सुश्रुतसंहिताSuśrutasaṃhitā

Su, 6, 1

121 of 186 · 91 verses

Select a line for its word-by-word analysis.

1.1१.१

अथात औपद्रविकमध्यायं व्याख्यास्यामः ॥ (१।१)

athāta aupadravikamadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

अध्यायानां शते विंशे यदुक्तमसकृन्मया । (३।१)

adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā |

3.2३.२

वक्ष्यामि बहुधा सम्यगुत्तरे ऽर्थानिमानिति ॥ (३।२)

vakṣyāmi bahudhā samyaguttare 'rthānimāniti ||

4.1४.१

इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् । (४।१)

idānīṃ tat pravakṣyāmi tantramuttaramuttamam |

4.2४.२

निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ॥ (४।२)

nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ ||

5.1५.१

शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः । (५।१)

śālākyatantrābhihitā videhādhipakīrtitāḥ |

5.2५.२

ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ॥ (५।२)

ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ ||

6.1६.१

षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः । (६।१)

ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ |

6.2६.२

उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ॥ (६।२)

upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ ||

7.1७.१

त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च । (७।१)

triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca |

7.2७.२

युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ॥ (७।२)

yuktārthā yuktayaścaiva doṣabhedāstathaiva ca ||

8.1८.१

यत्रोक्ता विविधा अर्था रोगसाधनहेतवः । (८।१)

yatroktā vividhā arthā rogasādhanahetavaḥ |

8.2८.२

महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ॥ (८।२)

mahatastasya tantrasya durgādhasyāmbudheriva ||

9.1९.१

आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम् । (९।१)

ādāvevottamāṅgasthān rogānabhidadhāmyaham |

9.2९.२

संख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ॥ (९।२)

saṃkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca ||

10.1१०.१

विद्याद् द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम् । (१०।१)

vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam |

10.2१०.२

द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् ॥ (१०।२)

dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam ||

11.1११.१

सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् । (११।१)

suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam |

11.2११.२

पलं भुवो ऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ॥ (११।२)

palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt ||

12.1१२.१

आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे । (१२।१)

ākāśādaśrumārgāśca jāyante netrabudbude |

12.2१२.२

दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद् विशारदः ॥ (१२।२)

dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ ||

13.1१३.१

नेत्रायामत्रिभागं तु कृष्णमण्डलम् उच्यते । (१३।१)

netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalam ucyate |

13.2१३.२

कृष्णात् सप्तमम् इच्छन्ति दृष्टिं दृष्टिविशारदाः ॥ (१३।२)

kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ ||

14.1१४.१

मण्डलानि च सन्धींश्च पटलानि च लोचने । (१४।१)

maṇḍalāni ca sandhīṃśca paṭalāni ca locane |

14.2१४.२

यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ॥ (१४।२)

yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca ||

15.1१५.१

पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु । (१५।१)

pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu |

15.2१५.२

अनुपूर्वं तु ते मध्याश्चत्वारो ऽन्त्या यथोत्तरम् ॥ (१५।२)

anupūrvaṃ tu te madhyāścatvāro 'ntyā yathottaram ||

16.1१६.१

पक्ष्मवर्त्मगतः सन्धिर् वर्त्मशुक्लगतो ऽपरः । (१६।१)

pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ |

16.2१६.२

शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतो ऽपरः । (१६।२)

śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ |

16.3१६.३

ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः ॥ (१६।३)

tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ ||

17.1१७.१

द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि । (१७।१)

dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi |

17.2१७.२

जायते तिमिरं येषु व्याधिः परमदारुणः ॥ (१७।२)

jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ ||

18.1१८.१

तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् । (१८।१)

tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam |

18.2१८.२

मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ॥ (१८।२)

medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam ||

19.1१९.१

पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते । (१९।१)

pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate |

19.2१९.२

सिराणां कण्डराणां च मेदसः कालकस्य च ॥ (१९।२)

sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca ||

20.1२०.१

गुणाः कालात् परः श्लेष्मा बन्धने ऽक्ष्णोः सिरायुतः । (२०।१)

guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ |

20.2२०.२

सिरानुसारिभिर् दोषैर् विगुणैरूर्ध्वमागतैः ॥ (२०।२)

sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ ||

21.1२१.१

जायन्ते नेत्रभागेषु रोगाः परमदारुणाः । (२१।१)

jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ |

21.2२१.२

तत्राविलं ससंरम्भम् अश्रुकण्डूपदेहवत् ॥ (२१।२)

tatrāvilaṃ sasaṃrambham aśrukaṇḍūpadehavat ||

22.1२२.१

गुरूषातोदरागाद्यैर् जुष्टं चाव्यक्तलक्षणैः । (२२।१)

gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ |

22.2२२.२

सशूलं वर्त्मकोशेषु शूकपूर्णाभम् एव च ॥ (२२।२)

saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca ||

23.1२३.१

विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा । (२३।१)

vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā |

23.2२३.२

दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ॥ (२३।२)

dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat ||

24.1२४.१

तत्र संभवमासाद्य यथादोषं भिषग्जितम् । (२४।१)

tatra saṃbhavamāsādya yathādoṣaṃ bhiṣagjitam |

24.2२४.२

विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ॥ (२४।२)

vidadhyānnetrajā rogā balavantaḥ syuranyathā ||

25.1२५.१

संक्षेपतः क्रियायोगो निदानपरिवर्जनम् । (२५।१)

saṃkṣepataḥ kriyāyogo nidānaparivarjanam |

25.2२५.२

वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः ॥ (२५।२)

vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ ||

26.1२६.१

उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च । (२६।१)

uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca |

26.2२६.२

प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ॥ (२६।२)

prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca ||

27.1२७.१

शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च । (२७।१)

śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca |

27.2२७.२

स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ॥ (२७।२)

svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt ||

28.1२८.१

बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः । (२८।१)

bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ |

28.2२८.२

वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश ॥ (२८।२)

vātāddaśa tathā pittāt kaphāccaiva trayodaśa ||

29.1२९.१

रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः । (२९।१)

raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ |

29.2२९.२

तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः । (२९।२)

tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ |

29.3२९.३

हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या ॥ (२९।३)

hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā ||

30.1३०.१

यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः । (३०।१)

yacca vātahataṃ vartma na te sidhyanti vātajāḥ |

30.2३०.२

याप्यो ऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः ॥ (३०।२)

yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ ||

31.1३१.१

शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः । (३१।१)

śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ |

31.2३१.२

असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ॥ (३१।२)

asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ ||

32.1३२.१

परिम्लायी च नीलश्च याप्यः काचो ऽथ तन्मयः । (३२।१)

parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ |

32.2३२.२

अभिष्यन्दो ऽधिमन्थो ऽम्लाध्युषितं शुक्तिका च या ॥ (३२।२)

abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā ||

33.1३३.१

दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति । (३३।१)

dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati |

33.2३३.२

असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ॥ (३३।२)

asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ ||

34.1३४.१

अभिष्यन्दो ऽधिमन्थश्च बलासग्रथितं च यत् । (३४।१)

abhiṣyando 'dhimanthaśca balāsagrathitaṃ ca yat |

34.2३४.२

दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ॥ (३४।२)

dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ ||

35.1३५.१

क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः । (३५।१)

krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ |

35.2३५.२

श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ॥ (३५।२)

śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu ||

36.1३६.१

रक्तस्रावो ऽजकाजातं शोणितार्शोव्रणान्वितम् । (३६।१)

raktasrāvo 'jakājātaṃ śoṇitārśovraṇānvitam |

36.2३६.२

शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ॥ (३६।२)

śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ ||

37.1३७.१

मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च । (३७।१)

manthasyandau kliṣṭavartma harṣotpātau tathaiva ca |

37.2३७.२

सिराजाताञ्जनाख्या च सिराजालं च यत् स्मृतम् ॥ (३७।२)

sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam ||

38.1३८.१

पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः । (३८।१)

parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ |

38.2३८.२

एते साध्या विकारेषु रक्तजेषु भवन्ति हि ॥ (३८।२)

ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||

39.1३९.१

पूयास्रावो नाकुलान्ध्यम् अक्षिपाकात्ययो ऽलजी । (३९।१)

pūyāsrāvo nākulāndhyam akṣipākātyayo 'lajī |

39.2३९.२

असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ॥ (३९।२)

asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ ||

40.1४०.१

वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या । (४०।१)

vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā |

40.2४०.२

प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ॥ (४०।२)

prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā ||

41.1४१.१

पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी । (४१।१)

pūyālasaścārbudaṃ ca śyāvakardamavartmanī |

41.2४१.२

तथार्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ॥ (४१।२)

tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai ||

42.1४२.१

सशोफश् चाप्यशोफश्च पाको बहलवर्त्म च । (४२।१)

saśophaś cāpyaśophaśca pāko bahalavartma ca |

42.2४२.२

अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ॥ (४२।२)

aklinnavartma kumbhīkā bisavartma ca sidhyati ||

43.1४३.१

सनिमित्तो ऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ । (४३।१)

sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau |

43.2४३.२

षट्सप्ततिर्विकाराणामेषा संग्रहकीर्तिता ॥ (४३।२)

ṣaṭsaptatirvikārāṇāmeṣā saṃgrahakīrtitā ||

44.1४४.१

नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः । (४४।१)

nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ |

44.2४४.२

शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ॥ (४४।२)

śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ ||

45.1४५.१

सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु । (४५।१)

sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu |

45.2४५.२

बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ । (४५।२)

bāhyajau dvau samākhyātau rogau paramadāruṇau |

45.3४५.३

भूय एतान् प्रवक्ष्यामि संख्यारूपचिकित्सितैः ॥ (४५।३)

bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 6, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit