सुश्रुतसंहिताSuśrutasaṃhitā

Su, 1, 30

30 of 186 · 44 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः पञ्चेन्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥ (१।१)

athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

देड़िनितिओन् अरिष्टशरीरशीलयोर् यस्य प्रकृतेर्विकृतिर्भवेत् । (३।१)

Definition ariṣṭaśarīraśīlayor yasya prakṛtervikṛtirbhavet |

3.2३.२

तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ॥ (३।२)

tattvariṣṭaṃ samāsena vyāsatastu nibodha me ||

4.1४.१

इन्दिकतोरेन्: त्￶नेशृणोति विविधान् शब्दान् यो दिव्यानामभावतः । (४।१)

Indikatoren: T￶neśṛṇoti vividhān śabdān yo divyānāmabhāvataḥ |

4.2४.२

समुद्रपुरमेघानामसंपत्तौ च निःस्वनान् ॥ (४।२)

samudrapurameghānāmasaṃpattau ca niḥsvanān ||

5.1५.१

तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् । (५।१)

tān svanānnāvagṛhṇāti manyate cānyaśabdavat |

5.2५.२

ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोति च ॥ (५।२)

grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca ||

6.1६.१

द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति । (६।१)

dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati |

6.2६.२

न शृणोति च यो ऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥ (६।२)

na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam ||

7.1७.१

तेम्पेरतुर्wअह्र्नेह्मुन्ग्यस्तूष्णम् इव गृह्णाति शीतमुष्णं च शीतवत् । (७।१)

Temperaturwahrnehmungyastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat |

7.2७.२

संजातशीतपिडको यश्च दाहेन पीड्यते ॥ (७।२)

saṃjātaśītapiḍako yaśca dāhena pīḍyate ||

8.1८.१

उष्णगात्रो ऽतिमात्रं च यः शीतेन प्रवेपते । (८।१)

uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate |

8.2८.२

वेर्लुस्त् देस् बेर्ह्रुन्ग्स्सिन्न्स्प्रहारान्नाभिजानाति यो ऽङ्गच्छेदमथापि वा ॥ (८।२)

verlust des Berhrungssinnsprahārānnābhijānāti yo 'ṅgacchedamathāpi vā ||

9.1९.१

पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते । (९।१)

pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate |

9.2९.२

वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ॥ (९।२)

varṇānyatā vā rājyo vā yasya gātre bhavanti hi ||

10.1१०.१

क्￶र्पेर्गेरुछ्स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः । (१०।१)

K￶rpergeruchsnātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ |

10.2१०.२

सुगन्धिर् वाति यो ऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥ (१०।२)

sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam ||

11.1११.१

ड़ल्स्छे गेरुछ्स्wअह्र्नेह्मुन्ग्विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् । (११।१)

falsche Geruchswahrnehmungviparītena gṛhṇāti rasān yaścopayojitān |

11.2११.२

उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ॥ (११।२)

upayuktāḥ kramādyasya rasā doṣābhivṛddhaye ||

12.1१२.१

ड़ल्स्छे गेस्छ्मच्क्स्wअह्र्नेह्मुन्ग्यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः । (१२।१)

falsche Geschmackswahrnehmungyasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ |

12.2१२.२

यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते ॥ (१२।२)

yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate ||

13.1१३.१

सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् । (१३।१)

sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām |

13.2१३.२

गृह्णीते वान्यथा गन्धं शान्ते दीपे च नीरुजः ॥ (१३।२)

gṛhṇīte vānyathā gandhaṃ śānte dīpe ca nīrujaḥ ||

14.1१४.१

यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् । (१४।१)

yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet |

14.2१४.२

वेर्wएछ्स्लुन्ग् वोन् गेगेन्सत्ज़्पअरेन्द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा ॥ (१४।२)

verwechslung von Gegensatzpaarendvandvānyuṣṇahimādīni kālāvasthā diśastathā ||

15.1१५.१

विपरीतेन गृह्णाति भावानन्यांश्च यो नरः । (१५।१)

viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ |

15.2१५.२

हल्लुज़िनतिओनेन्दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ॥ (१५।२)

Halluzinationendivā jyotīṃṣi yaścāpi jvalitānīva paśyati ||

16.1१६.१

रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् । (१६।१)

rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam |

16.2१६.२

अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् ॥ (१६।२)

ameghopaplave yaśca śakracāpataḍidguṇān ||

17.1१७.१

तडित्त्वतो ऽसितान् यो वा निर्मले गगने घनान् । (१७।१)

taḍittvato 'sitān yo vā nirmale gagane ghanān |

17.2१७.२

विमानयानप्रासादैर् यश्च संकुलमम्बरम् ॥ (१७।२)

vimānayānaprāsādair yaśca saṃkulamambaram ||

18.1१८.१

यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति । (१८।१)

yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati |

18.2१८.२

धूमनीहारवासोभिर् आवृताम् इव मेदिनीम् ॥ (१८।२)

dhūmanīhāravāsobhir āvṛtām iva medinīm ||

19.1१९.१

प्रदीप्तम् इव लोकं च यो वा प्लुतमिवाम्भसा । (१९।१)

pradīptam iva lokaṃ ca yo vā plutamivāmbhasā |

19.2१९.२

भूमिम् अष्टापदाकारां लेखाभिर् यश्च पश्यति ॥ (१९।२)

bhūmim aṣṭāpadākārāṃ lekhābhir yaśca paśyati ||

20.1२०.१

न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् । (२०।१)

na paśyati sanakṣatrāṃ yaśca devīmarundhatīm |

20.2२०.२

ध्रुवम् आकाशगङ्गां वा तं वदन्ति गतायुषम् ॥ (२०।२)

dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam ||

21.1२१.१

निछ्त्-एर्केन्नेन् देस् एइगेनेन् स्पिएगेल्बिल्द्स्ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति । (२१।१)

Nicht-Erkennen des eigenen spiegelbildsjyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati |

21.2२१.२

पश्यत्येकाङ्गहीनां वा विकृतां वान्यसत्त्वजाम् ॥ (२१।२)

paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām ||

22.1२२.१

श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् । (२२।१)

śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām |

22.2२२.२

पिशाचोरगनागानां भूतानां विकृताम् अपि ॥ (२२।२)

piśācoraganāgānāṃ bhūtānāṃ vikṛtām api ||

23.1२३.१

यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते । (२३।१)

yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate |

23.2२३.२

आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ॥ (२३।२)

āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 1, 30

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit