Su, 5, 6
Select a line for its word-by-word analysis.
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ॥ (१।१)
athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत् दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृहधूमानन्तासोमसरलाबाह्लीकगुहाकोशाम्र श्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणीसप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात् ॥ (३।१)
dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt ||
श्रवणाद्दर्शनात् स्पर्शात् विषात् संप्रतिमुच्यते ॥ (४।२)
śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate ||
प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ॥ (९।२)
priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam ||
सचन्दनगवाक्षीभिर् एतैः सिद्धं विषापहम् । (१०।१)
sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham |
सर्पिः कल्याणकं ह्येतद्ग्रहापस्मारनाशनम् ॥ (१०।२)
sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam ||
शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते ॥ (११।२)
śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate ||
श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् ॥ (१२।२)
śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet ||
सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् । (१३।१)
sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param |
भद्रश्रियं यवफलां भार्गीं नीलीं सुगन्धिकाम् । (१५।१)
bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ sugandhikām |
पुंनागैलैलवालूनि गैरिकं ध्यामकं बलाम् । (१६।१)
puṃnāgailailavālūni gairikaṃ dhyāmakaṃ balām |
तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ॥ (१६।२)
toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām ||
तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम् । (१७।१)
tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam |
शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् ॥ (१७।२)
śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām ||
कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम् । (१८।१)
kaṭutrikaṃ śītaśivaṃ kāśmaryaṃ kaṭurohiṇīm |
उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा । (१९।१)
uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā |
श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च ॥ (१९।२)
śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca ||
कुमुदोत्पलपद्मानि पुष्पं चापि तथार्कजम् । (२०।१)
kumudotpalapadmāni puṣpaṃ cāpi tathārkajam |
धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च । (२२।१)
dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca |
गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ॥ (२२।२)
gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm ||
एतत् संभृत्य संभारं सूक्ष्मचूर्णानि कारयेत् । (२३।१)
etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet |
गोपित्तमधुसर्पिर्भिर् युक्तं शृङ्गे निधापयेत् ॥ (२३।२)
gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet ||
भग्नस्कन्धं विवृताक्षं मृत्योर् दंष्ट्रान्तरं गतम् । (२४।१)
bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam |
एषो ऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः । (२५।१)
eṣo 'gnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ |
विषं नागपतेर्हन्यात् प्रसभं वासुकेर् अपि ॥ (२५।२)
viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api ||
राजागदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ॥ (२६।२)
rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā ||
स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः । (२७।१)
snātānuliptastu nṛpo bhavet sarvajanapriyaḥ |
भ्राजिष्णुतां च लभते शत्रुमध्यगतो ऽपि सन् ॥ (२७।२)
bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san ||
उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता । (२८।१)
uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā |
मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते ॥ (२८।२)
muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate ||
शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् ॥ (२९।२)
śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet ||
फाणितं शिग्रुसौवीरम् अजीर्णाध्यशनं तथा । (३०।१)
phāṇitaṃ śigrusauvīram ajīrṇādhyaśanaṃ tathā |
दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम् । (३१।१)
divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam |
सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ॥ (३१।२)
surātilakulatthāṃśca varjayeddhi viṣāturaḥ ||
प्रसन्नदोषं प्रकृतिस्थधातुम् अन्नाभिकाङ्क्षं समसूत्रजिह्वम् । (३२।१)
prasannadoṣaṃ prakṛtisthadhātum annābhikāṅkṣaṃ samasūtrajihvam |
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्यो ऽवगच्छेदविषं मनुष्यम् ॥ (३२।२)
prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam ||
Data courtesy of The Digital Corpus of Sanskrit.