सुश्रुतसंहिताSuśrutasaṃhitā

Su, 2, 1

47 of 186 · 181 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो वातव्याधिनिदानं व्याख्यास्यामः ॥ (१।१)

athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम् । (३।१)

dhanvantariṃ dharmabhṛtāṃ variṣṭhamamṛtodbhavam |

3.2३.२

चरणावुपसंगृह्य सुश्रुतः परिपृच्छति ॥ (३।२)

caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati ||

4.1४.१

वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः । (४।१)

vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ |

4.2४.२

स्थानं कर्म च रोगांश् च वद मे वदतां वर ॥ (४।२)

sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara ||

5.1५.१

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः । (५।१)

tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ |

5.2५.२

फिल्।-रेल्। ग्रुन्द्लगेन् ड़्र् Wइन्द्स्वयंभूरेष भगवान् वायुरित्यभिशब्दितः ॥ (५।२)

phil.-rel. Grundlagen fr Windsvayaṃbhūreṣa bhagavān vāyurityabhiśabditaḥ ||

6.1६.१

स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च । (६।१)

svātantryānnityabhāvācca sarvagatvāttathaiva ca |

6.2६.२

सर्वेषाम् एव सर्वात्मा सर्वलोकनमस्कृतः ॥ (६।२)

sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ ||

7.1७.१

स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् । (७।१)

sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam |

7.2७.२

मेदिज़्। एइगेन्स्छड़्तेनव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ॥ (७।२)

mediz. Eigenschaftenavyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ ||

8.1८.१

तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च । (८।१)

tiryaggo dviguṇaścaiva rajobahula eva ca |

8.2८.२

अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ॥ (८।२)

acintyavīryo doṣāṇāṃ netā rogasamūharāṭ ||

9.1९.१

आशुकारी मुहुश्चारी पक्वाधानगुदालयः । (९।१)

āśukārī muhuścārī pakvādhānagudālayaḥ |

9.2९.२

देहे विचरतस्तस्य लक्षणानि निबोध मे ॥ (९।२)

dehe vicaratastasya lakṣaṇāni nibodha me ||

10.1१०.१

अल्ल्गेम्। Wइर्कुन्ग् इम् क्￶र्पेर्दोषधात्वग्निसमतां संप्राप्तिं विषयेषु च । (१०।१)

allgem. Wirkung im K￶rperdoṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca |

10.2१०.२

क्रियाणामानुलोम्यं च करोत्यकुपितो ऽनिलः ॥ (१०।२)

kriyāṇāmānulomyaṃ ca karotyakupito 'nilaḥ ||

11.1११.१

यथाग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः । (११।१)

yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ |

11.2११.२

भिन्नो ऽनिलस्तथा ह्येको नामस्थानक्रियामयैः ॥ (११।२)

bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ ||

12.1१२.१

५ उन्तेरर्तेन् वोन् Wइन्द्प्राणोदानौ समानश् च व्यानश्चापान एव च । (१२।१)

5 Unterarten von Windprāṇodānau samānaś ca vyānaścāpāna eva ca |

12.2१२.२

स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ॥ (१२।२)

sthānasthā mārutāḥ pañca yāpayanti śarīriṇam ||

13.1१३.१

१। प्राणयो वायुर्वक्त्रसंचारी स प्राणो नाम देहधृक् । (१३।१)

1. prāṇayo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk |

13.2१३.२

सो ऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ॥ (१३।२)

so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate ||

14.1१४.१

प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् । (१४।१)

prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān |

14.2१४.२

२। उदानौदानो नाम यस्तूर्ध्वम् उपैति पवनोत्तमः ॥ (१४।२)

2. udānaudāno nāma yastūrdhvam upaiti pavanottamaḥ ||

15.1१५.१

तेन भाषितगीतादिविशेषो ऽभिप्रवर्तते । (१५।१)

tena bhāṣitagītādiviśeṣo 'bhipravartate |

15.2१५.२

ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः ॥ (१५।२)

ūrdhvajatrugatān rogān karoti ca viśeṣataḥ ||

16.1१६.१

३। समानआमपक्वाशयचरः समानो वह्निसङ्गतः । (१६।१)

3. samānaāmapakvāśayacaraḥ samāno vahnisaṅgataḥ |

16.2१६.२

सो ऽन्नं पचति तज्जांश् च विशेषान्विविनक्ति हि ॥ (१६।२)

so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi ||

17.1१७.१

गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् । (१७।१)

gulmāgnisādātīsāraprabhṛtīn kurute gadān |

17.2१७.२

४। व्यानकृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ॥ (१७।२)

4. vyānakṛtsnadehacaro vyāno rasasaṃvahanodyataḥ ||

18.1१८.१

स्वेदासृक्स्रावणश् चापि पञ्चधा चेष्टयत्यपि । (१८।१)

svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi |

18.2१८.२

क्रुद्धश् च कुरुते रोगान् प्रायशः सर्वदेहगान् ॥ (१८।२)

kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān ||

19.1१९.१

५। अपानपक्वाधानालयो ऽपानः काले कर्षति चाप्यधः । (१९।१)

5. apānapakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ |

19.2१९.२

समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च ॥ (१९।२)

samīraṇaḥ śakṛnmūtraṃ śukragarbhārtavāni ca ||

20.1२०.१

क्रुद्धश् च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् । (२०।१)

kruddhaś ca kurute rogān ghorān bastigudāśrayān |

20.2२०.२

वेर्बिन्दुन्ग् मेह्रेरे प्राणस्शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ॥ (२०।२)

verbindung mehrere prāṇasśukradoṣapramehāstu vyānāpānaprakopajāḥ ||

21.1२१.१

युगपत् कुपिताश् चापि देहं भिन्द्युरसंशयम् । (२१।१)

yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam |

21.2२१.२

अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः ॥ (२१।२)

ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ ||

22.1२२.१

बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् । (२२।१)

bahuśaḥ kupito vāyurvikārān kurute hi yān |

22.2२२.२

क्रन्खेइतेन् नछ् क्रुद्ध-ओर्त् देस् Wइन्देस्: १। आमाशयवायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् ॥ (२२।२)

Krankheiten nach kruddha-Ort des Windes: 1. āmāśayavāyurāmāśaye kruddhaśchardyādīn kurute gadān ||

23.1२३.१

मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम् । (२३।१)

mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām |

23.2२३.२

२। पक्वाशयपक्वाशयस्थो ऽन्त्रकूजं शूलं नाभौ करोति च ॥ (२३।२)

2. pakvāśayapakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca ||

24.1२४.१

कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् । (२४।१)

kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām |

24.2२४.२

श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ॥ (२४।२)

śrotrādiṣvindriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ ||

25.1२५.१

वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम् । (२५।१)

vaivarṇyaṃ sphuraṇaṃ raukṣyaṃ suptiṃ cumucumāyanam |

25.2२५.२

त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ॥ (२५।२)

tvakstho nistodanaṃ kuryāt tvagbhedaṃ paripoṭanam ||

26.1२६.१

व्रणांश् च रक्तगो ग्रन्थीन् सशूलान् मांससंश्रितः । (२६।१)

vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ |

26.2२६.२

तथा मेदःश्रितः कुर्याद्ग्रन्थीन् मन्दरुजो ऽव्रणान् ॥ (२६।२)

tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān ||

27.1२७.१

कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् । (२७।१)

kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam |

27.2२७.२

स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा ॥ (२७।२)

snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā ||

28.1२८.१

हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च । (२८।१)

hanti sandhigataḥ sandhīn śūlaśophau karoti ca |

28.2२८.२

अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः ॥ (२८।२)

asthiśoṣaṃ prabhedaṃ ca kuryācchūlaṃ ca tacchritaḥ ||

29.1२९.१

तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति । (२९।१)

tathā majjagate ruk ca na kadācit praśāmyati |

29.2२९.२

अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगे ऽनिले ॥ (२९।२)

apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile ||

30.1३०.१

Wइन्द् दुर्छ्द्रिन्ग्त् गेसम्तेन् क्￶र्पेर्हस्तपादशिरोधातूंस्तथा संचरति क्रमात् । (३०।१)

Wind durchdringt gesamten K￶rperhastapādaśirodhātūṃstathā saṃcarati kramāt |

30.2३०.२

व्याप्नुयाद्वाखिलं देहं वायुः सर्वगतो नृणाम् ॥ (३०।२)

vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām ||

31.1३१.१

स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः । (३१।१)

stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ |

31.2३१.२

स्थानेषूक्तेषु संमिश्रः संमिश्राः कुरुते रुजः ॥ (३१।२)

sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ ||

32.1३२.१

कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान् । (३२।१)

kuryādavayavaprāpto mārutastvamitān gadān |

32.2३२.२

दाहसंतापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ॥ (३२।२)

dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite ||

33.1३३.१

शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते । (३३।१)

śaityaśophagurutvāni tasminneva kaphāvṛte |

33.2३३.२

सूचीभिर् इव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ॥ (३३।२)

sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā ||

34.1३४.१

शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते । (३४।१)

śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite |

34.2३४.२

प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ॥ (३४।२)

prāṇe pittāvṛte chardirdāhaścaivopajāyate ||

35.1३५.१

दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते । (३५।१)

daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte |

35.2३५.२

उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ॥ (३५।२)

udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ ||

36.1३६.१

अस्वेदहर्षौ मन्दो ऽग्निः शीतस्तम्भौ कफावृते । (३६।१)

asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte |

36.2३६.२

समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्छनम् ॥ (३६।२)

samāne pittasaṃyukte svedadāhauṣṇyamūrchanam ||

37.1३७.१

कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते । (३७।१)

kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte |

37.2३७.२

अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः ॥ (३७।२)

apāne pittasaṃyukte dāhauṣṇye syādasṛgdaraḥ ||

38.1३८.१

अधःकायगुरुत्वं च तस्मिन्नेव कफावृते । (३८।१)

adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte |

38.2३८.२

व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ॥ (३८।२)

vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ ||

39.1३९.१

गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम् । (३९।१)

gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām |

39.2३९.२

लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ॥ (३९।२)

liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca ||

40.1४०.१

प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । (४०।१)

prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām |

40.2४०.२

रोगाध्वप्रमदामद्यव्यायामैश् चातिपीडनात् ॥ (४०।२)

rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt ||

41.1४१.१

ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् । (४१।१)

ṛtusātmyaviparyāsāt snehādīnāṃ ca vibhramāt |

41.2४१.२

अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ॥ (४१।२)

avyavāye tathā sthūle vātaraktaṃ prakupyati ||

42.1४२.१

हस्त्यश्वोष्ट्रैर् गच्छतो ऽन्यैश् च वायुः कोपं यातः कारणैः सेवितैः स्वैः । (४२।१)

hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ |

42.2४२.२

तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः संतापाद्यैर् भूयसा सेवितैश् च ॥ (४२।२)

tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca ||

43.1४३.१

क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर् मार्गं संरुणद्ध्याशु यातः । (४३।१)

kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ |

43.2४३.२

क्रुद्धो ऽत्यर्थं मार्गरोधात् स वायुर् अत्युद्रिक्तं दूषयेद्रक्तमाशु ॥ (४३।२)

kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu ||

44.1४४.१

तत् संपृक्तं वायुना दूषितेन तत्प्राबल्याद् उच्यते वातरक्तम् । (४४।१)

tat saṃpṛktaṃ vāyunā dūṣitena tatprābalyād ucyate vātaraktam |

44.2४४.२

तद्वत् पित्तं दूषितेनासृजाक्तं श्लेष्मा दुष्टो दूषितेनासृजाक्तः ॥ (४४।२)

tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ ||

45.1४५.१

स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ । (४५।१)

sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau |

45.2४५.२

पित्तासृग्भ्याम् उग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ॥ (४५।२)

pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca ||

46.1४६.१

कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते । (४६।१)

kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte |

46.2४६.२

सर्वैर् दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर् दर्शयन्ति ॥ (४६।२)

sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti ||

47.1४७.१

प्राग्रूपप्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ । (४७।१)

prāgrūpaprāgrūpe śithilau svinnau śītalau saviparyayau |

47.2४७.२

वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितः ॥ (४७।२)

vaivarṇyatodasuptatvagurutvauṣasamanvitaḥ ||

48.1४८.१

पादयोर् मूलमास्थाय कदाचिद्धस्तयोर् अपि । (४८।१)

pādayor mūlamāsthāya kadāciddhastayor api |

48.2४८.२

आखोर्विषम् इव क्रुद्धं तद्देहमनुसर्पति ॥ (४८।२)

ākhorviṣam iva kruddhaṃ taddehamanusarpati ||

49.1४९.१

हेइलुन्ग्स्छन्चेनाजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् । (४९।१)

Heilungschancenājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat |

49.2४९.२

उपद्रवैश् च यज्जुष्टं प्राणमांसक्षयादिभिः ॥ (४९।२)

upadravaiś ca yajjuṣṭaṃ prāṇamāṃsakṣayādibhiḥ ||

50.1५०.१

शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् । (५०।१)

śoṇitaṃ tadasādhyaṃ syādyāpyaṃ saṃvatsarotthitam |

50.2५०.२

यदा तु धमनीः सर्वाः कुपितो ऽभ्येति मारुतः ॥ (५०।२)

yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ ||

51.1५१.१

तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः । (५१।१)

tadākṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ |

51.2५१.२

मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ॥ (५१।२)

muhurmuhustadākṣepādākṣepaka iti smṛtaḥ ||

52.1५२.१

अपतानकसो ऽपतानकसंज्ञो यः पातयत्यन्तरान्तरा । (५२।१)

apatānakaso 'patānakasaṃjño yaḥ pātayatyantarāntarā |

52.2५२.२

दण्डापतानककफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ॥ (५२।२)

daṇḍāpatānakakaphānvito bhṛśaṃ vāyustāsveva yadi tiṣṭhati ||

53.1५३.१

स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः । (५३।१)

sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ |

53.2५३.२

हनुग्रहहनुग्रहस्तदात्यर्थं कृच्छ्रान्निषेवते ॥ (५३।२)

hanugrahahanugrahastadātyarthaṃ kṛcchrānniṣevate ||

54.1५४.१

धनुःस्तम्भधनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः । (५४।१)

dhanuḥstambhadhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ |

54.2५४.२

अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ॥ (५४।२)

aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ ||

55.1५५.१

स्नायुप्रतानमनिलो यदाक्षिपति वेगवान् । (५५।१)

snāyupratānamanilo yadākṣipati vegavān |

55.2५५.२

विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ॥ (५५।२)

viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman ||

56.1५६.१

अभ्यन्तरं धनुर् इव यदा नमति मानवः । (५६।१)

abhyantaraṃ dhanur iva yadā namati mānavaḥ |

56.2५६.२

तदास्याभ्यन्तरायामं कुरुते मारुतो बली ॥ (५६।२)

tadāsyābhyantarāyāmaṃ kurute māruto balī ||

57.1५७.१

बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च । (५७।१)

bāhyasnāyupratānastho bāhyāyāmaṃ karoti ca |

57.2५७.२

तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ॥ (५७।२)

tamasādhyaṃ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam ||

58.1५८.१

कफपित्तान्वितो वायुर्वायुरेव च केवलः । (५८।१)

kaphapittānvito vāyurvāyureva ca kevalaḥ |

58.2५८.२

कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ॥ (५८।२)

kuryādākṣepakaṃ tvanyaṃ caturthamabhighātajam ||

59.1५९.१

गर्भपातनिमित्तश् च शोणितातिस्रवाच्च यः । (५९।१)

garbhapātanimittaś ca śoṇitātisravācca yaḥ |

59.2५९.२

अभिघातनिमित्तश् च न सिध्यत्यपतानकः ॥ (५९।२)

abhighātanimittaś ca na sidhyatyapatānakaḥ ||

60.1६०.१

पक्षघातअधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः । (६०।१)

pakṣaghātaadhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ |

60.2६०.२

यदा प्रकुपितो ऽत्यर्थं मातरिश्वा प्रपद्यते ॥ (६०।२)

yadā prakupito 'tyarthaṃ mātariśvā prapadyate ||

61.1६१.१

तदान्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन् । (६१।१)

tadānyatarapakṣasya sandhibandhān vimokṣayan |

61.2६१.२

हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ॥ (६१।२)

hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ ||

62.1६२.१

यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम् । (६२।१)

yasya kṛtsnaṃ śarīrārdhamakarmaṇyamacetanam |

62.2६२.२

ततः पतत्यसून् वापि त्यजत्यनिलपीडितः ॥ (६२।२)

tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ ||

63.1६३.१

शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः । (६३।१)

śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ |

63.2६३.२

साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ॥ (६३।२)

sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam ||

64.1६४.१

अपतन्त्रकवायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः । (६४।१)

apatantrakavāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ |

64.2६४.२

शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ॥ (६४।२)

śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ ||

65.1६५.१

निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वापि कूजति । (६५।१)

nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati |

65.2६५.२

निरुच्छ्वासो ऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ॥ (६५।२)

nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ ||

66.1६६.१

स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति । (६६।१)

svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati |

66.2६६.२

कफान्वितेन वातेन ज्ञेय एषो ऽपतन्त्रकः ॥ (६६।२)

kaphānvitena vātena jñeya eṣo 'patantrakaḥ ||

67.1६७.१

दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः । (६७।१)

divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ |

67.2६७.२

मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणावृतः ॥ (६७।२)

manyāstambhaṃ prakurute sa eva śleṣmaṇāvṛtaḥ ||

68.1६८.१

अर्दितगर्भिणीसूतिकाबालवृद्धक्षीणेष्व् असृक्क्षये । (६८।१)

arditagarbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye |

68.2६८.२

उच्चैर् व्याहरतो ऽत्यर्थं खादतः कठिनानि वा । (६८।२)

uccair vyāharato 'tyarthaṃ khādataḥ kaṭhināni vā |

68.3६८.३

हसतो जृम्भतो भाराद्विषमाच्छयनाद् अपि ॥ (६८।३)

hasato jṛmbhato bhārādviṣamācchayanād api ||

69.1६९.१

शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः । (६९।१)

śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ |

69.2६९.२

अर्दयित्वानिलो वक्त्रमर्दितं जनयत्यतः ॥ (६९।२)

ardayitvānilo vaktramarditaṃ janayatyataḥ ||

70.1७०.१

वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते । (७०।१)

vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate |

70.2७०.२

शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ॥ (७०।२)

śiraścalati vāksaṅgo netrādīnāṃ ca vaikṛtam ||

71.1७१.१

वोर्ज़ेइछेन् ड़्र् अर्दितग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना । (७१।१)

vorzeichen fr arditagrīvācibukadantānāṃ tasmin pārśve tu vedanā |

71.2७१.२

यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ॥ (७१।२)

yasyāgrajo romaharṣo vepathurnetramāvilam ||

72.1७२.१

वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः । (७२।१)

vāyurūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ |

72.2७२.२

तमर्दितमिति प्राहुर् व्याधिं व्याधिविशारदाः ॥ (७२।२)

tamarditamiti prāhur vyādhiṃ vyādhiviśāradāḥ ||

73.1७३.१

प्रोग्नोसे ड़्र् अर्दितक्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः । (७३।१)

Prognose fr arditakṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ |

73.2७३.२

न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ॥ (७३।२)

na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca ||

74.1७४.१

गृध्रसी: स्य्म्प्तोमेपार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा यानिलार्दिता । (७४।१)

gṛdhrasī: symptomepārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā |

74.2७४.२

सक्थ्नः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ॥ (७४।२)

sakthnaḥ kṣepaṃ nigṛhṇīyādgṛdhrasīti hi sā smṛtā ||

75.1७५.१

विश्वाचीतलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः । (७५।१)

viśvācītalapratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ |

75.2७५.२

बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ॥ (७५।२)

bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā ||

76.1७६.१

क्रोष्टुकशिरस्वातशोणितजः शोफो जानुमध्ये महारुजः । (७६।१)

kroṣṭukaśirasvātaśoṇitajaḥ śopho jānumadhye mahārujaḥ |

76.2७६.२

शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ॥ (७६।२)

śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat ||

77.1७७.१

ल्¦ह्मुन्ग् देर् बेइनेवायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा । (७७।१)

L¦hmung der Beinevāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā |

77.2७७.२

खञ्जस्तदा भवेज्जन्तुः पङ्गुः सक्थ्नोर् द्वयोर् वधात् ॥ (७७।२)

khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt ||

78.1७८.१

प्रक्रामन् वेपते यस्तु खञ्जन्न् इव च गच्छति । (७८।१)

prakrāman vepate yastu khañjann iva ca gacchati |

78.2७८.२

कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥ (७८।२)

kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam ||

79.1७९.१

न्यस्ते तु विषमं पादे रुजः कुर्यात् समीरणः । (७९।१)

nyaste tu viṣamaṃ pāde rujaḥ kuryāt samīraṇaḥ |

79.2७९.२

वातकण्टक इत्येष विज्ञेयः खडुकाश्रितः ॥ (७९।२)

vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ ||

80.1८०.१

पाददाहपादयोः कुरुते दाहं पित्तासृक्सहितो ऽनिलः । (८०।१)

pādadāhapādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ |

80.2८०.२

विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ॥ (८०।२)

viśeṣataścaṅkramaṇāt pādadāhaṃ tamādiśet ||

81.1८१.१

पादहर्षहृष्यतश्चरणौ यस्य भवतश् च प्रसुप्तवत् । (८१।१)

pādaharṣahṛṣyataścaraṇau yasya bhavataś ca prasuptavat |

81.2८१.२

पादहर्षः स विज्ञेयः कफवातप्रकोपजः ॥ (८१।२)

pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ ||

82.1८२.१

अवबाहुकअंसदेशस्थितो वायुः शोषयित्वांसबन्धनम् । (८२।१)

avabāhukaaṃsadeśasthito vāyuḥ śoṣayitvāṃsabandhanam |

82.2८२.२

सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ॥ (८२।२)

sirāścākuñcya tatrastho janayatyavabāhukam ||

83.1८३.१

बाधिर्ययदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति । (८३।१)

bādhiryayadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati |

83.2८३.२

शुद्धः श्लेष्मान्वितो वापि बाधिर्यं तेन जायते ॥ (८३।२)

śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate ||

84.1८४.१

कर्णशूलहनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः । (८४।१)

karṇaśūlahanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ |

84.2८४.२

कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ॥ (८४।२)

karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate ||

85.1८५.१

स्प्रछ्ड़ेह्लेरावृत्य सकफो वायुर्धमनीः शब्दवाहिनीः । (८५।१)

sprachfehlerāvṛtya sakapho vāyurdhamanīḥ śabdavāhinīḥ |

85.2८५.२

नरान् करोत्यक्रियकान् मूकमिन्मिणगद्गदान् ॥ (८५।२)

narān karotyakriyakān mūkaminmiṇagadgadān ||

86.1८६.१

तूणीअधो या वेदना याति वर्चोमूत्राशयोत्थिता । (८६।१)

tūṇīadho yā vedanā yāti varcomūtrāśayotthitā |

86.2८६.२

भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ॥ (८६।२)

bhindatīva gudopasthaṃ sā tūnītyabhidhīyate ||

87.1८७.१

प्रतितूणीगुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी । (८७।१)

pratitūṇīgudopasthotthitā saiva pratilomavisarpiṇī |

87.2८७.२

वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ॥ (८७।२)

vegaiḥ pakvāśayaṃ yāti pratitūnīti sā smṛtā ||

88.1८८.१

आध्मानआटोपमत्युग्ररुजम् आध्मातमुदरं भृशम् । (८८।१)

ādhmānaāṭopamatyugrarujam ādhmātamudaraṃ bhṛśam |

88.2८८.२

आध्मानमिति जानीयाद्घोरं वातनिरोधजम् ॥ (८८।२)

ādhmānamiti jānīyādghoraṃ vātanirodhajam ||

89.1८९.१

प्रत्याध्मानविमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् । (८९।१)

pratyādhmānavimuktapārśvahṛdayaṃ tadevāmāśayotthitam |

89.2८९.२

प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ॥ (८९।२)

pratyādhmānaṃ vijānīyāt kaphavyākulitānilam ||

90.1९०.१

वाताष्ठीलाअष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम् । (९०।१)

vātāṣṭhīlāaṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam |

90.2९०.२

वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ॥ (९०।२)

vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm ||

91.1९१.१

प्रत्यष्ठीलाएनाम् एव रुजायुक्तां वातविण्मूत्ररोधिनीम् । (९१।१)

pratyaṣṭhīlāenām eva rujāyuktāṃ vātaviṇmūtrarodhinīm |

91.2९१.२

प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ॥ (९१।२)

pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 2, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit