सुश्रुतसंहिताSuśrutasaṃhitā

Su, 1, 37

37 of 186 · 65 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो मिश्रकमध्यायं व्याख्यास्यामः ॥ (१।१)

athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

मातुलुङ्गाग्निमन्थौ च भद्रदारु महौषधम् । (३।१)

mātuluṅgāgnimanthau ca bhadradāru mahauṣadham |

3.2३.२

अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ॥ (३।२)

ahiṃsrā caiva rāsnā ca pralepo vātaśophajit ||

4.1४.१

दूर्वा च नलमूलं च मधुकं चन्दनं तथा । (४।१)

dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā |

4.2४.२

शीतलाश् च गणाः सर्वे प्रलेपः पित्तशोफहृत् ॥ (४।२)

śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt ||

5.1५.१

आगन्तुजे रक्तजे च ह्य् एष एव विधिः स्मृतः । (५।१)

āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ |

5.2५.२

विधिर्विषघ्नो विषजे पित्तघ्नो ऽपि हितस्तथा ॥ (५।२)

vidhirviṣaghno viṣaje pittaghno 'pi hitastathā ||

6.1६.१

अजगन्धाश्वगन्धा च काला सरलया सह । (६।१)

ajagandhāśvagandhā ca kālā saralayā saha |

6.2६.२

एकैषिकाजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ॥ (६।२)

ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt ||

7.1७.१

एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च । (७।१)

ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca |

7.2७.२

अनन्ता चेति लेपो ऽयं सान्निपातिकशोफहृत् ॥ (७।२)

anantā ceti lepo 'yaṃ sānnipātikaśophahṛt ||

8.1८.१

स्निग्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः । (८।१)

snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |

8.2८.२

पित्ते चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ॥ (८।२)

pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye ||

9.1९.१

शणमूलकशिग्रूणां फलानि तिलसर्षपाः । (९।१)

śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ |

9.2९.२

सक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ॥ (९।२)

saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam ||

10.1१०.१

चिरबिल्वो ऽग्निको दन्ती चित्रको हयमारकः । (१०।१)

cirabilvo 'gniko dantī citrako hayamārakaḥ |

10.2१०.२

कपोतगृध्रकङ्काणां पुरीषाणि च दारणम् । (१०।२)

kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam |

10.3१०.३

क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ॥ (१०।३)

kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param ||

11.1११.१

द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् । (११।१)

dravyāṇāṃ picchilānāṃ tu tvaṅmūlāni prapīḍanam |

11.2११.२

यवगोधूममाषाणां चूर्णानि च समासतः ॥ (११।२)

yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ ||

12.1१२.१

शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः । (१२।१)

śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |

12.2१२.२

शोधनानि कषायाणि वर्गश्चारग्वधादिकः ॥ (१२।२)

śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ ||

13.1१३.१

अजगन्धाजशृङ्गी च गवाक्षी लाङ्गलाह्वया । (१३।१)

ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā |

13.2१३.२

पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥ (१३।२)

pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ||

14.1१४.१

कटुत्रिकं यवक्षारो लवणानि मनःशिला । (१४।१)

kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā |

14.2१४.२

कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा ॥ (१४।२)

kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā ||

15.1१५.१

संशोधनीनां वर्तीनां द्रव्याण्येतानि निर्दिशेत् । (१५।१)

saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet |

15.2१५.२

एतैर् एवौषधैः कुर्यात्कल्कान् अपि च शोधनान् ॥ (१५।२)

etair evauṣadhaiḥ kuryātkalkān api ca śodhanān ||

16.1१६.१

अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमान् अपि । (१६।१)

arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api |

16.2१६.२

जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ॥ (१६।२)

jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm ||

17.1१७.१

पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् । (१७।१)

pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam |

17.2१७.२

मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ॥ (१७।२)

mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ ||

18.1१८.१

बृहती कण्टकारी च हरितालं मनःशिला । (१८।१)

bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā |

18.2१८.२

शोधनानि च योज्यानि तैले द्रव्याणि शोधने ॥ (१८।२)

śodhanāni ca yojyāni taile dravyāṇi śodhane ||

19.1१९.१

कासीसे सैन्धवे किण्वे वचायां रजनीद्वये । (१९।१)

kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye |

19.2१९.२

शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् ॥ (१९।२)

śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam ||

20.1२०.१

सालसारादिसारेषु पटोलत्रिफलासु च । (२०।१)

sālasārādisāreṣu paṭolatriphalāsu ca |

20.2२०.२

रसक्रिया विधातव्या शोधनी शोधनेषु च ॥ (२०।२)

rasakriyā vidhātavyā śodhanī śodhaneṣu ca ||

21.1२१.१

श्रीवेष्टके सर्जरसे सरले देवदारुणि । (२१।१)

śrīveṣṭake sarjarase sarale devadāruṇi |

21.2२१.२

सारेष्व् अपि च कुर्वीत मतिमान् व्रणधूपनम् ॥ (२१।२)

sāreṣv api ca kurvīta matimān vraṇadhūpanam ||

22.1२२.१

कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितम् । (२२।१)

kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam |

22.2२२.२

शृतं शीतं कषायं वा रोपणार्थेषु शस्यते ॥ (२२।२)

śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate ||

23.1२३.१

सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा । (२३।१)

somāmṛtāśvagandhāsu kākolyādau gaṇe tathā |

23.2२३.२

क्षीरिप्ररोहेष्व् अपि च वर्तयो रोपणाः स्मृताः ॥ (२३।२)

kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ ||

24.1२४.१

समङ्गा सोमसरला सोमवल्कः सचन्दनः । (२४।१)

samaṅgā somasaralā somavalkaḥ sacandanaḥ |

24.2२४.२

काकोल्यादिश् च कल्कः स्यात् प्रशस्तो व्रणरोपणे ॥ (२४।२)

kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe ||

25.1२५.१

पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता । (२५।१)

pṛthakparṇyātmaguptā ca haridre mālatī sitā |

25.2२५.२

काकोल्यादिश् च योज्यः स्याद्भिषजा रोपणे घृते ॥ (२५।२)

kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte ||

26.1२६.१

कालानुसार्यागुरुणी हरिद्रे देवदारु च । (२६।१)

kālānusāryāguruṇī haridre devadāru ca |

26.2२६.२

प्रियङ्गवश् च रोध्रं च तैले योज्यानि रोपणे ॥ (२६।२)

priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe ||

27.1२७.१

कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया । (२७।१)

kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā |

27.2२७.२

धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ॥ (२७।२)

dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate ||

28.1२८.१

प्रियङ्गुका सर्जरसः पुष्पकासीसम् एव च । (२८।१)

priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca |

28.2२८.२

त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते ॥ (२८।२)

tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate ||

29.1२९.१

त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च । (२९।१)

tvakṣu nyagrodhavargasya triphalāyāstathaiva ca |

29.2२९.२

रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ॥ (२९।२)

rasakriyāṃ ropaṇārthe vidadhīta yathākramam ||

30.1३०.१

अपामार्गो ऽश्वगन्धा च तालपत्री सुवर्चला । (३०।१)

apāmārgo 'śvagandhā ca tālapatrī suvarcalā |

30.2३०.२

उत्सादने प्रशस्यन्ते काकोल्यादिश् च यो गणः ॥ (३०।२)

utsādane praśasyante kākolyādiś ca yo gaṇaḥ ||

31.1३१.१

कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला । (३१।१)

kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā |

31.2३१.२

कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ॥ (३१।२)

kukkuṭāṇḍakapālāni sumanomukulāni ca ||

32.1३२.१

फले शैरीषकारञ्जे धातुचूर्णानि यानि च । (३२।१)

phale śairīṣakārañje dhātucūrṇāni yāni ca |

32.2३२.२

व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ॥ (३२।२)

vraṇeṣūtsannamāṃseṣu praśastānyavasādane ||

33.1३३.१

समस्तं वर्गमर्धं वा यथालाभमथापि वा । (३३।१)

samastaṃ vargamardhaṃ vā yathālābhamathāpi vā |

33.2३३.२

प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ॥ (३३।२)

prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 1, 37

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit