Su, 4, 16
Select a line for its word-by-word analysis.
अथातो विद्रधीनां चिकित्सितं व्याख्यास्यामः ॥ (१।०)
athāto vidradhīnāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
उक्ता विद्रधयः षड्ये तेष्वसाध्यस्तु सर्वजः । (३।१)
uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ |
शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया ॥ (३।२)
śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā ||
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्रधौ ॥ (४।२)
sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau ||
स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् ॥ (६।२)
svedayet satataṃ cāpi nirhareccāpi śoṇitam ||
तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत् ॥ (७।२)
taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet ||
तैलैर् भद्रादिमधुकसंयुक्तैः प्रतिपूरयेत् ॥ (८।२)
tailair bhadrādimadhukasaṃyuktaiḥ pratipūrayet ||
पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत् ॥ (९।२)
pṛthakparṇyādisiddhena traivṛtena ca ropayet ||
पित्तजविद्रधिपैत्तिकं शर्करालाजामधुकैः सारिवायुतैः । (१०।१)
pittajavidradhipaittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ |
प्रदिह्यात् क्षीरपिष्टैर् वा पयस्योशीरचन्दनैः ॥ (१०।२)
pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ ||
पाक्यैः शीतकषायैर् वा क्षीरैर् इक्षुरसैस्तथा । (११।१)
pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā |
त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम् । (१२।१)
trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam |
जलौकोभिर् हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् ॥ (१२।२)
jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān ||
तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः ॥ (१३।२)
tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ ||
सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् । (१५।१)
saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam |
क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः ॥ (१५।२)
kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ ||
न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम् । (१६।१)
nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam |
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी ॥ (१७।२)
dve haridre madhūcchiṣṭaṃ madhukaṃ tiktarohiṇī ||
प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च । (१८।१)
priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca |
मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत् ॥ (१८।२)
mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt ||
एतेषां कार्षिकैर् भागैर् घृतप्रस्थं विपाचयेत् । (१९।१)
eteṣāṃ kārṣikair bhāgair ghṛtaprasthaṃ vipācayet |
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम् । (२०।१)
sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham |
दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः ॥ (२०।२)
duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ ||
नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च । (२१।१)
nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca |
करञ्जाद्येन हविषा प्रशाम्यन्ति न संशयः । (२२।१)
karañjādyena haviṣā praśāmyanti na saṃśayaḥ |
कफजविद्रधिइष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः ॥ (२२।२)
kaphajavidradhiiṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ ||
मूत्रैर् उष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम् । (२३।१)
mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim |
हरेद्दोषानभीक्ष्णं चाप्यलाब्वासृक् तथैव च । (२४।१)
hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca |
पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा ॥ (२५।२)
pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃ yathā ||
ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः । (२६।१)
tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ |
कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम् ॥ (२६।२)
kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam ||
पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः । (२७।१)
pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ |
विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः ॥ (२७।२)
vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ ||
अनयोर् वर्गयोः सिद्धं सर्पिर्वैरेचनेन च । (२९।१)
anayor vargayoḥ siddhaṃ sarpirvairecanena ca |
अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम् ॥ (२९।२)
acirādvidradhiṃ hanti prātaḥ prātarniṣevitam ||
एभिर् एव गणैश्चापि संसिद्धं स्नेहसंयुतम् । (३०।१)
ebhir eva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam |
कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ॥ (३०।२)
kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam ||
दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम् ॥ (३१।२)
dattāvāpo yathādoṣamapakvaṃ hanti vidradhim ||
तोयधान्याम्लमूत्रैस्तु पेयो वापि सुरादिभिः । (३२।१)
toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ |
प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च । (३३।१)
pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca |
स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम् ॥ (३३।२)
snehopanāhau kuryācca sadā cāpyanulomanam ||
यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक् । (३४।१)
yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak |
रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु ॥ (३४।२)
raktapittānilottheṣu kecidbāhau vadanti tu ||
पक्वाभ्यन्तरविद्रधिपक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत् । (३५।१)
pakvābhyantaravidradhipakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret |
स्रुतेषूर्ध्वमधो वापि मैरेयाम्लसुरासवैः ॥ (३५।२)
sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ ||
पेयो वरुणकादिस्तु मधुशिग्रुद्रुमो ऽपि वा । (३६।१)
peyo varuṇakādistu madhuśigrudrumo 'pi vā |
शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम् ॥ (३६।२)
śigrumūlajale siddhaṃ sasiddhārthakamodanam ||
प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम् ॥ (३७।२)
prātaḥ prātaśca seveta mātrayā tailvakaṃ ghṛtam ||
नोपगच्छेद् यथा पाकं प्रयतेत तथा भिषक् ॥ (३८।२)
nopagacched yathā pākaṃ prayateta tathā bhiṣak ||
पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता । (३९।१)
paryāgate vidradhau tu siddhirnaikāntikī smṛtā |
मज्जजातविद्रधिप्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्रधौ ॥ (३९।२)
majjajātavidradhipratyākhyāya tu kurvīta majjajāte tu vidradhau ||
स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचनम् । (४०।१)
snehasvedopapannānāṃ kuryādraktāvasecanam |
विद्रध्युक्तां क्रियां कुर्यात् पक्वे वास्थि तु भेदयेत् ॥ (४०।२)
vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet ||
निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम् । (४१।१)
niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam |
धावेत् तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ॥ (४१।२)
dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam ||
कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ॥ (४२।२)
kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān ||
प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम् । (४३।१)
priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam |
एतैस्तैलं विपक्तव्यं विद्रधिव्रणरोपणम् ॥ (४३।२)
etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam ||
Data courtesy of The Digital Corpus of Sanskrit.