulminaḥ sarva evoktā durvirecyatamā bhṛśam ||

57.1५७.१

अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत् । (५७।१)

ataścaitāṃstu susvinnān sraṃsanenopapādayet |

57.2५७.२

विम्लापनाभ्यञ्जनानि तथैव दहनानि च ॥ (५७।२)

vimlāpanābhyañjanāni tathaiva dahanāni ca ||

58.1५८.१

उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः । (५८।१)

upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ |

58.2५८.२

उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ॥ (५८।२)

udaroktāni sarpīṃṣi mūtravartikriyāstathā ||

59.1५९.१

लवणानि च योज्यानि यान्युक्तान्यनिलामये । (५९।१)

lavaṇāni ca yojyāni yānyuktānyanilāmaye |

59.2५९.२

वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ॥ (५९।२)

vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ ||

60.1६०.१

कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः । (६०।१)

kṛtvā pāyau vidhātavyā vartayo maricottarāḥ |

60.2६०.२

दन्तीचित्रकमूलेषु तथा वातहरेषु च ॥ (६०।२)

dantīcitrakamūleṣu tathā vātahareṣu ca ||

61.1६१.१

कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान् । (६१।१)

kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān |

61.2६१.२

खादेद्वाप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ॥ (६१।२)

khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ ||

62.1६२.१

ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत् । (६२।१)

ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet |

62.2६२.२

पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ॥ (६२।२)

pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm ||

63.1६३.१

गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् । (६३।१)

gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām |

63.2६३.२

मूत्रमद्यपयोद्राक्षारसैर् वीक्ष्य बलाबलम् ॥ (६३।२)

mūtramadyapayodrākṣārasair vīkṣya balābalam ||

64.1६४.१

एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु । (६४।१)

evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu |

64.2६४.२

पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ॥ (६४।२)

pippalīpippalīmūlacavyacitrakasaindhavaiḥ ||

65.1६५.१

युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता । (६५।१)

yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā |

65.2६५.२

बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ॥ (६५।२)

baddhaviṇmāruto gulmī bhuñjīta payasā yavān ||

66.1६६.१

कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् । (६६।१)

kulmāṣān vā bahusnehān bhakṣayellavaṇottarān |

66.2६६.२

अथास्योपद्रवः शूलः कथंचिदुपजायते ॥ (६६।२)

athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate ||

67.1६७.१

शूलं निखानितमिवासुखं येन तु वेत्त्यसौ । (६७।१)

śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau |

67.2६७.२

तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ॥ (६७।२)

tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā ||

68.1६८.१

तृष्णा दाहो भ्रमो ऽन्नस्य विदग्धपरिवृद्धिता । (६८।१)

tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā |

68.2६८.२

रोमहर्षो ऽरुचिश् छर्दिर् भुक्तवृद्धिर् जडाङ्गता ॥ (६८।२)

romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā ||

69.1६९.१

वाय्वादिभिर् यथासङ्ख्यां मिश्रैर् वा वीक्ष्य योजयेत् । (६९।१)

vāyvādibhir yathāsaṅkhyāṃ miśrair vā vīkṣya yojayet |

69.2६९.२

पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ॥ (६९।२)

pathyātrilavaṇaṃ kṣāraṃ hiṅgutumburupauṣkaram ||

70.1७०.१

यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम् । (७०।१)

yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam |

70.2७०.२

विदारीत्रिफलाभीरुशृङ्गाटीगुडशर्कराः ॥ (७०।२)

vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ ||

71.1७१.१

काश्मरीफलयष्ट्याह्वपरूषकहिमानि च । (७१।१)

kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca |

71.2७१.२

षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ॥ (७१।२)

ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān ||

72.1७२.१

कृष्णामूलकचव्यं च नागरक्षारचित्रकान् । (७२।१)

kṛṣṇāmūlakacavyaṃ ca nāgarakṣāracitrakān |

72.2७२.२

उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ॥ (७२।२)

uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān ||

73.1७३.१

यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे । (७३।१)

yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje |

73.2७३.२

तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ॥ (७३।२)

tathaiva sekāvagāhapradehābhyaṅgabhojanam ||

74.1७४.१

शिशिरोदकपूर्णानां भाजनानां च धारणम् । (७४।१)

śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam |

74.2७४.२

वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ॥ (७४।२)

vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ ||

75.1७५.१

स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते । (७५।१)

snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate |

75.2७५.२

वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ॥ (७५।२)

vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam ||

76.1७६.१

न खादेदालुकं गुल्मी मधुराणि फलानि च । (७६।१)

na khādedālukaṃ gulmī madhurāṇi phalāni ca |

76.2७६.२

विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ॥ (७६।२)

vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate ||

77.1७७.१

निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम् । (७७।१)

nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam |

77.2७७.२

वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ॥ (७७।२)

vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt ||

78.1७८.१

अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात् । (७८।१)

ajīrṇādhyaśanāyāsaviruddhānnopasevanāt |

78.2७८.२

पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ॥ (७८।२)

pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt ||

79.1७९.१

पिष्टान्नशुष्कमांसानाम् उपयोगात्तथैव च । (७९।१)

piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca |

79.2७९.२

एवंविधानां द्रव्याणामन्येषां चोपसेवनात् ॥ (७९।२)

evaṃvidhānāṃ dravyāṇāmanyeṣāṃ copasevanāt ||

80.1८०.१

वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम् । (८०।१)

vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam |

80.2८०.२

निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ॥ (८०।२)

nirucchvāsī bhavettena vedanāpīḍito naraḥ ||

81.1८१.१

शूलशङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः । (८१।१)

śūlaśaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ |

81.2८१.२

शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ॥ (८१।२)

śūlāsaktasya lakṣyante tasmācchūlamihocyate ||

82.1८२.१

निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते । (८२।१)

nirāhārasya yasyaiva tīvraṃ śūlamudīryate |

82.2८२.२

प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ॥ (८२।२)

prastabdhagātro bhavati kṛcchreṇocchvasitīva ca ||

83.1८३.१

वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः । (८३।१)

vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ |

83.2८३.२

एतैर् लिङ्गैर् विजानीयाच्छूलं वातसमुद्भवम् ॥ (८३।२)

etair liṅgair vijānīyācchūlaṃ vātasamudbhavam ||

84.1८४.१

तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च । (८४।१)

tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca |

84.2८४.२

शीताभिकामो भवति शीतेनैव प्रशाम्यति ॥ (८४।२)

śītābhikāmo bhavati śītenaiva praśāmyati ||

85.1८५.१

एतैर् लिङ्गैर् विजानीयाच्छूलं पित्तसमुद्भवम् । (८५।१)

etair liṅgair vijānīyācchūlaṃ pittasamudbhavam |

85.2८५.२

शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ॥ (८५।२)

śūlenotpīḍyamānasya hṛllāsa upajāyate ||

86.1८६.१

अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता । (८६।१)

atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā |

86.2८६.२

एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ॥ (८६।२)

etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam ||

87.1८७.१

सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम् । (८७।१)

sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam |

87.2८७.२

सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ॥ (८७।२)

sannipātasamutthānamasādhyaṃ taṃ vinirdiśet ||

88.1८८.१

शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे । (८८।१)

śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me |

88.2८८.२

आशुकारी हि पवनस्तस्मात् तं त्वरया जयेत् ॥ (८८।२)

āśukārī hi pavanastasmāt taṃ tvarayā jayet ||

89.1८९.१

तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः । (८९।१)

tasya śūlābhipannasya sveda eva sukhāvahaḥ |

89.2८९.२

पायसैः कृशरापिण्डैः स्निग्धैर् वा पिशितैर् हितः ॥ (८९।२)

pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ ||

90.1९०.१

त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम् । (९०।१)

trivṛcchākena vā snigdhamuṣṇaṃ bhuñjīta bhojanam |

90.2९०.२

चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ॥ (९०।२)

cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet ||

91.1९१.१

वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः । (९१।१)

vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ |

91.2९१.२

यथालाभं निषेवेत मांसानि बिलशायिनाम् ॥ (९१।२)

yathālābhaṃ niṣeveta māṃsāni bilaśāyinām ||

92.1९२.१

सुरा सौवीरकं चुक्रं मस्तूदश्वित्तथा दधि । (९२।१)

surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi |

92.2९२.२

सकाललवणं पेयं शूले वातसमुद्भवे ॥ (९२।२)

sakālalavaṇaṃ peyaṃ śūle vātasamudbhave ||

93.1९३.१

कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः । (९३।१)

kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ |

93.2९३.२

ससैन्धवः समरिचो वातशूलविनाशनः ॥ (९३।२)

sasaindhavaḥ samarico vātaśūlavināśanaḥ ||

94.1९४.१

विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान् । (९४।१)

viḍaṅgaśigrukampillapathyāśyāmāmlavetasān |

94.2९४.२

सुरसाम् अश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ॥ (९४।२)

surasām aśvamūtrīṃ ca sauvarcalayutān pibet ||

95.1९५.१

मद्येन वातजं शूलं क्षिप्रम् एव प्रशाम्यति । (९५।१)

madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati |

95.2९५.२

पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ॥ (९५।२)

pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ ||

96.1९६.१

पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत् । (९६।१)

pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet |

96.2९६.२

तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ॥ (९६।२)

tāni cūrṇāni payasā pibet kāmbalikena vā ||

97.1९७.१

मध्वासवेन चुक्रेण सुरासौवीरकेण वा । (९७।१)

madhvāsavena cukreṇa surāsauvīrakeṇa vā |

97.2९७.२

अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ॥ (९७।२)

athavaitāni cūrṇāni mātuluṅgarasena vā ||

98.1९८.१

तथा बदरयूषेण भावितानि पुनः पुनः । (९८।१)

tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ |

98.2९८.२

तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ॥ (९८।२)

tāni hiṅgupragāḍhāni saha śarkarayā pibet ||

99.1९९.१

सह दाडिमसारेण वर्तिः कार्या भिषग्जिता । (९९।१)

saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā |

99.2९९.२

सा वर्तिर्वातिकं शूलं क्षिप्रम् एव व्यपोहति ॥ (९९।२)

sā vartirvātikaṃ śūlaṃ kṣipram eva vyapohati ||

100.1१००.१

गुडतैलेन वा लीढा पीता मद्येन वा पुनः । (१००।१)

guḍatailena vā līḍhā pītā madyena vā punaḥ |

100.2१००.२

बुभुक्षाप्रभवे शूले लघु संतर्पणं हितम् ॥ (१००।२)

bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam ||

101.1१०१.१

उष्णैः क्षीरैर् यवागूभिः स्निग्धैर् मांसरसैस्तथा । (१०१।१)

uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā |

101.2१०१.२

वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् ॥ (१०१।२)

vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet ||

102.1१०२.१

सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः । (१०२।१)

susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ |

102.2१०२.२

वारुणीं च पिबेज्जन्तुस्तथा सम्पद्यते सुखी ॥ (१०२।२)

vāruṇīṃ ca pibejjantustathā sampadyate sukhī ||

103.1१०३.१

एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम् । (१०३।१)

etadvātasamutthasya śūlasyoktaṃ cikitsitam |

103.2१०३.२

अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् ॥ (१०३।२)

atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param ||

104.1१०४.१

स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः । (१०४।१)

sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ |

104.2१०४.२

शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् ॥ (१०४।२)

śītalāni ca seveta sarvāṇyuṣṇāni varjayet ||

105.1१०५.१

मणिराजतताम्राणि भाजनानि च सर्वशः । (१०५।१)

maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ |

105.2१०५.२

वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् ॥ (१०५।२)

vāripūrṇāni tānyasya śūlasyopari nikṣipet ||

106.1१०६.१

गुडः शालिर्यवाः क्षीरं सर्पिः पानं विरेचनम् । (१०६।१)

guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam |

106.2१०६.२

जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥ (१०६।२)

jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām ||

107.1१०७.१

रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत् । (१०७।१)

rasān seveta pittaghnān pittalāni vivarjayet |

107.2१०७.२

पालाशं धान्वनं वापि पिबेद्यूषं सशर्करम् ॥ (१०७।२)

pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram ||

108.1१०८.१

परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि । (१०८।१)

parūṣakāṇi mṛdvīkākharjūrodakajānyapi |

108.2१०८.२

तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् ॥ (१०८।२)

tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam ||

109.1१०९.१

अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च । (१०९।१)

aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca |

109.2१०९.२

वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् ॥ (१०९।२)

vamanaṃ kārayettatra pippalīvāriṇā bhiṣak ||

110.1११०.१

रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः । (११०।१)

rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ |

110.2११०.२

पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ॥ (११०।२)

pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam ||

111.1१११.१

पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम् । (१११।१)

pāṭhāṃ vacāṃ trikaṭukaṃ tathā kaṭukarohiṇīm |

111.2१११.२

चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् ॥ (१११।२)

citrakasya ca niryūhe pibedyūṣaṃ sahārjakam ||

112.1११२.१

एरण्डफलमूलानि मूलं गोक्षुरकस्य च । (११२।१)

eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca |

112.2११२.२

शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ॥ (११२।२)

śālaparṇīṃ pṛśniparṇīṃ bṛhatīṃ kaṇṭakārikām ||

113.1११३.१

दद्याच्छृगालविन्नां च सहदेवां तथैव च । (११३।१)

dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca |

113.2११३.२

महासहां क्षुद्रसहां मूलमिक्षुरकस्य च ॥ (११३।२)

mahāsahāṃ kṣudrasahāṃ mūlamikṣurakasya ca ||

114.1११४.१

एतत् संभृत्य संभारं जलद्रोणे विपाचयेत् । (११४।१)

etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet |

114.2११४.२

चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ॥ (११४।२)

caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet ||

115.1११५.१

वातिकं पैत्तिकं वापि श्लैष्मिकं सान्निपातिकम् । (११५।१)

vātikaṃ paittikaṃ vāpi ślaiṣmikaṃ sānnipātikam |

115.2११५.२

प्रसह्य नाशयेच्छूलं छिन्नाभ्रम् इव मारुतः ॥ (११५।२)

prasahya nāśayecchūlaṃ chinnābhram iva mārutaḥ ||

116.1११६.१

पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च । (११६।१)

pippalī svarjikākṣāro yavāścitraka eva ca |

116.2११६.२

सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ॥ (११६।२)

sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ ||

117.1११७.१

पार्श्वशूलतदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम् । (११७।१)

pārśvaśūlataduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam |

117.2११७.२

रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ॥ (११७।२)

ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ ||

118.1११८.१

स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम् । (११८।१)

sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam |

118.2११८.२

सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ॥ (११८।२)

sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ ||

119.1११९.१

नान्नं वाञ्छति नो निद्राम् उपैत्यर्तिनिपीडितः । (११९।१)

nānnaṃ vāñchati no nidrām upaityartinipīḍitaḥ |

119.2११९.२

पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ॥ (११९।२)

pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ ||

120.1१२०.१

तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम् । (१२०।१)

tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam |

120.2१२०.२

सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् ॥ (१२०।२)

saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet ||

121.1१२१.१

पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम् । (१२१।१)

pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam |

121.2१२१.२

सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् ॥ (१२१।२)

sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam ||

122.1१२२.१

बीजपूरकसारं वा पयसा सह साधितम् । (१२२।१)

bījapūrakasāraṃ vā payasā saha sādhitam |

122.2१२२.२

एरण्डतैलमथवा मद्यमस्तुपयोरसैः ॥ (१२२।२)

eraṇḍatailamathavā madyamastupayorasaiḥ ||

123.1१२३.१

भोजयेच्चापि पयसा जाङ्गलेन रसेन वा । (१२३।१)

bhojayeccāpi payasā jāṅgalena rasena vā |

123.2१२३.२

प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः ॥ (१२३।२)

prakupyati yadā kukṣau vahnimākramya mārutaḥ ||

124.1१२४.१

तदास्य भोजनं भुक्तं सोपस्तम्भं न पच्यते । (१२४।१)

tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate |

124.2१२४.२

उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः ॥ (१२४।२)

ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ ||

125.1१२५.१

नैवासने न शयने तिष्ठन् वा लभते सुखम् । (१२५।१)

naivāsane na śayane tiṣṭhan vā labhate sukham |

125.2१२५.२

कुक्षिशूल इति ख्यातो वातादामसमुद्भवः ॥ (१२५।२)

kukṣiśūla iti khyāto vātādāmasamudbhavaḥ ||

126.1१२६.१

वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम् । (१२६।१)

vamanaṃ kārayettatra laṅghayedvā yathābalam |

126.2१२६.२

संसर्गपाचनं कुर्यादम्लैर् दीपनसंयुतैः ॥ (१२६।२)

saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ ||

127.1१२७.१

नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम् । (१२७।१)

nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam |

127.2१२७.२

मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः ॥ (१२७।२)

mātuluṅgasya bījāni tathā śyāmorubūkayoḥ ||

128.1१२८.१

बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत् । (१२८।१)

bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet |

128.2१२८.२

वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाभया ॥ (१२८।२)

vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā ||

129.1१२९.१

कुटजस्य च बीजानि सद्यःशूलहराणि तु । (१२९।१)

kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu |

129.2१२९.२

विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ॥ (१२९।२)

virecane prayuñjīta jñātvā doṣabalābalam ||

130.1१३०.१

स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान् । (१३०।१)

snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān |

130.2१३०.२

उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् ॥ (१३०।२)

upanāhāḥ snehasekā dhānyāmlapariṣecanam ||

131.1१३१.१

अवगाहाश्च शस्यन्ते यच्चान्यद् अपि तद्धितम् । (१३१।१)

avagāhāśca śasyante yaccānyad api taddhitam |

131.2१३१.२

कफपित्तावरुद्धस्तु मारुतो रसमूर्छितः ॥ (१३१।२)

kaphapittāvaruddhastu māruto rasamūrchitaḥ ||

132.1१३२.१

हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम् । (१३२।१)

hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param |

132.2१३२.२

स हृच्छूल इति ख्यातो रसमारुतसंभवः ॥ (१३२।२)

sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ ||

133.1१३३.१

तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् । (१३३।१)

tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām |

133.2१३३.२

संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति ॥ (१३३।२)

saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati ||

134.1१३४.१

बस्तिवङ्क्षणनाभीषु ततः शूलो ऽस्य जायते । (१३४।१)

bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate |

134.2१३४.२

विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् ॥ (१३४।२)

viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt ||

135.1१३५.१

नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः । (१३५।१)

nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ |

135.2१३५.२

मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् ॥ (१३५।२)

mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt ||

136.1१३६.१

विट्शूलवायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः । (१३६।१)

viṭśūlavāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ |

136.2१३६.२

मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् ॥ (१३६।२)

malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam ||

137.1१३७.१

शूलं संजनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि । (१३७।१)

śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi |

137.2१३७.२

दक्षिणं यदि वा वामं कुक्षिमादाय जायते ॥ (१३७।२)

dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate ||

138.1१३८.१

सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान् । (१३८।१)

sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān |

138.2१३८.२

पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते ॥ (१३८।२)

pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate ||

139.1१३९.१

उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति । (१३९।१)

uccārito mūtritaśca na śāntimadhigacchati |

139.2१३९.२

विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् ॥ (१३९।२)

viṭśūlametajjānīyādbhiṣak paramadāruṇam ||

140.1१४०.१

क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता । (१४०।१)

kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā |

140.2१४०.२

स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः ॥ (१४०।२)

svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ ||

141.1१४१.१

पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान् । (१४१।१)

pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān |

141.2१४१.२

उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः ॥ (१४१।२)

udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ ||

142.1१४२.१

अतिमात्रं यदा भुक्तं पावके मृदुतां गते । (१४२।१)

atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate |

142.2१४२.२

स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति ॥ (१४२।२)

sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati ||

143.1१४३.१

अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति । (१४३।१)

avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati |

143.2१४३.२

मूर्च्छाध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका ॥ (१४३।२)

mūrcchādhmānaṃ vidāhaśca hṛdutkleśo vilambikā ||

144.1१४४.१

विरिच्यते छर्दयति कम्पते ऽथ विमुह्यति । (१४४।१)

viricyate chardayati kampate 'tha vimuhyati |

144.2१४४.२

अविपाकाद् भवेच्छूलस् त्वन्नदोषसमुद्भवः ॥ (१४४।२)

avipākād bhavecchūlas tvannadoṣasamudbhavaḥ ||

145.1१४५.१

वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः । (१४५।१)

vamanaṃ laṅghanaṃ svedaḥ pācanaṃ phalavartayaḥ |

145.2१४५.२

क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः ॥ (१४५।२)

kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ ||

146.0१४६.०

गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् ॥ (१४६।०)

gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 6, 42

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit