Su, 6, 15
Select a line for its word-by-word analysis.
स्निग्धं भुक्तवतो ह्यन्नम् उपविष्टस्य यत्नतः । (३।१)
snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ |
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ॥ (३।२)
saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ ||
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् । (४।१)
tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ parighaṭṭitam |
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत् । (६।१)
na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat |
शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ॥ (६।२)
śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham ||
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् । (८।१)
vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt |
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ॥ (८।२)
nītvā kanīnakopāntaṃ chindyānnātikanīnakam ||
चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति । (९।१)
caturbhāgasthite māṃse nākṣi vyāpattimṛcchati |
हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति । (१०।१)
hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati |
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् ॥ (१०।२)
arma yajjālavadvyāpi tadapyunmārjya lambitam ||
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तम् आश्रितम् । (११।१)
chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam |
प्रतिसारणम् अक्ष्णोस् तु ततः कार्यमनन्तरम् ॥ (११।२)
pratisāraṇam akṣṇos tu tataḥ kāryamanantaram ||
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् ॥ (१२।२)
svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak ||
दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम् । (१३।१)
doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam |
व्रणवत् संविधानं तु तस्य कुर्यादतः परम् ॥ (१३।२)
vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param ||
त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत् । (१४।१)
tryahānmuktvā karasvedaṃ dattvā śodhanamācaret |
हितमाश्च्योतनं शूले द्विरह्नः क्षौद्रसंयुतम् । (१५।१)
hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam |
मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि ॥ (१५।२)
madhukotpalakiñjalkadūrvākalkaiśca mūrdhani ||
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते । (१६।१)
pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate |
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा । (१७।१)
arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā |
चर्माभं बहुलं यत्तु स्नायुमांसघनावृतम् । (१८।१)
carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam |
छेद्यम् एव तदर्म स्यात् कृष्णमण्डलगं च यत् ॥ (१८।२)
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat ||
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम् । (१९।१)
viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam |
छिन्ने ऽर्मणि भवेत् सम्यग् यथास्वम् अनुपद्रवम् ॥ (१९।२)
chinne 'rmaṇi bhavet samyag yathāsvam anupadravam ||
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान् । (२०।१)
sirājāle sirā yāstu kaṭhināstāśca buddhimān |
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः । (२१।१)
sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ |
रोगयोश्चैतयोः कार्यमर्मोक्तं प्रतिसारणम् । (२२।१)
rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam |
सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः । (२३।१)
sandhau saṃsvedya śastreṇa parvaṇīkāṃ vicakṣaṇaḥ |
छिन्द्यात्ततो ऽर्धमग्रे स्यादश्रुनाडी ह्यतो ऽन्यथा । (२४।१)
chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā |
शङ्खं समुद्रफेनं च मण्डूकीं च समुद्रजाम् ॥ (२५।२)
śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām ||
स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा । (२६।१)
sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā |
वैदूर्यं पुलकं मुक्ताम् अयस् ताम्ररजांसि च ॥ (२६।२)
vaidūryaṃ pulakaṃ muktām ayas tāmrarajāṃsi ca ||
समभागानि सम्पिष्य सार्धं स्रोतोञ्जनेन तु । (२७।१)
samabhāgāni sampiṣya sārdhaṃ srotoñjanena tu |
संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः । (२८।१)
saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ |
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै ॥ (२८।२)
armāṇi piḍakāṃ hanyāt sirājālāni tena vai ||
अर्शस्तथा यच्च नाम्ना शुष्कार्शो ऽर्बुदम् एव च । (२९।१)
arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca |
अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते ॥ (२९।२)
abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate ||
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः । (३०।१)
vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ |
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ॥ (३०।२)
maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ ||
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ॥ (३१।२)
sthite ca rudhire vartma dahet samyak śalākayā ||
तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ॥ (३२।२)
tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet ||
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ॥ (३३।२)
śastrakarmaṇyuparate māsaṃ ca syāt suyantritaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.