Su, 4, 21
Select a line for its word-by-word analysis.
संलिख्य सर्षपीं सम्यक् कषायैर् अवचूर्णयेत् । (३।१)
saṃlikhya sarṣapīṃ samyak kaṣāyair avacūrṇayet |
अष्ठीलिकां जलौकोभिर् ग्राहयेच्च पुनः पुनः । (४।१)
aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ |
तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ॥ (४।२)
tathā cānupaśāmyantīṃ kaphagranthivaduddharet ||
स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् । (५।१)
svedayedgrathitaṃ śaśvannāḍīsvedena buddhimān |
सुखोष्णैर् उपनाहैश्च सुस्निग्धैर् उपनाहयेत् ॥ (५।२)
sukhoṣṇair upanāhaiśca susnigdhair upanāhayet ||
कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत् । (६।१)
kumbhīkāṃ pākamāpannāṃ bhindyācchuddhāṃ tu ropayet |
मधुरैः सर्पिषा स्निग्धैः सुखोष्णैर् उपनाहयेत् ॥ (८।२)
madhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet ||
भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा ॥ (९।२)
bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā ||
क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत् । (११।१)
kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet |
जलौकोभिर् हरेच्चासृक् सर्पिषा चावसेचयेत् ॥ (११।२)
jalaukobhir hareccāsṛk sarpiṣā cāvasecayet ||
स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि । (१२।१)
sparśahānyāṃ haredraktaṃ pradihyānmadhurairapi |
क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः ॥ (१२।२)
kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ ||
पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक् । (१३।१)
piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak |
उद्धृत्य मधुसंयुक्तैः कषायैर् अवचूर्णयेत् ॥ (१३।२)
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇayet ||
पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् ॥ (१४।२)
pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram ||
क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत् । (१५।१)
kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat |
रक्तविद्रधिवच्चापि क्रिया शोणितजे ऽर्बुदे ॥ (१५।२)
raktavidradhivaccāpi kriyā śoṇitaje 'rbude ||
कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम् । (१६।१)
kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām |
शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् ॥ (१६।२)
śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet ||
हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् । (१७।१)
hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam |
हितः शोणितमोक्षश् च यच्चापि लघु भोजनम् ॥ (१७।२)
hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam ||
प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् ॥ (१८।२)
pratyākhyāya prakurvīta bhiṣak samyak pratikriyām ||
Data courtesy of The Digital Corpus of Sanskrit.