सुश्रुतसंहिताSuśrutasaṃhitā

Su, 3, 2

64 of 186 · 117 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः शुक्रशोणितशुद्धिं शारीरं व्याख्यास्यामः ॥ (१।१)

athātaḥ śukraśoṇitaśuddhiṃ śārīraṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

त्य्पेन् वोन् ज़ेउगुन्ग्सुन्ड़्¦हिग्केइत्वातपित्तश्लेष्मशोणितकुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषरेतसः प्रजोत्पादने न समर्था भवन्ति ॥ (३।१)

Typen von Zeugungsunf¦higkeitvātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti ||

4.1४.१

बेइम् मन्न्तेषु वातवर्णवेदनं वातेन पित्तवर्णवेदनं पित्तेन श्लेष्मवर्णवेदनं श्लेष्मणा शोणितवर्णवेदनं कुणपगन्ध्यनल्पं च रक्तेन ग्रन्थिभूतं श्लेष्मवाताभ्यां पूतिपूयनिभं पित्तश्लेष्मभ्यां क्षीणं प्रागुक्तं पित्तमारुताभ्यां मूत्रपुरीषगन्धि सन्निपातेनेति । (४।१)

beim mannteṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti |

4.2४.२

तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्या मूत्रपुरीषरेतसस्त्वसाध्याः इति ॥ (४।२)

teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti ||

5.1५.१

बेइ देर् ड़्रौआर्तवम् अपि त्रिभिर् दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति तद् अपि दोषवर्णवेदनादिभिर् विज्ञेयम् । (५।१)

bei der Frauārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam |

5.2५.२

तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशम् असाध्यं साध्यम् अन्यच्चेति ॥ (५।२)

teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti ||

6.1६.१

भवन्ति चात्र । (६।१)

bhavanti cātra |

6.2६.२

बेहन्द्लुन्ग्तेष्वाद्यान् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर् जयेत् । (६।२)

Behandlungteṣvādyān śukradoṣāṃstrīn snehasvedādibhir jayet |

6.3६.३

क्रियाविशेषैर् मतिमांस्तथा चोत्तरवस्तिभिः ॥ (६।३)

kriyāviśeṣair matimāṃstathā cottaravastibhiḥ ||

7.1७.१

पाययेत नरं सर्पिर्भिषक् कुणपरेतसि । (७।१)

pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi |

7.2७.२

धातकीपुष्पखदिरदाडिमार्जुनसाधितम् ॥ (७।२)

dhātakīpuṣpakhadiradāḍimārjunasādhitam ||

8.1८.१

पाययेद् अथवा सर्पिः शालसारादिसाधितम् । (८।१)

pāyayed athavā sarpiḥ śālasārādisādhitam |

8.2८.२

ग्रन्थिभूते शटीसिद्धं पालाशे वापि भस्मनि ॥ (८।२)

granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani ||

9.1९.१

परूषकवटादिभ्यां पूयप्रख्ये च साधितम् । (९।१)

parūṣakavaṭādibhyāṃ pūyaprakhye ca sādhitam |

9.2९.२

प्रागुक्तं वक्ष्यते यच् च तत् कार्यं क्षीणरेतसि ॥ (९।२)

prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi ||

10.1१०.१

विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः । (१०।१)

viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ |

10.2१०.२

स्निग्धं वान्तं विरिक्तं च निरूढम् अनुवासितम् ॥ (१०।२)

snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam ||

11.1११.१

योजयेच्छुक्रदोषार्तं सम्यगुत्तरवस्तिना । (११।१)

yojayecchukradoṣārtaṃ samyaguttaravastinā |

11.2११.२

गुतेर् समेन्स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ॥ (११।२)

guter samensphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca ||

12.1१२.१

शुक्रमिच्छन्ति केचित् तु तैलक्षौद्रनिभं तथा । (१२।१)

śukramicchanti kecit tu tailakṣaudranibhaṃ tathā |

12.2१२.२

रेइनिगुन्ग् वोन् आर्तवविधिमुत्तरवस्त्यन्तं कुर्यादार्तवशुद्धये ॥ (१२।२)

Reinigung von ārtavavidhimuttaravastyantaṃ kuryādārtavaśuddhaye ||

13.1१३.१

स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु । (१३।१)

strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu |

13.2१३.२

कुर्यात्कल्कान् पिचूंश् चापि पथ्यान्याचमनानि च ॥ (१३।२)

kuryātkalkān picūṃś cāpi pathyānyācamanāni ca ||

14.1१४.१

ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च । (१४।१)

granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca |

14.2१४.२

दुर्गन्धिपूयसंकाशे मज्जतुल्ये तथार्तवे ॥ (१४।२)

durgandhipūyasaṃkāśe majjatulye tathārtave ||

15.1१५.१

पिबेद्भद्रश्रियः क्वाथं चन्दनक्वाथम् एव च । (१५।१)

pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca |

15.2१५.२

शुक्रदोषहराणां च यथास्वमवचारणम् ॥ (१५।२)

śukradoṣaharāṇāṃ ca yathāsvamavacāraṇam ||

16.1१६.१

योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु । (१६।१)

yogānāṃ śuddhikaraṇaṃ śeṣāsvapyārtavārtiṣu |

16.2१६.२

अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् ॥ (१६।२)

annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam ||

17.1१७.१

गुतेस् मेन्स्त्रुअल्ब्लुत्शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम् । (१७।१)

gutes menstrualblutśaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam |

17.2१७.२

तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ॥ (१७।२)

tadārtavaṃ praśaṃsanti yadvāso na virañjayet ||

18.1१८.१

असृग्दरतदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि । (१८।१)

asṛgdaratadevātiprasaṅgena pravṛttamanṛtāvapi |

18.2१८.२

असृग्दरं विजानीयादतो ऽन्यद्रक्तलक्षणात् ॥ (१८।२)

asṛgdaraṃ vijānīyādato 'nyadraktalakṣaṇāt ||

19.1१९.१

असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः । (१९।१)

asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ |

19.2१९.२

तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा ॥ (१९।२)

tasyātivṛttau daurbalyaṃ bhramo mūrcchā tamastṛṣā ||

20.1२०.१

दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश् च वातजाः । (२०।१)

dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ |

20.2२०.२

तरुण्या हितसेविन्यास् तम् अल्पोपद्रवं भिषक् ॥ (२०।२)

taruṇyā hitasevinyās tam alpopadravaṃ bhiṣak ||

21.1२१.१

गेरिन्गे मेन्गे वोन् मेन्स्त्रुअल्ब्लुत्रक्तपित्तविधानेन यथावत् समुपाचरेत् । (२१।१)

geringe menge von menstrualblutraktapittavidhānena yathāvat samupācaret |

21.2२१.२

दोषैर् आवृतमार्गत्वादार्तवं नश्यति स्त्रियाः ॥ (२१।२)

doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ ||

22.1२२.१

तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः । (२२।१)

tatra matsyakulatthāmlatilamāṣasurā hitāḥ |

22.2२२.२

पाने मूत्रमुदश्विच् च दधि शुक्तं च भोजने ॥ (२२।२)

pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane ||

23.1२३.१

क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् । (२३।१)

kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam |

23.2२३.२

तथाप्यत्र विधातव्यं विधानं नष्टरक्तवत् ॥ (२३।२)

tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat ||

24.1२४.१

एवमदुष्टशुक्रः शुद्धार्तवा च ॥ (२४।१)

evamaduṣṭaśukraḥ śuddhārtavā ca ||

25.1२५.१

वोर्स्छ्रिड़्तेन् ड़्र् वेर्हल्तेन् इन् ऋतुऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखछेदनप्रधावनहसनकथनातिशब्दश्रवणावलेखनानिलायासान् परिहरेत् । (२५।१)

vorschriften fr verhalten in ṛtuṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet |

25.2२५.२

किं कारणं दिवा स्वपन्त्याः स्वापशीलः अञ्जनादन्धः रोदनाद् विकृतदृष्टिः स्नानानुलेपनाद्दुःखशीलस् तैलाभ्यङ्गात् कुष्ठी नखापकर्तनात् कुनखी प्रधावनाच्चञ्चलो हसनाच्छ्यावदन्तौष्ठतालुजिह्वः प्रलापी चातिकथनात् अतिशब्दश्रवणाद्बधिरः अवलेखनात् खलतिः मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् । (२५।२)

kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet |

25.3२५.३

दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हविष्यं त्र्यहं च भर्तुः संरक्षेत् । (२५।३)

darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet |

25.4२५.४

ततः शुद्धस्नातां चतुर्थे ऽहन्यहतवासःसमलंकृतां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत् । (२५।४)

tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet |

25.5२५.५

तत् कस्य हेतोः ॥ (२५।५)

tat kasya hetoḥ ||

26.1२६.१

पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना । (२६।१)

pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā |

26.2२६.२

तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः ॥ (२६।२)

tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ ||

27.1२७.१

ततो विधानं पुत्रीयम् उपाध्यायः समाचरेत् । (२७।१)

tato vidhānaṃ putrīyam upādhyāyaḥ samācaret |

27.2२७.२

कर्मान्ते च क्रमं ह्य् एनमारभेत विचक्षणः ॥ (२७।२)

karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ ||

28.1२८.१

ततो ऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामादिभिर् अभिविश्वास्य विकल्प्यैवं चतुर्थ्यां षष्ठ्याम् अष्टम्यां दशम्यां द्वादश्यां चोपेयादिति पुत्रकामः ॥ (२८।१)

tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ ||

29.1२९.१

एषूत्तरोत्तरं विद्यादायुरारोग्यम् एव च । (२९।१)

eṣūttarottaraṃ vidyādāyurārogyam eva ca |

29.2२९.२

प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै ॥ (२९।२)

prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai ||

30.0३०.०

अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामस् त्रयोदशीप्रभृतयो निन्द्याः ॥ (३०।०)

ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ ||

31.1३१.१

रिछ्तिगे ज़ेइत् ड़्र् ग्व्तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनम् अनायुष्यं पुंसां भवति यश् च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते द्वितीये ऽप्येवं सूतिकागृहे वा तृतीये ऽप्येवमसंपूर्णाङ्गो ऽल्पायुर्वा भवति चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति । (३१।१)

richtige Zeit fr Gvtatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati |

31.2३१.२

न च प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्वं गच्छति तद्वदेव द्रष्टव्यम् । (३१।२)

na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam |

31.3३१.३

तस्मान्नियमवतीं त्रिरात्रं परिहरेत् । (३१।३)

tasmānniyamavatīṃ trirātraṃ pariharet |

31.4३१.४

अतः परं मासादुपेयात् ॥ (३१।४)

ataḥ paraṃ māsādupeyāt ||

32.1३२.१

रितेन् ड़्र् गेबुर्त् एइनेस् सोह्न्स्लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्गसहदेवाविश्वदेवानाम् अन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरो वा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै न च तान्निष्ठीवेत् ॥ (३२।१)

Riten fr Geburt eines sohnslabdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet ||

33.1३३.१

४ ड़क्तोरेन् ड़्र् गुतेन् सोह्न्ध्रुवं चतुर्णां सांनिध्याद्गर्भः स्याद्विधिपूर्वकः । (३३।१)

4 Faktoren fr guten sohndhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ |

33.2३३.२

ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा ॥ (३३।२)

ṛtukṣetrāmbubījānāṃ sāmagryādaṅkuro yathā ||

34.1३४.१

एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः । (३४।१)

evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ |

34.2३४.२

भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः ॥ (३४।२)

bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ ||

35.1३५.१

ड़्¦र्बुन्ग् देस् ड़्￶तुस्तत्र तेजोधातुः सर्ववर्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाशधातुप्रायः कृष्णश्यामं तोयाकाशधातुप्रायो गौरश्यामम् । (३५।१)

F¦rbung des F￶tustatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam |

35.2३५.२

मिन्देर्हेइत्स्मेइनुन्ग्: ड़्¦र्बुन्ग् औस् नह्रुन्ग्यादृग्वर्णमाहारम् उपसेवते गर्भिणी तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते । (३५।२)

minderheitsmeinung: F¦rbung aus Nahrungyādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante |

35.3३५.३

तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षम् इति ॥ (३५।३)

tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti ||

36.1३६.१

भवन्ति चात्र । (३६।१)

bhavanti cātra |

36.2३६.२

ज़्wइल्लिन्गेघृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते । (३६।२)

Zwillingeghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate |

36.3३६.३

विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे ॥ (३६।३)

visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame ||

37.1३७.१

बीजे ऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । (३७।१)

bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau |

37.2३७.२

यमावित्यभिधीयेते धर्मेतरपुरःसरौ ॥ (३७।२)

yamāvityabhidhīyete dharmetarapuraḥsarau ||

38.1३८.१

होमोसेxउएल्लेर् सोह्न्पित्रोर् अत्यल्पबीजत्वाद् आसेक्यः पुरुषो भवेत् । (३८।१)

homosexueller sohnpitror atyalpabījatvād āsekyaḥ puruṣo bhavet |

38.2३८.२

स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ॥ (३८।२)

sa śukraṃ prāśya labhate dhvajocchrāyamasaṃśayam ||

39.1३९.१

सौगन्धिकयः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः । (३९।१)

saugandhikayaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ |

39.2३९.२

स योनिशेफसोर् गन्धमाघ्राय लभते बलम् ॥ (३९।२)

sa yoniśephasor gandhamāghrāya labhate balam ||

40.1४०.१

कुम्भीकस्वे गुदे ऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते । (४०।१)

kumbhīkasve gude 'brahmacaryādyaḥ strīṣu puṃvat pravartate |

40.2४०.२

कुम्भीकः स च विज्ञेय ईर्ष्यकं शृणु चापरम् ॥ (४०।२)

kumbhīkaḥ sa ca vijñeya īrṣyakaṃ śṛṇu cāparam ||

41.1४१.१

ईर्ष्यकदृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते । (४१।१)

īrṣyakadṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate |

41.2४१.२

ईर्ष्यकः स च विज्ञेयः षण्ढकं शृणु पञ्चमम् ॥ (४१।२)

īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamam ||

42.1४२.१

षण्ढयो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते । (४२।१)

ṣaṇḍhayo bhāryāyāmṛtau mohādaṅganeva pravartate |

42.2४२.२

ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः ॥ (४२।२)

tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ ||

43.1४३.१

ऋतौ पुरुषवद् वापि प्रवर्तेताङ्गना यदि । (४३।१)

ṛtau puruṣavad vāpi pravartetāṅganā yadi |

43.2४३.२

तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ॥ (४३।२)

tatra kanyā yadi bhavet sā bhavennaraceṣṭitā ||

44.1४४.१

आसेक्यश् च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा । (४४।१)

āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā |

44.2४४.२

सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसंज्ञितः ॥ (४४।२)

saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ ||

45.1४५.१

अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः । (४५।१)

anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ |

45.2४५.२

हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् ॥ (४५।२)

harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet ||

46.1४६.१

आहाराचारचेष्टाभिर् यादृशीभिः समन्वितः । (४६।१)

āhārācāraceṣṭābhir yādṛśībhiḥ samanvitaḥ |

46.2४६.२

स्त्रीपुंसौ समुपेयातां तयोः पुत्रो ऽपि तादृशः ॥ (४६।२)

strīpuṃsau samupeyātāṃ tayoḥ putro 'pi tādṛśaḥ ||

47.1४७.१

किन्द् बेइ लेस्बिस्छेम् सेxयदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन । (४७।१)

Kind bei lesbischem sexyadā nāryāvupeyātāṃ vṛṣasyantyau kathaṃcana |

47.2४७.२

मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ॥ (४७।२)

muñcantyau śukramanyonyamanasthistatra jāyate ||

48.1४८.१

ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् । (४८।१)

ṛtusnātā tu yā nārī svapne maithunamāvahet |

48.2४८.२

आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥ (४८।२)

ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi ||

49.1४९.१

मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् । (४९।१)

māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam |

49.2४९.२

कललं जायते तस्या वर्जितं पैतृकैर् गुणैः ॥ (४९।२)

kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ ||

50.1५०.१

सर्पवृश्चिककूष्माण्डविकृताकृतयश् च ये । (५०।१)

sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye |

50.2५०.२

गर्भास्त्वेते स्त्रियाश् चैव ज्ञेयाः पापकृता भृशम् ॥ (५०।२)

garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam ||

51.1५१.१

गर्भो वातप्रकोपेण दौहृदे वावमानिते । (५१।१)

garbho vātaprakopeṇa dauhṛde vāvamānite |

51.2५१.२

भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव वा ॥ (५१।२)

bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā ||

52.1५२.१

मातापित्रोस्तु नास्तिक्यादशुभैश् च पुराकृतैः । (५२।१)

mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ |

52.2५२.२

वातादीनां च कोपेन गर्भो वैकृतमाप्नुयात् ॥ (५२।२)

vātādīnāṃ ca kopena garbho vaikṛtamāpnuyāt ||

53.1५३.१

मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च । (५३।१)

malālpatvādayogācca vāyoḥ pakvāśayasya ca |

53.2५३.२

वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ॥ (५३।२)

vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi ||

54.1५४.१

जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते । (५४।१)

jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite |

54.2५४.२

वायोर् मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ (५४।२)

vāyor mārganirodhācca na garbhasthaḥ praroditi ||

55.1५५.१

निःश्वासोच्छ्वाससंक्षोभस्वप्नान् गर्भो ऽधिगच्छति । (५५।१)

niḥśvāsocchvāsasaṃkṣobhasvapnān garbho 'dhigacchati |

55.2५५.२

मातुर् निश्वसितोच्छ्वाससंक्षोभस्वप्नसंभवान् ॥ (५५।२)

mātur niśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān ||

56.1५६.१

संनिवेशः शरीराणां दन्तानां पतनोद्भवः । (५६।१)

saṃniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavaḥ |

56.2५६.२

तलेष्वसंभवो यश् च रोम्णामेतत् स्वभावतः ॥ (५६।२)

taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ ||

57.1५७.१

भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः । (५७।१)

bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ |

57.2५७.२

भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः ॥ (५७।२)

bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ ||

58.1५८.१

कर्मणा चोदितो येन तदाप्नोति पुनर्भवे । (५८।१)

karmaṇā codito yena tadāpnoti punarbhave |

58.2५८.२

अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ॥ (५८।२)

abhyastāḥ pūrvadehe ye tāneva bhajate guṇān ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 3, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit