Su, 1, 44
Select a line for its word-by-word analysis.
अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥ (१।१)
athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
प्रधानं तिल्वकस् त्वक्षु फलेष्वपि हरीतकी ॥ (३।२)
pradhānaṃ tilvakas tvakṣu phaleṣvapi harītakī ||
वैरेचनद्रव्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम् । (५।१)
vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam |
चूर्णीकृतम् सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ॥ (५।२)
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
इक्षोर् विकारैर् मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च । (६।१)
ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca |
गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ॥ (६।२)
guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat ||
त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम् । (७।१)
trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam |
प्रस्थे च तन्मूलरसस्य दत्त्वा तन्मूलकल्कं कुडवप्रमाणम् ॥ (७।२)
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात् । (८।१)
karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt |
तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश् च पेयः ॥ (८।२)
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम् । (९।१)
samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ॥ (९।२)
viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ ||
विरेचनद्रव्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य । (१०।१)
virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya |
तन्मूलसिद्धेन च सर्पिषाक्तं सेव्यं तदाज्ये गुटिकीकृतं च ॥ (१०।२)
tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य । (११।१)
guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya |
शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः ॥ (११।२)
śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ ||
वैरेकीयद्रव्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः । (१२।१)
vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ |
आमृद्नीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च ॥ (१२।२)
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात् । (१३।१)
pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् ॥ (१३।२)
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt ||
रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः । (१४।१)
rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
वैरेचने ऽन्यैर् अपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश् च ॥ (१४।२)
vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca ||
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा । (१५।१)
bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā |
पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ॥ (१५।२)
pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam ||
सिताजगन्धात्वक्क्षीरीविदारीत्रिवृताः समाः । (१६।१)
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये ॥ (१६।२)
lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye ||
शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् । (१७।१)
śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam |
पचेल्लेहं सिताक्षौद्रपलार्धकुडवान्वितम् । (१८।१)
pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam |
त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् ॥ (१८।२)
trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam ||
त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाप्नुयात् । (१९।१)
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt |
सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् ॥ (१९।२)
sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam ||
तैलभृष्टान् रसानम्लफलैर् आवाप्य साधयेत् ॥ (२०।२)
tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet ||
घनीभूतं त्रिसौगन्ध्यं त्रिवृत्क्षौद्रसमन्वितम् । (२१।१)
ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam |
लेह्यमेतत्कफप्रायैः सुकुमारैर् विरेचनम् ॥ (२१।२)
lehyametatkaphaprāyaiḥ sukumārair virecanam ||
नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला । (२२।१)
nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā |
चूर्णं संतर्पणं क्षौद्रफलाम्लं संनिपातनुत् ॥ (२२।२)
cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ saṃnipātanut ||
त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः । (२३।१)
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
मोदकाः संनिपातोर्ध्वरक्तपित्तज्वरापहाः ॥ (२३।२)
modakāḥ saṃnipātordhvaraktapittajvarāpahāḥ ||
त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा । (२४।१)
trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā |
क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा ॥ (२४।२)
kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā ||
लिह्याद्गुडेन गुटिकाः कृत्वा वाप्यथ भक्षयेत् । (२५।१)
lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet |
हन्त्यन्यान् अपि चाप्येतन्निरपायं विरेचनम् । (२६।१)
hantyanyān api cāpyetannirapāyaṃ virecanam |
चूर्णं श्यामात्रिवृन्नीली कट्वी मुस्ता दुरालभा ॥ (२६।२)
cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā ||
चव्येन्द्रबीजं त्रिफला सर्पिर्मांसरसाम्बुभिः । (२७।१)
cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ |
पीतं विरेचनं तद्धि रूक्षाणाम् अपि शस्यते ॥ (२७।२)
pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate ||
वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः । (२८।१)
vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ |
द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् ॥ (२८।२)
dvau phāṇitasya taccāpi punaragnāvadhiśrayet ||
तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत् । (२९।१)
tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet |
मासाद् ऊर्ध्वं जातरसं मधुगन्धं वरासवम् । (३०।१)
māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam |
वैरेचनिकमूलाणां क्वाथे माषान् सुभावितान् । (३१।१)
vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān |
सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ॥ (३१।२)
sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān ||
अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् । (३२।१)
avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān |
तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् । (३३।१)
tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān |
मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ॥ (३३।२)
maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ ||
निदध्यात्कलसे तां तु सुरां जातरसां पिबेत् । (३४।१)
nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet |
सौवीरकमूलानि त्रिवृदादीनां प्रथमस्य गणस्य च । (३५।१)
sauvīrakamūlāni trivṛdādīnāṃ prathamasya gaṇasya ca |
महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोर् अपि ॥ (३५।२)
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api ||
सुधां हैमवतीं चैव त्रिफलातिविषे वचाम् । (३६।१)
sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām |
संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ॥ (३६।२)
saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ ||
कुर्यान्निःक्वाथम् एकस्मिन्नेकस्मिंश्चूर्णम् एव तु । (३७।१)
kuryānniḥkvātham ekasminnekasmiṃścūrṇam eva tu |
क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ॥ (३७।२)
kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān ||
शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः । (३८।१)
śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgāstrayo matāḥ |
चतुर्थं भागमावाप्य चूर्णानामनुकीर्तितम् ॥ (३८।२)
caturthaṃ bhāgamāvāpya cūrṇānāmanukīrtitam ||
प्रक्षिप्य कलसे सम्यक् समस्तं तदनन्तरम् । (३९।१)
prakṣipya kalase samyak samastaṃ tadanantaram |
पूर्ववत्संनिदध्यात्तु ज्ञेयं सौवीरकं हि तत् । (४०।१)
pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat |
पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ॥ (४०।२)
pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ ||
भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत् । (४१।१)
bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāmadhiśrayet |
अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ॥ (४१।२)
ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet ||
सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत् । (४२।१)
susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet |
विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ॥ (४२।२)
vimṛdya satuṣān samyak tatastān pūrvavanmitān ||
पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत् । (४३।१)
pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat |
षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते । (४५।१)
ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite |
वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ॥ (४५।२)
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ ||
दन्तीद्रवन्त्योर् मूलानि विशेषान्मृत्कुशान्तरे । (४६।१)
dantīdravantyor mūlāni viśeṣānmṛtkuśāntare |
पिप्पलीक्षौद्रयुक्तानि स्विन्नान्युद्धृत्य शोषयेत् ॥ (४६।२)
pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet ||
ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः । (४७।१)
tatastrivṛdvidhānena yojayecchleṣmapittayoḥ |
तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ॥ (४७।२)
tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet ||
सर्पिश् च पक्वं वीसर्पकक्षादाहालजीर्जयेत् । (४८।१)
sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet |
मेहगुल्मानिलश्लेष्मविबन्धांस्तैलम् एव च ॥ (४८।२)
mehagulmānilaśleṣmavibandhāṃstailam eva ca ||
विश्वभेषजमृद्वीकाचित्रकैर् मूत्रभावितम् । (५०।१)
viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam |
सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ॥ (५०।२)
saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam ||
जीर्णे संतर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् । (५१।१)
jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham |
गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम् । (५२।१)
guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam |
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर् दश ॥ (५२।२)
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa ||
ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ॥ (५३।२)
tataḥ khādeduṣṇatoyasevī niryantraṇāstvime ||
दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः । (५४।१)
doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥ (५४।२)
vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ||
श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ॥ (५५।२)
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā ||
षड्भिश्च शर्कराभागैर् ईषत्सैन्धवमाक्षिकैः ॥ (५६।२)
ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ ||
पिण्डितम् भक्षयित्वा तु ततः शीताम्बु पाययेत् । (५७।१)
piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet |
बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ॥ (५७।२)
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
निर्यन्त्रणमिदं सर्वं विषघ्नं तु विरेचनम् । (५८।१)
niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam |
त्रिवृदष्टकसंज्ञो ऽयं प्रशस्तः पित्तरोगिणाम् ॥ (५८।२)
trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām ||
भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर् नरैः । (५९।१)
bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ |
भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ॥ (५९।२)
bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate ||
तिल्वकस्य त्वचं बाह्याम् अन्तर्वल्कविवर्जिताम् । (६०।१)
tilvakasya tvacaṃ bāhyām antarvalkavivarjitām |
चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ॥ (६०।२)
cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet ||
तृतीयं भावितं तेन भागं शुष्कं तु भावितम् । (६१।१)
tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam |
विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते । (६२।१)
vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate |
हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ॥ (६२।२)
harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam ||
योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम् । (६३।१)
yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam |
रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ॥ (६३।२)
rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam ||
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् । (६४।१)
harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt |
सैन्धवं शृङ्गवेरं च गोमूत्रेण विरेचनम् ॥ (६५।२)
saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam ||
लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ॥ (६६।२)
lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ ||
वातानुलोमनी वृष्या चेन्द्रियाणां प्रसादनी । (६९।१)
vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī |
संतर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ॥ (६९।२)
saṃtarpaṇakṛtān rogān prāyo hanti harītakī ||
त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्छिता ॥ (७१।२)
triphalā sarvarogaghnī tribhāgaghṛtamūrchitā ||
फलं काले समुद्धृत्य सिकतायां निधापयेत् ॥ (७३।२)
phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet ||
तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ॥ (७४।२)
tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca ||
लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ॥ (७५।२)
lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam ||
युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत् । (७७।१)
yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet |
फलानां विधिरुद्दिष्टः क्षीराणां शृणु सुश्रुत । (७८।१)
phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta |
विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ॥ (७८।२)
virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ||
अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात् । (७९।१)
ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt |
विजानता प्रयुक्तं तु महान्तम् अपि संचयम् ॥ (७९।२)
vijānatā prayuktaṃ tu mahāntam api saṃcayam ||
भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान् । (८०।१)
bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān |
महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ॥ (८०।२)
mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak ||
कषायैः समभागं तु तदङ्गारैर् विशोषितम् । (८१।१)
kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam |
अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोलसंमितम् ॥ (८१।२)
amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam ||
लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः । (८३।१)
leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ |
भावितास्तु स्नुहीक्षीरे पिप्पल्यो लवणान्विताः ॥ (८३।२)
bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ ||
चूर्णं काम्पिल्लकं वापि तत्पीतं गुटिकीकृतम् । (८४।१)
cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikīkṛtam |
सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ॥ (८४।२)
saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām ||
मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम् । (८५।१)
mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param |
कीर्णं तेनैव चूर्णेन माल्यं वसनम् एव च ॥ (८५।२)
kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca ||
आघ्रायावृत्य वा सम्यङ्मृदुकोष्ठो विरिच्यते । (८६।१)
āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate |
क्षीरत्वक्फलमूलानां विधानैः परिकीर्तितैः । (८६।२)
kṣīratvakphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ |
त्रिवृच्छाणा मितास्तिस्रस्तिस्रश्च त्रिफलात्वचः । (८७।१)
trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ |
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ॥ (८७।२)
viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ ||
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा । (८८।१)
lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā |
भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ॥ (८८।२)
bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam ||
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ॥ (८९।२)
kaphavātakṛtāṃścānyān vyādhīnetadvyapohati ||
घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु । (९०।१)
ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ॥ (९०।२)
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt ||
क्षीरं रसः कल्कमथो कषायः शृतश् च शीतश् च तथैव चूर्णम् । (९१।१)
kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam |
कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ॥ (९१।२)
kalpāḥ ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.