सुश्रुतसंहिताSuśrutasaṃhitā

Su, 1, 5

5 of 186 · 70 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो ऽग्रोपहरणीयमध्यायं व्याख्यास्यामः ॥ (१।१)

athāto 'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

उन्तेर्तेइलुन्ग् पूर्व-, प्रधान-, पश्चात्कर्मन्त्रिविधं कर्म पूर्वकर्म प्रधानकर्म पश्चात्कर्मेति तद्व्याधिं प्रति प्रत्युपदेक्ष्यामः ॥ (३।१)

Unterteilung pūrva-, pradhāna-, paścātkarmantrividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ ||

4.1४.१

वोर्रन्ग् देर् छिरुर्गिएअस्मिन् शास्त्रे शस्त्रकर्मप्राधान्याच् छस्त्रकर्म इव तावत् पूर्वम् उपदेक्ष्यामस् तत्सम्भारांश् च ॥ (४।१)

vorrang der Chirurgieasmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca ||

5.1५.१

८ क्लस्सेन् देर् छिरुर्गिएतच् च शस्त्रकर्माष्टविधं तद्यथा छेद्यं भेद्यं लेख्यं वेध्यम् एष्यम् आहार्यं विस्राव्यं सीव्यम् इति ॥ (५।१)

8 Klassen der Chirurgietac ca śastrakarmāṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti ||

6.1६.१

वोर्बेरेइतुन्गेन् औड़् ओपतो ऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वम् एवोपकल्पयितव्यानि यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रपत्त्रपट्टमधुघृतवसापयस् तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि परिकर्मिणश् च स्निग्धाः स्थिरा बलवन्तः ॥ (६।१)

vorbereitungen auf OPato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||

7.1७.१

दुर्छ्ड़्ह्रुन्ग् देर् ओप्ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैर् अग्निं विप्रान् भिषजश् चार्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखम् आतुरम् उपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसंध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्याद् आ पूयदर्शनात् सकृद् एवापहरेच् छस्त्रम् आशु च महत्स्व् अपि च पाकेषु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ॥ (७।१)

Durchfhrung der OPtataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam ||

8.1८.१

एइगेन्स्छड़्तेन् एइनेस् गुतेन् व्रणस्तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ॥ (८।१)

Eigenschaften eines guten vraṇastatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ ||

9.1९.१

भवतश् चात्र । (९।१)

bhavataś cātra |

9.2९.२

आयतश् च विशालश् च सुविभक्तो निराश्रयः । (९।२)

āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |

9.3९.३

प्राप्तकालकृतश् चापि व्रणः कर्मणि शस्यते ॥ (९।३)

prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate ||

10.1१०.१

शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यम् अस्वेदवेपथु । (१०।१)

śauryamāśukriyā śastrataikṣṇyam asvedavepathu |

10.2१०.२

असंमोहश् च वैद्यस्य शस्त्रकर्मणि शस्यते ॥ (१०।२)

asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate ||

11.1११.१

एकेन वा व्रणेनाशुध्यमाने नान्तरा बुद्ध्यावेक्ष्यापरान् व्रणान् कुर्यात् ॥ (११।१)

ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt ||

12.1१२.१

भवति चात्र । (१२।१)

bhavati cātra |

12.2१२.२

यतो यतो गतिं विद्याद् उत्सङ्गो यत्र यत्र च । (१२।२)

yato yato gatiṃ vidyād utsaṅgo yatra yatra ca |

12.3१२.३

तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति ॥ (१२।३)

tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati ||

13.1१३.१

ड़ोर्म् देर् स्छ्नित्ते अन् वेर्स्छ्। क्￶र्पेर्तेइलेन्तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद उक्तः ॥ (१३।१)

Form der schnitte an versch. K￶rperteilentatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ ||

14.1१४.१

चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् । (१४।१)

candramaṇḍalavacchedān pāṇipādeṣu kārayet |

14.2१४.२

अर्धचन्द्राकृतींश् चापि गुदे मेढ्रे च बुद्धिमान् ॥ (१४।२)

ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān ||

15.1१५.१

अन्यथा तु सिरास्नायुच्छेदनम् अतिमात्रं वेदना चिराद् व्रणसंरोहो मांसकन्दीप्रादुर्भावश् चेति ॥ (१५।१)

anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti ||

16.1१६.१

मूढगर्भोदरार्शोऽश्मरीभगंदरमुखरोगेष्व् अभुक्तवतः कर्म कुर्वीत ॥ (१६।१)

mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta ||

17.1१७.१

नछ्बेरेइतुन्ग् देर् ओप्: अन्लेगेन् देस् वेर्बन्द्स्ततः शस्त्रम् अवचार्य शीताभिर् अद्भिर् आतुरम् आश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणम् अभिमृद्य प्रक्षाल्य कषायेण प्रोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढाम् औषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात् ततः कल्केनाच्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर् धूपैर् धूपयेत् रक्षोघ्नैश् च मन्त्रै रक्षां कुर्वीत ॥ (१७।१)

Nachbereitung der OP: Anlegen des verbandstataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta ||

18.1१८.१

ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर् लवणनिम्बपत्त्रविमिश्रैर् आज्ययुक्तैर् धूपयेत् आज्यशेषेण चास्य प्राणान् समालभेत ॥ (१८।१)

tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta ||

19.1१९.१

उदकुम्भाच् चापो गृहीत्वाप्रोक्षयन् रक्षाकर्म कुर्यात् तद् वक्ष्यामः ॥ (१९।१)

udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ ||

20.1२०.१

पतिएन्तेन् गेगेन् द्¦मोनेन् स्छ्त्ज़ेन्कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च । (२०।१)

Patienten gegen D¦monen schtzenkṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca |

20.2२०.२

रक्षाकर्म करिष्यामि ब्रह्मा तद् अनुमन्यताम् ॥ (२०।२)

rakṣākarma kariṣyāmi brahmā tad anumanyatām ||

21.1२१.१

नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः । (२१।१)

nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ |

21.2२१.२

अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥ (२१।२)

abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ||

22.1२२.१

पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः । (२२।१)

pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ |

22.2२२.२

दिक्षु वास्तुनिवासाश् च पान्तु त्वां ते नमस्कृताः ॥ (२२।२)

dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ ||

23.1२३.१

पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा । (२३।१)

pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā |

23.2२३.२

पर्वताश्चैव नद्यश् च सर्वाः सर्वे च सागराः ॥ (२३।२)

parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ ||

24.1२४.१

अग्नी रक्षतु ते जिह्वां प्राणान् वायुस् तथैव च । (२४।१)

agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca |

24.2२४.२

सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु ॥ (२४।२)

somo vyānamapānaṃ te parjanyaḥ parirakṣatu ||

25.1२५.१

उदानं विद्युतः पान्तु समानं स्तनयित्नवः । (२५।१)

udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ |

25.2२५.२

बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ (२५।२)

balamindro balapatirmanurmanye matiṃ tathā ||

26.1२६.१

कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रो ऽभिरक्षतु । (२६।१)

kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu |

26.2२६.२

प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ (२६।२)

prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam ||

27.1२७.१

चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः । (२७।१)

cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ |

27.2२७.२

नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ (२७।२)

nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ||

28.1२८.१

रेतस् त्व् आप्याययन्त्व् आपो रोमाण्य् ओषधयस् तथा । (२८।१)

retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā |

28.2२८.२

आकाशं खानि ते पातु देहं तव वसुंधरा ॥ (२८।२)

ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā ||

29.1२९.१

वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् । (२९।१)

vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam |

29.2२९.२

पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥ (२९।२)

pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau ||

30.1३०.१

एता देहे विशेषेण तव नित्या हि देवताः । (३०।१)

etā dehe viśeṣeṇa tava nityā hi devatāḥ |

30.2३०.२

एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ (३०।२)

etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi ||

31.1३१.१

स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश् च कुर्वताम् । (३१।१)

svasti te bhagavān brahmā svasti devāś ca kurvatām |

31.2३१.२

स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ । (३१।२)

svasti te candrasūryau ca svasti nāradaparvatau |

31.3३१.३

स्वस्त्यग्निश् चैव वायुश् च स्वस्ति देवाः सहेन्द्रगाः ॥ (३१।३)

svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ ||

32.1३२.१

पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव । (३२।१)

pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava |

32.2३२.२

ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥ (३२।२)

ītayaste praśāmyantu sadā bhava gatavyathaḥ ||

33.1३३.१

इति स्वाहा । (३३।१)

iti svāhā |

33.2३३.२

एतैर् वेदात्मकैर् मन्त्रैः कृत्याव्याधिविनाशनैः । (३३।२)

etair vedātmakair mantraiḥ kṛtyāvyādhivināśanaiḥ |

33.3३३.३

मयैवं कृतरक्षस्त्वं दीर्घम् आयुर् अवाप्नुहि ॥ (३३।३)

mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi ||

34.1३४.१

ततः कृतरक्षमातुरम् आगारं प्रवेश्य आचारिकम् आदिशेत् ॥ (३४।१)

tataḥ kṛtarakṣamāturam āgāraṃ praveśya ācārikam ādiśet ||

35.1३५.१

वेर्बन्द्स्wएछ्सेल् नछ् ३ तगेन्ततस् तृतीये ऽहनि विमुच्यैवम् एव बध्नीयाद् वस्त्रपट्टेन न चैनं त्वरमाणो ऽपरेद्युर् मोक्षयेत् ॥ (३५।१)

verbandswechsel nach 3 Tagentatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet ||

36.1३६.१

ड़ोल्गेन् वोन् वोर्ज़ेइतिगेम् वेर्बन्द्स्wएछ्सेल्द्वितीयदिवसपरिमोक्षणाद् विग्रथितो व्रणश् चिराद् उपसंरोहति तीव्ररुजश् च भवति ॥ (३६।१)

Folgen von vorzeitigem verbandswechseldvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati ||

37.1३७.१

अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान् विदध्यात् ॥ (३७।१)

ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt ||

38.1३८.१

न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्य् अल्पेनाप्य् अपचारेणाभ्यन्तरम् उत्सङ्गं कृत्वा भूयो ऽपि विकरोति ॥ (३८।१)

na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti ||

39.1३९.१

भवन्ति चात्र । (३९।१)

bhavanti cātra |

39.2३९.२

पस्सेन्दे उम्स्त्¦न्दे ड़्र् ओप्तस्माद् अन्तर्बहिश् चैव सुशुद्धं रोपयेद् व्रणम् । (३९।२)

passende Umst¦nde fr OPtasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam |

39.3३९.३

रूढे ऽप्य् अजीर्णव्यायामव्यवायादीन् विवर्जयेत् । (३९।३)

rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet |

39.4३९.४

हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसम्भवात् ॥ (३९।४)

harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt ||

40.1४०.१

हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् । (४०।१)

hemante śiśire caiva vasante cāpi mokṣayet |

40.2४०.२

त्र्यहाद् द्व्यहाच् छरद्ग्रीष्मवर्षास्व् अपि च बुद्धिमान् ॥ (४०।२)

tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān ||

41.1४१.१

बेस्छ्लेउनिगुन्ग् देर् बेहन्द्लुन्ग् बेइ अकुतेन् क्रन्खेइतेनतिपातिषु रोगेषु नेच्छेद् विधिम् इमं भिषक् । (४१।१)

Beschleunigung der Behandlung bei akuten Krankheitenatipātiṣu rogeṣu necched vidhim imaṃ bhiṣak |

41.2४१.२

प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ॥ (४१।२)

pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām ||

42.1४२.१

या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः । (४२।१)

yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ |

42.2४२.२

घृतेन सा शान्तिम् उपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥ (४२।२)

ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 1, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit