Su, 6, 43
Select a line for its word-by-word analysis.
विरुद्धाध्यशनाजीर्णैर् असात्म्यैश्चापि भोजनैः ॥ (३।२)
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ ||
कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते ॥ (४।२)
kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate ||
चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक् । (५।१)
caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak |
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यते ऽपि च ॥ (६।२)
nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca ||
तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः । (७।१)
tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ |
धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ॥ (७।२)
dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca ||
गौरवं कफसंस्रावो ऽरुचिः स्तम्भो ऽग्निमार्दवम् । (८।१)
gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam |
उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस् तमः । (९।१)
utkleśaḥ ṣṭhīvanaṃ todaḥ śūlo hṛllāsakas tamaḥ |
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ॥ (९।२)
aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet ||
भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषाम् उपद्रवाः । (१०।१)
bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ |
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः ॥ (१०।२)
kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ ||
वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् । (११।१)
vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam |
भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः । (१४।१)
bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ |
वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः ॥ (१४।२)
vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ ||
श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर् वमेत् । (१५।१)
śrīparṇīmadhukakṣaudrasitotpalajalair vamet |
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् ॥ (१५।२)
pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam ||
घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान् । (१६।१)
ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān |
तृप्तस्य च रसैर् मुख्यैर् मधुरैः सघृतैर् भिषक् ॥ (१६।२)
tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak ||
सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम् । (१७।१)
sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam |
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके ॥ (१७।२)
vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake ||
चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम् । (१८।१)
cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam |
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः ॥ (१८।२)
phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ ||
श्यामात्रिवृत्कल्कयुतं घृतं वापि विरेचनम् । (१९।१)
śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam |
बलातैलैर् विदध्याच्च बस्तिं बस्तिविशारदः ॥ (१९।२)
balātailair vidadhyācca bastiṃ bastiviśāradaḥ ||
कृमिहृद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् । (२०।१)
kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam |
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत् ॥ (२०।२)
dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet ||
सुगन्धिभिः सलवणैर् योगैः साजाजिशर्करैः । (२१।१)
sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ |
विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् ॥ (२१।२)
viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram ||
हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम् । (२२।१)
hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām |
Data courtesy of The Digital Corpus of Sanskrit.