सुश्रुतसंहिताSuśrutasaṃhitā

Su, 5, 7

119 of 186 · 128 verses

Select a line for its word-by-word analysis.

1.0१.०

अथातो मूषिककल्पं व्याख्यास्यामः ॥ (१।०)

athāto mūṣikakalpaṃ vyākhyāsyāmaḥ ||

2.0२.०

यथोवाच भगवान् धन्वन्तरिः ॥ (२।०)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

पूर्वं शुक्रविषा उक्ता मूषिका ये समासतः । (३।१)

pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ |

3.2३.२

नामलक्षणभैषज्यैर् अष्टादश निबोध मे ॥ (३।२)

nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me ||

4.1४.१

लालनः पुत्रकः कृष्णो हंसिरश्चिक्विरस्तथा । (४।१)

lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikvirastathā |

4.2४.२

छुच्छुन्दरो ऽलसश्चैव कषायदशनो ऽपि च ॥ (४।२)

chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca ||

5.1५.१

कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा । (५।१)

kuliṅgaścājitaścaiva capalaḥ kapilastathā |

5.2५.२

कोकिलो ऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः ॥ (५।२)

kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ ||

6.1६.१

श्वेतेन महता सार्धं कपिलेनाखुना तथा । (६।१)

śvetena mahatā sārdhaṃ kapilenākhunā tathā |

6.2६.२

मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ॥ (६।२)

mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ ||

7.1७.१

शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा । (७।१)

śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā |

7.2७.२

नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ॥ (७।२)

nakhadantādibhistasmin gātre raktaṃ praduṣyati ||

8.1८.१

जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च । (८।१)

jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca |

8.2८.२

पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च ॥ (८।२)

pīḍakopacayaścogro visarpāḥ kiṭibhāni ca ||

9.1९.१

पर्वभेदो रुजस्तीव्रा मूर्च्छाङ्गसदनं ज्वरः । (९।१)

parvabhedo rujastīvrā mūrcchāṅgasadanaṃ jvaraḥ |

9.2९.२

दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ॥ (९।२)

daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam ||

10.1१०.१

दष्टरूपं समासोक्तमेतद् व्यासमतः शृणु । (१०।१)

daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu |

10.2१०.२

लालास्रावो लालनेन हिक्का छर्दिश्च जायते ॥ (१०।२)

lālāsrāvo lālanena hikkā chardiśca jāyate ||

11.1११.१

तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम् । (११।१)

taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam |

11.2११.२

पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते ॥ (११।२)

putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate ||

12.1१२.१

चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः । (१२।१)

cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ |

12.2१२.२

शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम् ॥ (१२।२)

śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam ||

13.1१३.१

कृष्णेन दंशे शोफो ऽसृक्छर्दिः प्रायश्च दुर्दिने । (१३।१)

kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine |

13.2१३.२

शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना ॥ (१३।२)

śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā ||

14.1१४.१

हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम् । (१४।१)

haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam |

14.2१४.२

पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः ॥ (१४।२)

pibedāragvadhādiṃ tu suvāntastatra mānavaḥ ||

15.1१५.१

चिक्विरेण शिरोदुःखं शोफो हिक्का वमिस्तथा । (१५।१)

cikvireṇa śiroduḥkhaṃ śopho hikkā vamistathā |

15.2१५.२

जालिनीमदनाङ्कोठकषायैर् वामयेत्तु तम् ॥ (१५।२)

jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam ||

16.1१६.१

यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत् । (१६।१)

yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet |

16.2१६.२

छुच्छुन्दरेण तृट् छर्दिर्ज्वरो दौर्बल्यम् एव च ॥ (१६।२)

chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca ||

17.1१७.१

ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका । (१७।१)

grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā |

17.2१७.२

चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु ॥ (१७।२)

cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu ||

18.1१८.१

अङ्कोठबीजं च तथा पिबेदत्र विषापहम् । (१८।१)

aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham |

18.2१८.२

ग्रीवास्तम्भो ऽलसेनोर्ध्ववायुर् दंशे रुजा ज्वरः ॥ (१८।२)

grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ ||

19.1१९.१

महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् । (१९।१)

mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam |

19.2१९.२

निद्रा कषायदन्तेन हृच्छोषः कार्श्यम् एव च ॥ (१९।२)

nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca ||

20.1२०.१

क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः । (२०।१)

kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ |

20.2२०.२

कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले ॥ (२०।२)

kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale ||

21.1२१.१

सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके । (२१।१)

sahe sasindhuvāre ca lihyāttatra samākṣike |

21.2२१.२

अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः ॥ (२१।२)

ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ ||

22.1२२.१

स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत् । (२२।१)

snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet |

22.2२२.२

चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया ॥ (२२।२)

capalena bhavecchardirmūrcchā ca saha tṛṣṇayā ||

23.1२३.१

क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम् । (२३।१)

kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām |

23.2२३.२

कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट् ॥ (२३।२)

kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ ||

24.1२४.१

लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् । (२४।१)

lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām |

24.2२४.२

ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः ॥ (२४।२)

granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ ||

25.1२५.१

वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत् । (२५।१)

varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet |

25.2२५.२

अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ॥ (२५।२)

aruṇenānilaḥ kruddho vātajān kurute gadān ||

26.1२६.१

महाकृष्णेन पित्तं च श्वेतेन कफ एव च । (२६।१)

mahākṛṣṇena pittaṃ ca śvetena kapha eva ca |

26.2२६.२

महता कपिलेनासृक् कपोतेन चतुष्टयम् ॥ (२६।२)

mahatā kapilenāsṛk kapotena catuṣṭayam ||

27.1२७.१

भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः । (२७।१)

bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ |

27.2२७.२

पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः ॥ (२७।२)

piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ ||

28.1२८.१

दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः । (२८।१)

dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ |

28.2२८.२

करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः ॥ (२८।२)

karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ ||

29.1२९.१

निष्क्वाथ्य चैषां क्वाथस्य चतुर्थो ऽंशः पुनर्भवेत् । (२९।१)

niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet |

29.2२९.२

त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः ॥ (२९।२)

trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ ||

30.1३०.१

कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत् । (३०।१)

kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet |

30.2३०.२

तत् सर्वमेकतः कृत्वा शनैर् मृद्वग्निना पचेत् ॥ (३०।२)

tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet ||

31.1३१.१

पञ्चानामरुणादीनां विषमेतद्व्यपोहति । (३१।१)

pañcānāmaruṇādīnāṃ viṣametadvyapohati |

31.2३१.२

काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ॥ (३१।२)

kākādanīkākamācyoḥ svaraseṣvathavā kṛtam ||

32.1३२.१

सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च । (३२।१)

sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca |

32.2३२.२

सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम् ॥ (३२।२)

sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam ||

33.1३३.१

दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् । (३३।१)

dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet |

33.2३३.२

शिरीषरजनीकुष्ठकुङ्कुमैर् अमृतायुतैः ॥ (३३।२)

śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ ||

34.1३४.१

छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोर् अपि । (३४।१)

chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api |

34.2३४.२

शुकाख्याकोषवत्योश्च मूलं मदन एव च ॥ (३४।२)

śukākhyākoṣavatyośca mūlaṃ madana eva ca ||

35.1३५.१

देवदालीफलं चैव दध्ना पीत्वा विषं वमेत् । (३५।१)

devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet |

35.2३५.२

सर्वमूषिकदष्टानामेष योगः सुखावहः ॥ (३५।२)

sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ ||

36.1३६.१

फलं वचा देवदाली कुष्ठं गोमूत्रपेषितम् । (३६।१)

phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam |

36.2३६.२

पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ॥ (३६।२)

pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ ||

37.1३७.१

विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते । (३७।१)

virecane trivṛddantītriphalākalka iṣyate |

37.2३७.२

शिरोविरेचने सारः शिरीषस्य फलानि च ॥ (३७।२)

śirovirecane sāraḥ śirīṣasya phalāni ca ||

38.1३८.१

हितस्त्रिकटुकाढ्यश्च गोमयस्वरसो ऽञ्जने । (३८।१)

hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane |

38.2३८.२

कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ ॥ (३८।२)

kapitthagomayarasau lihyānmākṣikasaṃyutau ||

39.1३९.१

रसाञ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम् । (३९।१)

rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam |

39.2३९.२

प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ॥ (३९।२)

prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam ||

40.1४०.१

तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः । (४०।१)

taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ |

40.2४०.२

आस्फोतमूलसिद्धं वा पञ्चकापित्थम् एव वा ॥ (४०।२)

āsphotamūlasiddhaṃ vā pañcakāpittham eva vā ||

41.1४१.१

मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम् । (४१।१)

mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam |

41.2४१.२

तत्राप्येष विधिः कार्यो यश्च दूषीविषापहः ॥ (४१।२)

tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ ||

42.1४२.१

स्थिराणां रुजतां वापि व्रणानां कर्णिकां भिषक् । (४२।१)

sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak |

42.2४२.२

पाटयित्वा यथादोषं व्रणवच् चापि शोधयेत् ॥ (४२।२)

pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet ||

43.1४३.१

बिस्स् दुर्छ् तोल्ल्wतिगे तिएरेश्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदानिलः । (४३।१)

Biss durch tollwtige Tiereśvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ |

43.2४३.२

श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः ॥ (४३।२)

śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ ||

44.1४४.१

तदा प्रस्रस्तलाङ्गूलहनुस्कन्धो ऽतिलालवान् । (४४।१)

tadā prasrastalāṅgūlahanuskandho 'tilālavān |

44.2४४.२

अत्यर्थबधिरो ऽन्धश्च सो ऽन्योन्यमभिधावति ॥ (४४।२)

atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati ||

45.1४५.१

तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु । (४५।१)

tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu |

45.2४५.२

सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् ॥ (४५।२)

suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk ||

46.1४६.१

दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः । (४६।१)

digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ |

46.2४६.२

येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः ॥ (४६।२)

yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ ||

47.1४७.१

बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति । (४७।१)

bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati |

47.2४७.२

दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति ॥ (४७।२)

daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati ||

48.1४८.१

अप्सु वा यदि वादर्शो ऽरिष्टं तस्य विनिर्दिशेत् । (४८।१)

apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet |

48.2४८.२

त्रस्यत्यकस्माद्यो ऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वापि वा जलम् ॥ (४८।२)

trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam ||

49.1४९.१

जलत्रासं तु विद्यात्तं रिष्टं तद् अपि कीर्तितम् । (४९।१)

jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam |

49.2४९.२

अदष्टो वा जलत्रासी न कथंचन सिध्यति ॥ (४९।२)

adaṣṭo vā jalatrāsī na kathaṃcana sidhyati ||

50.1५०.१

प्रसुप्तो ऽथोत्थितो वापि स्वस्थस्त्रस्तो न सिध्यति । (५०।१)

prasupto 'thotthito vāpi svasthastrasto na sidhyati |

50.2५०.२

दंशं विस्राव्य तैर् दष्टे सर्पिषा परिदाहितम् ॥ (५०।२)

daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam ||

51.1५१.१

प्रदिह्यादगदैः सर्पिः पुराणं पाययेत च । (५१।१)

pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca |

51.2५१.२

अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम् ॥ (५१।२)

arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam ||

52.1५२.१

श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम् । (५२।१)

śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām |

52.2५२.२

पललं तिलतैलं च रूपिकायाः पयो गुडः ॥ (५२।२)

palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ ||

53.1५३.१

निहन्ति विषमालर्कं मेघवृन्दमिवानिलः । (५३।१)

nihanti viṣamālarkaṃ meghavṛndamivānilaḥ |

53.2५३.२

मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम् ॥ (५३।२)

mūlasya śarapuṅkhāyāḥ karṣaṃ dhattūrakārdhikam ||

54.1५४.१

तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह । (५४।१)

taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha |

54.2५४.२

उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् ॥ (५४।२)

unmattakasya patraistu saṃveṣṭyāpūpakaṃ pacet ||

55.1५५.१

खादेदौषधकाले तमलर्कविषदूषितः । (५५।१)

khādedauṣadhakāle tamalarkaviṣadūṣitaḥ |

55.2५५.२

करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे ॥ (५५।२)

karoti śvavikārāṃstu tasmiñjīryati cauṣadhe ||

56.1५६.१

विकाराः शिशिरे याप्या गृहे वारिविवर्जिते । (५६।१)

vikārāḥ śiśire yāpyā gṛhe vārivivarjite |

56.2५६.२

ततः शान्तविकारस्तु स्नात्वा चैवापरे ऽहनि ॥ (५६।२)

tataḥ śāntavikārastu snātvā caivāpare 'hani ||

57.1५७.१

शालिषष्टिकयोर् भक्तं क्षीरेणोष्णेन भोजयेत् । (५७।१)

śāliṣaṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet |

57.2५७.२

दिनत्रये पञ्चमे वा विधिरेषो ऽर्धमात्रया ॥ (५७।२)

dinatraye pañcame vā vidhireṣo 'rdhamātrayā ||

58.1५८.१

कर्तव्यो भिषजावश्यमलर्कविषनाशनः । (५८।१)

kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ |

58.2५८.२

कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ॥ (५८।२)

kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ ||

59.1५९.१

तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति । (५९।१)

tasmāt prakopayedāśu svayaṃ yāvat prakupyati |

59.2५९.२

बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ॥ (५९।२)

bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ ||

60.1६०.१

स्नापयेत्तं नदीतीरे समन्त्रैर् वा चतुष्पथे । (६०।१)

snāpayettaṃ nadītīre samantrair vā catuṣpathe |

60.2६०.२

बलिं निवेद्य तत्रापि पिण्याकं पललं दधि ॥ (६०।२)

baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi ||

61.1६१.१

माल्यानि च विचित्राणि मांसं पक्वामकं तथा । (६१।१)

mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā |

61.2६१.२

अलकाधिपते यक्ष सारमेयगणाधिप ॥ (६१।२)

alakādhipate yakṣa sārameyagaṇādhipa ||

62.1६२.१

अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् । (६२।१)

alarkajuṣṭametanme nirviṣaṃ kuru mācirāt |

62.2६२.२

दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ॥ (६२।२)

dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ ||

63.1६३.१

अशुद्धस्य सुरूढे ऽपि व्रणे कुप्यति तद्विषम् । (६३।१)

aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam |

63.2६३.२

श्वादयो ऽभिहिता व्याला ये ऽत्र दंष्ट्राविषा मया ॥ (६३।२)

śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā ||

64.1६४.१

अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः । (६४।१)

ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ |

64.2६४.२

बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः ॥ (६४।२)

bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ ||

65.1६५.१

नखदन्तक्षतं व्यालैर् यत्कृतं तद् विमर्दयेत् । (६५।१)

nakhadantakṣataṃ vyālair yatkṛtaṃ tad vimardayet |

65.2६५.२

सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः ॥ (६५।२)

siñcettailena koṣṇena te hi vātaprakopakāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 5, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit