सुश्रुतसंहिताSuśrutasaṃhitā

Su, 5, 5

117 of 186 · 171 verses

Select a line for its word-by-word analysis.

1.0१.०

अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः ॥ (१।०)

athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ ||

2.0२.०

यथोवाच भगवान् धन्वन्तरिः ॥ (२।०)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

सर्वैर् एवादितः सर्पैः शाखादष्टस्य देहिनः । (३।१)

sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ |

3.2३.२

दंशस्योपरि बध्नीयादरिष्टाश्चतुरङ्गुले ॥ (३।२)

daṃśasyopari badhnīyādariṣṭāścaturaṅgule ||

4.1४.१

प्लोतचर्मान्तवल्कानां मृदुनान्यतमेन वै । (४।१)

plotacarmāntavalkānāṃ mṛdunānyatamena vai |

4.2४.२

न गच्छति विषं देहमरिष्टाभिर् निवारितम् ॥ (४।२)

na gacchati viṣaṃ dehamariṣṭābhir nivāritam ||

5.1५.१

दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते । (५।१)

daheddaṃśamathotkṛtya yatra bandho na jāyate |

5.2५.२

आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ॥ (५।२)

ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ ||

6.1६.१

प्रतिपूर्य मुखं वस्त्रैर् हितमाचूषणं भवेत् । (६।१)

pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet |

6.2६.२

स दष्टव्यो ऽथवा सर्पो लोष्टो वापि हि तत्क्षणम् ॥ (६।२)

sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam ||

7.1७.१

अथ मण्डलिना दष्टं न कथंचन दाहयेत् । (७।१)

atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet |

7.2७.२

स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते ॥ (७।२)

sa pittabāhulyaviṣāddaṃśo dāhādvisarpate ||

8.1८.१

अरिष्टाम् अपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः । (८।१)

ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ |

8.2८.२

सा तु रज्ज्वादिभिर् बद्धा विषप्रतिकरी मता ॥ (८।२)

sā tu rajjvādibhir baddhā viṣapratikarī matā ||

9.1९.१

देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः । (९।१)

devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ |

9.2९.२

भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ॥ (९।२)

bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram ||

10.1१०.१

विषं तेजोमयैर् मन्त्रैः सत्यब्रह्मतपोमयैः । (१०।१)

viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ |

10.2१०.२

यथा निवार्यते क्षिप्रं प्रयुक्तैर् न तथौषधैः ॥ (१०।२)

yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ ||

11.1११.१

मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना । (११।१)

mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā |

11.2११.२

मिताहारेण शुचिना कुशास्तरणशायिना ॥ (११।२)

mitāhāreṇa śucinā kuśāstaraṇaśāyinā ||

12.1१२.१

गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः । (१२।१)

gandhamālyopahāraiśca balibhiścāpi devatāḥ |

12.2१२.२

पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः ॥ (१२।२)

pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ ||

13.1१३.१

मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः । (१३।१)

mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ |

13.2१३.२

यस्मान्न सिद्धिमायान्ति तस्माद् योज्यो ऽगदक्रमः ॥ (१३।२)

yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ ||

14.1१४.१

समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक् । (१४।१)

samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak |

14.2१४.२

शाखाग्रे वा ललाटे वा व्यध्यास्ता विसृते विषे ॥ (१४।२)

śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe ||

15.1१५.१

रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम् । (१५।१)

rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam |

15.2१५.२

तस्माद् विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया ॥ (१५।२)

tasmād visrāvayedraktaṃ sā hyasya paramā kriyā ||

16.1१६.१

समन्तादगदैर् दंशं प्रच्छयित्वा प्रलेपयेत् । (१६।१)

samantādagadair daṃśaṃ pracchayitvā pralepayet |

16.2१६.२

चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् ॥ (१६।२)

candanośīrayuktena vāriṇā pariṣecayet ||

17.1१७.१

पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः । (१७।१)

pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ |

17.2१७.२

तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका ॥ (१७।२)

tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā ||

18.1१८.१

कोविदारशिरीषार्ककटभीर्वापि भक्षयेत् । (१८।१)

kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet |

18.2१८.२

न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च ॥ (१८।२)

na pibettailakaulatthamadyasauvīrakāṇi ca ||

19.1१९.१

द्रवमन्यत्तु यत्किंचित् पीत्वा पीत्वा तदुद्वमेत् । (१९।१)

dravamanyattu yatkiṃcit pītvā pītvā tadudvamet |

19.2१९.२

प्रायो हि वमनेनैव सुखं निर्ह्रियते विषम् ॥ (१९।२)

prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam ||

20.1२०.१

फणिनां विषवेगे तु प्रथमे शोणितं हरेत् । (२०।१)

phaṇināṃ viṣavege tu prathame śoṇitaṃ haret |

20.2२०.२

द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ॥ (२०।२)

dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak ||

21.1२१.१

नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने । (२१।१)

nasyakarmāñjane yuñjyāttṛtīye viṣanāśane |

21.2२१.२

वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत् ॥ (२१।२)

vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet ||

22.1२२.१

शीतोपचारं कृत्वादौ भिषक् पञ्चमषष्ठयोः । (२२।१)

śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ |

22.2२२.२

पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम् ॥ (२२।२)

pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām ||

23.1२३.१

सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् । (२३।१)

saptame tvavapīḍena śirastīkṣṇena śodhayet |

23.2२३.२

तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च ॥ (२३।२)

tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca ||

24.1२४.१

कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत् । (२४।१)

kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet |

24.2२४.२

पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् ॥ (२४।२)

pūrve maṇḍalināṃ vege darvīkaravadācaret ||

25.1२५.१

अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च । (२५।१)

agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca |

25.2२५.२

वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत् ॥ (२५।२)

vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet ||

26.1२६.१

तृतीये शोधितं तीक्ष्णैर् यवागूं पाययेद्धिताम् । (२६।१)

tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām |

26.2२६.२

चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत् ॥ (२६।२)

caturthe pañcame cāpi darvīkaravadācaret ||

27.1२७.१

काकोल्यादिर्हितः षष्ठे पेयश्च मधुरो ऽगदः । (२७।१)

kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ |

27.2२७.२

हितो ऽवपीडे त्वगदः सप्तमे विषनाशनः ॥ (२७।२)

hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ ||

28.1२८.१

राजिमन्त्पूर्वे राजिमतां वेगे ऽलाबुभिः शोणितं हरेत् । (२८।१)

rājimantpūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret |

28.2२८.२

अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च ॥ (२८।२)

agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca ||

29.1२९.१

वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम् । (२९।१)

vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam |

29.2२९.२

तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः ॥ (२९।२)

tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ ||

30.1३०.१

षष्ठे ऽञ्जनं तीक्ष्णतमम् अवपीडश्च सप्तमे । (३०।१)

ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaśca saptame |

30.2३०.२

गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम् ॥ (३०।२)

garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam ||

31.1३१.१

विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु । (३१।१)

viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu |

31.2३१.२

रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके ॥ (३१।२)

raktāvasekāñjanāni naratulyānyajāvike ||

32.1३२.१

त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत् । (३२।१)

triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat |

32.2३२.२

चतुर्गुणं तु नागानां केवलं सर्वपक्षिणाम् ॥ (३२।२)

caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām ||

33.1३३.१

परिषेकान् प्रदेहांश्च सुशीतानवचारयेत् । (३३।१)

pariṣekān pradehāṃśca suśītānavacārayet |

33.2३३.२

माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम् । (३३।२)

māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam |

33.3३३.३

पाने चतुर्गुणं पथ्यं वमने ऽष्टगुणं पुनः ॥ (३३।३)

pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ ||

34.1३४.१

देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम् । (३४।१)

deśaprakṛtisātmyartuviṣavegabalābalam |

34.2३४.२

प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत् ॥ (३४।२)

pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret ||

35.1३५.१

वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम् । (३५।१)

vegānupūrvyā karmoktamidaṃ viṣavināśanam |

35.2३५.२

कर्मावस्थाविशेषेण विषयोर् उभयोः शृणु ॥ (३५।२)

karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu ||

36.1३६.१

विवर्णे कठिने शूने सरुजे ऽङ्गे विषान्विते । (३६।१)

vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite |

36.2३६.२

तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः ॥ (३६।२)

tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ ||

37.1३७.१

क्षुधार्तमनिलप्रायं तद्विषार्तं समाहितः । (३७।१)

kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ |

37.2३७.२

पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ॥ (३७।२)

pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi ||

38.1३८.१

तृड्दाहधर्मसंमोहे पैत्तं पैत्तविषातुरम् । (३८।१)

tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam |

38.2३८.२

शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ॥ (३८।२)

śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret ||

39.1३९.१

शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम् । (३९।१)

śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam |

39.2३९.२

वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम् ॥ (३९।२)

vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam ||

40.1४०.१

कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम् । (४०।१)

koṣṭhadāharujādhmānamūtrasaṅgaruganvitam |

40.2४०.२

विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम् ॥ (४०।२)

virecayecchakṛdvāyusaṅgapittāturaṃ naram ||

41.1४१.१

शूनाक्षिकूटं निद्रार्तं विवर्णाविललोचनम् । (४१।१)

śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam |

41.2४१.२

विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत् ॥ (४१।२)

vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret ||

42.1४२.१

शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे । (४२।१)

śiroruggauravālasyahanustambhagalagrahe |

42.2४२.२

शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ॥ (४२।२)

śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe ||

43.1४३.१

नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः । (४३।१)

naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ |

43.2४३.२

चूर्णैः प्रधमनैस्तीक्ष्णैर् विषार्तं समुपाचरेत् ॥ (४३।२)

cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret ||

44.1४४.१

ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः । (४४।१)

tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ |

44.2४४.२

तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ॥ (४४।२)

tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit ||

45.1४५.१

कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः । (४५।१)

kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ |

45.2४५.२

सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि ॥ (४५।२)

saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani ||

46.1४६.१

चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक् । (४६।१)

carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak |

46.2४६.२

वादयेच्चागदैर् लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः ॥ (४६।२)

vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ ||

47.1४७.१

लब्धसंज्ञं पुनश्चैनम् ऊर्ध्वं चाधश्च शोधयेत् । (४७।१)

labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet |

47.2४७.२

निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ॥ (४७।२)

niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam ||

48.1४८.१

अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते । (४८।१)

alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate |

48.2४८.२

कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः ॥ (४८।२)

kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ ||

49.1४९.१

शोफशोषप्रतिश्यायतिमिरारुचिपीनसान् । (४९।१)

śophaśoṣapratiśyāyatimirārucipīnasān |

49.2४९.२

तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ॥ (४९।२)

teṣu cāpi yathādoṣaṃ pratikarma prayojayet ||

50.1५०.१

विषार्तोपद्रवांश्चापि यथास्वं समुपाचरेत् । (५०।१)

viṣārtopadravāṃścāpi yathāsvaṃ samupācaret |

50.2५०.२

अथारिष्टां विमुच्याशु प्रच्छयित्वाङ्कितं तया ॥ (५०।२)

athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā ||

51.1५१.१

दह्यात् तत्र विषं स्कन्नं भूयो वेगाय कल्पते । (५१।१)

dahyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate |

51.2५१.२

एवमौषधिभिर् मन्त्रैः क्रियायोगैश्च यत्नतः ॥ (५१।२)

evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ ||

52.1५२.१

विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति । (५२।१)

viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati |

52.2५२.२

तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत् ॥ (५२।२)

tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret ||

53.1५३.१

तैलमत्स्यकुलत्थाम्लवर्ज्यैर् विषहरायुतैः । (५३।१)

tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ |

53.2५३.२

पित्तज्वरहरैः पित्तं कषायस्नेहबस्तिभिः ॥ (५३।२)

pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ ||

54.1५४.१

कफमारग्वधाद्येन सक्षौद्रेण गणेन तु । (५४।१)

kaphamāragvadhādyena sakṣaudreṇa gaṇena tu |

54.2५४.२

श्लेष्मघ्नैर् अगदैश्चैव तिक्तै रूक्षैश्च भोजनैः ॥ (५४।२)

śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ ||

55.1५५.१

वृक्षप्रपातविषमपतितं मृतमम्भसि । (५५।१)

vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi |

55.2५५.२

उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत् ॥ (५५।२)

udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat ||

56.1५६.१

गाढं बद्धे ऽरिष्टया प्रच्छिते वा तीक्ष्णैर् लेपैस्तद्विधैर् वावशिष्टैः । (५६।१)

gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ |

56.2५६.२

शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ॥ (५६।२)

śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam ||

57.1५७.१

सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम् । (५७।१)

sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam |

57.2५७.२

कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च ॥ (५७।२)

kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca ||

58.1५८.१

तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत् । (५८।१)

tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet |

58.2५८.२

पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः ॥ (५८।२)

pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ ||

59.1५९.१

लूतादष्टा दिग्धविद्धा विषैर् वा जुष्टाः प्रायस्ते व्रणाः पूतिमांसाः । (५९।१)

lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ |

59.2५९.२

तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य ॥ (५९।२)

teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya ||

60.1६०.१

हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः । (६०।१)

hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ |

60.2६०.२

अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर् द्रव्यैर् आज्ययुक्तैर् विषघ्नैः ॥ (६०।२)

antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ ||

61.1६१.१

भिन्ने त्व् अस्थ्ना दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च । (६१।१)

bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca |

61.2६१.२

त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ॥ (६१।२)

trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ ||

62.1६२.१

कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि । (६२।१)

kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni |

62.2६२.२

एषो ऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः ॥ (६२।२)

eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ ||

63.1६३.१

अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः । (६३।१)

avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ |

63.2६३.२

विडङ्गपाठात्रिफलाजमोदाहिङ्गूनि वक्रं त्रिकटूनि चैव ॥ (६३।२)

viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva ||

64.1६४.१

सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः । (६४।१)

sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ |

64.2६४.२

शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ॥ (६४।२)

śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca ||

65.1६५.१

एषो ऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना । (६५।१)

eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā |

65.2६५.२

प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ॥ (६५।२)

prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca ||

66.1६६.१

स्थौणेयकध्यामकगुग्गुलूनि पुंनागतालीशसुवर्चिकाश्च । (६६।१)

sthauṇeyakadhyāmakaguggulūni puṃnāgatālīśasuvarcikāśca |

66.2६६.२

कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ॥ (६६।२)

kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ ||

67.1६७.१

रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च । (६७।१)

rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca |

67.2६७.२

सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ॥ (६७।२)

sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni ||

68.1६८.१

एषो ऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्याद् अपि तक्षकस्य । (६८।१)

eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya |

68.2६८.२

मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ॥ (६८।२)

māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni ||

69.1६९.१

विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि । (६९।१)

viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni |

69.2६९.२

भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ॥ (६९।२)

bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca ||

70.1७०.१

पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम् । (७०।१)

pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam |

70.2७०.२

सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि ॥ (७०।२)

sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi ||

71.1७१.१

वराहगोधाशिखिशल्लकीनां मार्जारजं पार्षतनाकुले च । (७१।१)

varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca |

71.2७१.२

यस्यागदो ऽयं सुकृतो गृहे स्यान् नाम्नर्षभो नाम नरर्षभस्य ॥ (७१।२)

yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya ||

72.1७२.१

न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव । (७२।१)

na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva |

72.2७२.२

एतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ॥ (७२।२)

etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ ||

73.1७३.१

दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति । (७३।१)

digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti |

73.2७३.२

लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च ॥ (७३।२)

lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca ||

74.1७४.१

चूर्णीकृतो ऽयं रजनीविमिश्रः सर्पिर्मधुभ्यां सहितो निधेयः । (७४।१)

cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ |

74.2७४.२

शृङ्गे गवां पूर्ववद् आपिधानस् ततः प्रयोज्यो ऽञ्जननस्यपानैः ॥ (७४।२)

śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ ||

75.1७५.१

संजीवनो नाम गतासुकल्पानेषो ऽगदो जीवयतीह मर्त्यान् । (७५।१)

saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān |

75.2७५.२

श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च ॥ (७५।२)

śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca ||

76.1७६.१

सतण्डुलीयो ऽगद एष मुख्यो विषेषु दर्वीकरराजिलानाम् । (७६।१)

sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām |

76.2७६.२

द्राक्षा सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ॥ (७६।२)

drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā ||

77.1७७.१

देयो द्विभागः सुरसाछदस्य कपित्थबिल्वाद् अपि दाडिमाच्च । (७७।१)

deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca |

77.2७७.२

तथार्धभागः सितसिन्धुवारादङ्कोठमूलाद् अपि गैरिकाच्च ॥ (७७।२)

tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca ||

78.1७८.१

एषो ऽगदः क्षौद्रयुतो निहन्ति विशेषतो मण्डलिनां विषाणि । (७८।१)

eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi |

78.2७८.२

वंशत्वगार्द्रामलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा ॥ (७८।२)

vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā ||

79.1७९.१

करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति । (७९।१)

karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti |

79.2७९.२

विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः ॥ (७९।२)

viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ ||

80.1८०.१

पुरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः । (८०।१)

purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ |

80.2८०.२

काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः ॥ (८०।२)

kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ ||

81.1८१.१

समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः । (८१।१)

samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ |

81.2८१.२

सलावणः क्षौद्रयुतो ऽथ पीतो विशेषतः कीटविषं निहन्ति ॥ (८१।२)

salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti ||

82.1८२.१

कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम् । (८२।१)

kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam |

82.2८२.२

मालती नागपुष्पं च सर्वाणि मधुराणि च ॥ (८२।२)

mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca ||

83.1८३.१

कपित्थरसपिष्टो ऽयं शर्कराक्षौद्रसंयुतः । (८३।१)

kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ |

83.2८३.२

विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ॥ (८३।२)

viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ ||

84.1८४.१

सोमराजीफलं पुष्पं कटभी सिन्धुवारकः । (८४।१)

somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ |

84.2८४.२

चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ॥ (८४।२)

corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā ||

85.1८५.१

पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम् । (८५।१)

punarnavā śirīṣasya puṣpamāragvadhārkajam |

85.2८५.२

श्यामाम्बष्ठा विडङ्गानि तथाम्राश्मन्तकानि च ॥ (८५।२)

śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca ||

86.1८६.१

भूमी कुरबकश्चैव गण एकसरः स्मृतः । (८६।१)

bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ |

86.2८६.२

एकशो द्वित्रिशो वापि प्रयोक्तव्यो विषापहः ॥ (८६।२)

ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 5, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit