सुश्रुतसंहिताSuśrutasaṃhitā

Su, 4, 22

94 of 186 · 162 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो मुखरोगचिकित्सितं व्याख्यास्यामः ॥ (१।१)

athāto mukharogacikitsitaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च । (३।१)

caturvidhena snehena madhūcchiṣṭayutena ca |

3.2३.२

वातजे ऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ॥ (३।२)

vātaje 'bhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān ||

4.1४.१

विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने । (४।१)

vidadhyādoṣṭhakope tu sālvaṇaṃ copanāhane |

4.2४.२

मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ॥ (४।२)

mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam ||

5.1५.१

श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु । (५।१)

śrīveṣṭakaṃ sarjarasaṃ suradāru saguggulu |

5.2५.२

यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ॥ (५।२)

yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam ||

6.1६.१

पित्तरक्ताभिघातोत्थं जलौकोभिर् उपाचरेत् । (६।१)

pittaraktābhighātotthaṃ jalaukobhir upācaret |

6.2६.२

पित्तविद्रधिवच्चापि क्रियां कुर्याद् अशेषतः ॥ (६।२)

pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ ||

7.1७.१

शिरोविरेचनं धूमः स्वेदः कवल एव च । (७।१)

śirovirecanaṃ dhūmaḥ svedaḥ kavala eva ca |

7.2७.२

हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ (७।२)

hṛte rakte prayoktavyamoṣṭhakope kaphātmake ||

8.1८.१

त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा । (८।१)

tryūṣaṇaṃ svarjikākṣāro yavakṣāro viḍaṃ tathā |

8.2८.२

क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ॥ (८।२)

kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam ||

9.1९.१

मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः । (९।१)

medoje svedite bhinne śodhite jvalano hitaḥ |

9.2९.२

प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ॥ (९।२)

priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam ||

10.1१०.१

एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम् । (१०।१)

etadoṣṭhaprakopānāṃ sādhyānāṃ karma kīrtitam |

10.2१०.२

दन्तमूलरोगदन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते ॥ (१०।२)

dantamūlarogadantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate ||

11.1११.१

शीतादे हृतरक्ते तु तोये नागरसर्षपान् । (११।१)

śītāde hṛtarakte tu toye nāgarasarṣapān |

11.2११.२

निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ॥ (११।२)

niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñjanaḥ ||

12.1१२.१

प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम् । (१२।१)

priyaṅgavaśca mustaṃ ca triphalā ca pralepanam |

12.2१२.२

नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः ॥ (१२।२)

nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ ||

13.1१३.१

दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् । (१३।१)

dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇam |

13.2१३.२

सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ॥ (१३।२)

sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam ||

14.1१४.१

हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् । (१४।१)

hitaḥ śirovirekaśca nasyaṃ snigdhaṃ ca bhojanam |

14.2१४.२

विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् ॥ (१४।२)

visrāvite dantaveṣṭe vraṇāṃstu pratisārayet ||

15.1१५.१

रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर् मधूत्तरैः । (१५।१)

rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ |

15.2१५.२

गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ॥ (१५।२)

gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ ||

16.1१६.१

काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः । (१६।१)

kākolyādau daśakṣīrasiddhaṃ sarpiśca nasyataḥ |

16.2१६.२

शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः ॥ (१६।२)

śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ ||

17.1१७.१

सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः । (१७।१)

sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ |

17.2१७.२

सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः ॥ (१७।२)

sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ ||

18.1१८.१

क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् । (१८।१)

kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam |

18.2१८.२

क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ॥ (१८।२)

kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ ||

19.1१९.१

उपकुशसंशोध्योभयतः कार्यं शिरश्चोपकुशे तथा । (१९।१)

upakuśasaṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā |

19.2१९.२

काकोदुम्बरिकागोजीपत्रैर् विस्रावयेदसृक् ॥ (१९।२)

kākodumbarikāgojīpatrair visrāvayedasṛk ||

20.1२०.१

क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् । (२०।१)

kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet |

20.2२०.२

पिप्पलीः सर्षपाञ् श्वेतान्नागरं नैचुलं फलम् ॥ (२०।२)

pippalīḥ sarṣapāñ śvetānnāgaraṃ naiculaṃ phalam ||

21.1२१.१

सुखोदकेन संसृज्य कवलं चापि धारयेत् । (२१।१)

sukhodakena saṃsṛjya kavalaṃ cāpi dhārayet |

21.2२१.२

घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः ॥ (२१।२)

ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ ||

22.1२२.१

शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् । (२२।१)

śastreṇa dantavaidarbhe dantamūlāni śodhayet |

22.2२२.२

ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ॥ (२२।२)

tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ ||

23.1२३.१

उद्धृत्याधिकदन्तं तु ततो ऽग्निमवचारयेत् । (२३।१)

uddhṛtyādhikadantaṃ tu tato 'gnimavacārayet |

23.2२३.२

कृमिदन्तकवच्चापि विधिः कार्यो विजानता ॥ (२३।२)

kṛmidantakavaccāpi vidhiḥ kāryo vijānatā ||

24.1२४.१

छित्त्वाधिमांसं सक्षौद्रैर् एभिश्चूर्णैर् उपाचरेत् । (२४।१)

chittvādhimāṃsaṃ sakṣaudrair ebhiścūrṇair upācaret |

24.2२४.२

वचातेजोवतीपाठास्वर्जिकायावशूकजैः ॥ (२४।२)

vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ ||

25.1२५.१

क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः । (२५।१)

kṣaudradvitīyāḥ pippalyaḥ kavalaścātra kīrtitaḥ |

25.2२५.२

पटोलत्रिफलानिम्बकषायश्चात्र धावने । (२५।२)

paṭolatriphalānimbakaṣāyaścātra dhāvane |

25.3२५.३

हितः शिरोविरेकश्च धूमो वैरेचनश्च यः ॥ (२५।३)

hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ ||

26.1२६.१

सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु । (२६।१)

sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śṛṇu |

26.2२६.२

नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ॥ (२६।२)

nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet ||

27.1२७.१

यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् । (२७।१)

yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet |

27.2२७.२

छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् ॥ (२७।२)

chittvā māṃsāni śastreṇa yadi noparijo bhavet ||

28.1२८.१

शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा । (२८।१)

śodhayitvā daheccāpi kṣāreṇa jvalanena vā |

28.2२८.२

भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् ॥ (२८।२)

bhinattyupekṣite dante hanukāsthi gatirdhruvam ||

29.1२९.१

समूलं दशनं तस्माद् उद्धरेद्भग्नमस्थिरम् । (२९।१)

samūlaṃ daśanaṃ tasmād uddharedbhagnamasthiram |

29.2२९.२

उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने ॥ (२९।२)

uddhṛte tūttare dante samūle sthirabandhane ||

30.1३०.१

रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि । (३०।१)

raktātiyogāt pūrvoktā rogā ghorā bhavanti hi |

30.2३०.२

काणः संजायते जन्तुरर्दितं चास्य जायते ॥ (३०।२)

kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate ||

31.1३१.१

चलमप्युत्तरं दन्तमतो नापहरेद्भिषक् । (३१।१)

calamapyuttaraṃ dantamato nāpaharedbhiṣak |

31.2३१.२

धावने जातिमदनस्वादुकण्टकखादिरम् ॥ (३१।२)

dhāvane jātimadanasvādukaṇṭakakhādiram ||

32.1३२.१

कषायं जातिमदनकटुकस्वादुकण्टकैः । (३२।१)

kaṣāyaṃ jātimadanakaṭukasvādukaṇṭakaiḥ |

32.2३२.२

यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ॥ (३२।२)

yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam ||

33.1३३.१

तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम् । (३३।१)

tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim |

33.2३३.२

कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ॥ (३३।२)

kīrtitā dantamūle tu kriyā danteṣu vakṣyate ||

34.1३४.१

स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा । (३४।१)

snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā |

34.2३४.२

निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ॥ (३४।२)

niryūhāścānilaghnānāṃ dantaharṣapramardanāḥ ||

35.1३५.१

स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम् । (३५।१)

snaihikaśca hito dhūmo nasyaṃ snigdhaṃ ca bhojanam |

35.2३५.२

रसो रसयवाग्वश्च क्षीरं संतानिका घृतम् ॥ (३५।२)

raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam ||

36.1३६.१

शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः । (३६।१)

śirobastirhitaścāpi kramo yaścānilāpahaḥ |

36.2३६.२

अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ॥ (३६।२)

ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak ||

37.1३७.१

लाक्षाचूर्णैर् मधुयुतैस्ततस्ताः प्रतिसारयेत् । (३७।१)

lākṣācūrṇair madhuyutaistatastāḥ pratisārayet |

37.2३७.२

दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ॥ (३७।२)

dantaharṣakriyāṃ cāpi kuryānniravaśeṣataḥ ||

38.1३८.१

कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता । (३८।१)

kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā |

38.2३८.२

जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ॥ (३८।२)

jayedvisrāvaṇaiḥ svinnamacalaṃ kṛmidantakam ||

39.1३९.१

तथावपीडैर् वातघ्नैः स्नेहगण्डूषधारणैः । (३९।१)

tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ |

39.2३९.२

भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ॥ (३९।२)

bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ ||

40.1४०.१

चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च । (४०।१)

calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca |

40.2४०.२

ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ॥ (४०।२)

tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ ||

41.1४१.१

तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् । (४१।१)

tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet |

41.2४१.२

हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ॥ (४१।२)

hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām ||

42.1४२.१

फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् । (४२।१)

phalānyamlāni śītāmbu rūkṣānnaṃ dantadhāvanam |

42.2४२.२

तथातिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ॥ (४२।२)

tathātikaṭhinān bhakṣyān dantarogī vivarjayet ||

43.1४३.१

साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम् । (४३।१)

sādhyānāṃ dantarogāṇāṃ cikitsitamudīritam |

43.2४३.२

जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ॥ (४३।२)

jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhaye ||

44.1४४.१

ओष्ठप्रकोपे ऽनिलजे यदुक्तं प्राक् चिकित्सितम् । (४४।१)

oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam |

44.2४४.२

कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ॥ (४४।२)

kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā bhavet ||

45.1४५.१

पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते । (४५।१)

pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite |

45.2४५.२

प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ॥ (४५।२)

pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam ||

46.1४६.१

कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये । (४६।१)

kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye |

46.2४६.२

पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ॥ (४६।२)

pippalyādirmadhuyutaḥ kāryastu pratisāraṇe ||

47.1४७.१

गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः । (४७।१)

gṛhṇīyāt kavalāṃścāpi gaurasarṣapasaindhavaiḥ |

47.2४७.२

पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ॥ (४७।२)

paṭolanimbavārtākukṣārayūṣaiśca bhojayet ||

48.1४८.१

उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् । (४८।१)

upajihvāṃ tu saṃlikhya kṣāreṇa pratisārayet |

48.2४८.२

शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ॥ (४८।२)

śirovirekagaṇḍūṣadhūmaiścainamupācaret ||

49.1४९.१

जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते । (४९।१)

jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate |

49.2४९.२

अङ्गुष्ठाङ्गुलिसंदंशेनाकृष्य गलशुण्डिकाम् ॥ (४९।२)

aṅguṣṭhāṅgulisaṃdaṃśenākṛṣya galaśuṇḍikām ||

50.1५०.१

छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् । (५०।१)

chedayenmaṇḍalāgreṇa jihvopari tu saṃsthitām |

50.2५०.२

नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ॥ (५०।२)

notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak ||

51.1५१.१

अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च । (५१।१)

atyādānāt sravedraktaṃ tannimittaṃ mriyeta ca |

51.2५१.२

हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ॥ (५१।२)

hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ ||

52.1५२.१

तस्माद् वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः । (५२।१)

tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ |

52.2५२.२

गलशुण्डीं तु संछिद्य कुर्यात् प्राप्तमिमं क्रमम् ॥ (५२।२)

galaśuṇḍīṃ tu saṃchidya kuryāt prāptamimaṃ kramam ||

53.1५३.१

मरिचातिविषापाठावचाकुष्ठकुटन्नटैः । (५३।१)

maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |

53.2५३.२

क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ॥ (५३।२)

kṣaudrayuktaiḥ salavaṇaistatastāṃ pratisārayet ||

54.1५४.१

वचामतिविषां पाठां रास्नां कटुकरोहिणीम् । (५४।१)

vacāmativiṣāṃ pāṭhāṃ rāsnāṃ kaṭukarohiṇīm |

54.2५४.२

निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ॥ (५४।२)

niṣkvāthya picumandaṃ ca kavalaṃ tatra yojayet ||

55.1५५.१

इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः । (५५।१)

iṅgudīkiṇihīdantīsaralāsuradārubhiḥ |

55.2५५.२

पञ्चाङ्गीं कारयेत् पिष्टैर् वर्तिं गन्धोत्तरां शुभाम् ॥ (५५।२)

pañcāṅgīṃ kārayet piṣṭair vartiṃ gandhottarāṃ śubhām ||

56.1५६.१

ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम् । (५६।१)

tato dhūmaṃ pibejjanturdvirahnaḥ kaphanāśanam |

56.2५६.२

क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ॥ (५६।२)

kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ ||

57.1५७.१

तुण्डिकेर्यध्रुषे कूर्मे संघाते तालुपुप्पुटे । (५७।१)

tuṇḍikeryadhruṣe kūrme saṃghāte tālupuppuṭe |

57.2५७.२

एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ॥ (५७।२)

eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi ||

58.1५८.१

तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् । (५८।१)

tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam |

58.2५८.२

स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ॥ (५८।२)

snehasvedau tāluśoṣe vidhiścānilanāśanaḥ ||

59.1५९.१

कीर्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते । (५९।१)

kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃ karma vakṣyate |

59.2५९.२

साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ॥ (५९।२)

sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇam ||

60.1६०.१

छर्दनं धूमपानं च गण्डूषो नस्यकर्म च । (६०।१)

chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca |

60.2६०.२

वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ॥ (६०।२)

vātikīṃ tu hṛte rakte lavaṇaiḥ pratisārayet ||

61.1६१.१

सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः । (६१।१)

sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ |

61.2६१.२

पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ॥ (६१।२)

pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet ||

62.1६२.१

द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे । (६२।१)

drākṣāparūṣakakvātho hitaśca kavalagrahe |

62.2६२.२

अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ॥ (६२।२)

agāradhūmakaṭukaiḥ ślaiṣmikīṃ pratisārayet ||

63.1६३.१

श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् । (६३।१)

śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam |

63.2६३.२

नस्यकर्मणि योक्तव्यं तथा कवलधारणे ॥ (६३।२)

nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe ||

64.1६४.१

पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसंभवाम् । (६४।१)

pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām |

64.2६४.२

विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥ (६४।२)

visrāvya kaṇṭhaśālūkaṃ sādhayettuṇḍikerivat ||

65.1६५.१

एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः । (६५।१)

ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ |

65.2६५.२

उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ॥ (६५।२)

upajihvikavaccāpi sādhayedadhijihvikām ||

66.1६६.१

एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् । (६६।१)

ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret |

66.2६६.२

गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ॥ (६६।२)

gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet ||

67.1६७.१

अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम् । (६७।१)

amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim |

67.2६७.२

वातात् सर्वसरं चूर्णैर् लवणैः प्रतिसारयेत् ॥ (६७।२)

vātāt sarvasaraṃ cūrṇair lavaṇaiḥ pratisārayet ||

68.1६८.१

तैलं वातहरैः सिद्धं हितं कवलनस्ययोः । (६८।१)

tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ |

68.2६८.२

ततो ऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ॥ (६८।२)

tato 'smai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ ||

69.1६९.१

शालराजादनैरण्डसारैङ्गुदमधूकजाः । (६९।१)

śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ |

69.2६९.२

मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः । (६९।२)

majjāno gugguludhyāmamāṃsīkālānusārivāḥ |

69.3६९.३

श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ॥ (६९।३)

śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet ||

70.1७०.१

तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः । (७०।१)

tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ |

70.2७०.२

टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ॥ (७०।२)

ṭiṇṭūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet ||

71.1७१.१

एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः । (७१।१)

eṣa sarvasare dhūmaḥ praśastaḥ snaihiko mataḥ |

71.2७१.२

कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ॥ (७१।२)

kaphaghno mārutaghnaśca mukharogavināśanaḥ ||

72.1७२.१

पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः । (७२।१)

pittātmake sarvasare śuddhakāyasya dehinaḥ |

72.2७२.२

सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ॥ (७२।२)

sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ ||

73.1७३.१

प्रतिसारणगण्डूषौ धूमः संशोधनानि च । (७३।१)

pratisāraṇagaṇḍūṣau dhūmaḥ saṃśodhanāni ca |

73.2७३.२

कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ॥ (७३।२)

kaphātmake sarvasare vidhiṃ kuryāt kaphāpaham ||

74.1७४.१

पिबेदतिविषां पाठां मुस्तं च सुरदारु च । (७४।१)

pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca |

74.2७४.२

रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ॥ (७४।२)

rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca ||

75.1७५.१

गवां मूत्रेण मनुजो भागैर् धरणसंमितैः । (७५।१)

gavāṃ mūtreṇa manujo bhāgair dharaṇasaṃmitaiḥ |

75.2७५.२

एष सर्वान् कफकृतान् रोगान् योगो ऽपकर्षति ॥ (७५।२)

eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati ||

76.1७६.१

क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः । (७६।१)

kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ |

76.2७६.२

विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैर् अपि ॥ (७६।२)

vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtair api ||

77.1७७.१

रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम् । (७७।१)

rogāṇāṃ mukhajātānāṃ sādhyānāṃ karma kīrtitam |

77.2७७.२

असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ॥ (७७।२)

asādhyā api vakṣyante rogā ye tatra kīrtitāḥ ||

78.1७८.१

ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः । (७८।१)

oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ |

78.2७८.२

दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ॥ (७८।२)

dantamūleṣu varjyau tu triliṅgagatisauṣirau ||

79.1७९.१

दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः । (७९।१)

danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ |

79.2७९.२

जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ॥ (७९।२)

jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā ||

80.1८०.१

स्वरघ्नो वलयो वृन्दो विदार्यलस एव च । (८०।१)

svaraghno valayo vṛndo vidāryalasa eva ca |

80.2८०.२

गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ॥ (८०।२)

galauṣṭho māṃsatānaśca śataghnī rohiṇī ca yā ||

81.1८१.१

असाध्याः कीर्तिता ह्येते रोगा नव दशैव च । (८१।१)

asādhyāḥ kīrtitā hyete rogā nava daśaiva ca |

81.2८१.२

तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥ (८१।२)

teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 4, 22

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit