Su, 4, 19
Select a line for its word-by-word analysis.
अथातो वृद्ध्युपदंशश्लीपदचिकित्सितं व्याख्यास्यामः ॥ (१।०)
athāto vṛddhyupadaṃśaślīpadacikitsitaṃ vyākhyāsyāmaḥ ||
अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत् । (३।१)
antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet |
वातवृद्धितत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ॥ (४।२)
vātavṛddhitatrādito vātavṛddhau traivṛtasnigdhamāturam ||
स्विन्नं चैनं यथान्यायं पाययेत विरेचनम् । (५।१)
svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam |
ततः काले ऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् ॥ (६।२)
tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān ||
स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान् । (८।१)
snehopanāhau kuryācca pradehāṃścānilāpahān |
विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत् ॥ (८।२)
vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet ||
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत् । (९।१)
bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret |
पित्तवृद्धिपित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ॥ (९।२)
pittavṛddhipittajāyāmapakvāyāṃ pittagranthikramo hitaḥ ||
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा । (१०।१)
pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā |
शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् ॥ (१०।२)
śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam ||
रक्तवृद्धिरक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक् । (११।१)
raktavṛddhiraktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak |
पिबेद्विरेचनं वापि शर्कराक्षौद्रसंयुतम् ॥ (११।२)
pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam ||
पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा । (१२।१)
pittagranthikramaṃ kuryādāme pakve ca sarvadā |
कफवृद्धिवृद्धिं कफात्मिकामुष्णैर् मूत्रपिष्टैः प्रलेपयेत् ॥ (१२।२)
kaphavṛddhivṛddhiṃ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet ||
विम्लापनादृते वापि श्लेष्मग्रन्थिक्रमो हितः ॥ (१३।२)
vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ ||
पक्वायां च विभिन्नायां तैलं शोधनमिष्यते । (१४।१)
pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate |
मेदोवृद्धिमेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना । (१५।१)
medovṛddhimedaḥsamutthāṃ saṃsvedya lepayet surasādinā |
शिरोविरेकद्रव्यैर् वा सुखोष्णैर् मूत्रसंयुतैः ॥ (१५।२)
śirovirekadravyair vā sukhoṣṇair mūtrasaṃyutaiḥ ||
स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् । (१६।१)
svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam |
रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत् ॥ (१६।२)
rakṣan phale sevanīṃ ca vṛddhipatreṇa dārayet ||
मेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे । (१७।१)
medastataḥ samuddhṛtya dadyāt kāsīsasaindhave |
बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् ॥ (१७।२)
badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet ||
मूत्रवृद्धिमूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् ॥ (१८।२)
mūtravṛddhimūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet ||
सेवन्याः पार्श्वतो ऽधस्ताद्विध्येद् व्रीहिमुखेन तु । (१९।१)
sevanyāḥ pārśvato 'dhastādvidhyed vrīhimukhena tu |
अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् ॥ (१९।२)
athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak ||
मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत् । (२०।१)
mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret |
अन्त्रवृद्धिशुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् ॥ (२०।२)
antravṛddhiśuddhāyāṃ ropaṇaṃ dadyādvarjayedantrahaitukīm ||
तत्र या वङ्क्षणस्था तां दहेद् अर्धेन्दुवक्त्रया ॥ (२१।२)
tatra yā vaṅkṣaṇasthā tāṃ dahed ardhenduvaktrayā ||
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत् । (२२।१)
samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet |
त्वचं भित्त्वाङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात् ॥ (२२।२)
tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt ||
प्रदहेत् प्रयतः किंतु स्नायुच्छेदो ऽधिकस्तयोः ॥ (२३।२)
pradahet prayataḥ kiṃtu snāyucchedo 'dhikastayoḥ ||
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् । (२४।१)
śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm |
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये ॥ (२४।२)
vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye ||
उपदंशौपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः । (२५।१)
upadaṃśaupadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ |
सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः ॥ (२५।२)
sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ ||
यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् । (२७।१)
yadi vā durbalo janturna vā prāptaṃ virecanam |
निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् ॥ (२७।२)
nirūheṇa harettasya doṣānatyarthamucchritān ||
प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः । (२८।१)
prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ |
एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत् ॥ (२९।२)
etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet ||
प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते । (३०।१)
prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate |
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत् । (३१।१)
sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet |
सर्पिः स्निग्धैः समधुकैः पैत्तिकं संप्रलेपयेत् । (३२।१)
sarpiḥ snigdhaiḥ samadhukaiḥ paittikaṃ saṃpralepayet |
कफजोपदंशसालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ॥ (३३।२)
kaphajopadaṃśasālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam ||
सुरापिष्टाभिर् उष्णाभिः सतैलाभिः प्रलेपयेत् । (३४।१)
surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet |
सपत्त्रपाठापत्तूरैर् अथवा संप्रलेपयेत् । (३५।१)
sapattrapāṭhāpattūrair athavā saṃpralepayet |
सुरसारग्वधाद्योश्च क्वाथाभ्यां परिषेचयेत् ॥ (३५।२)
surasāragvadhādyośca kvāthābhyāṃ pariṣecayet ||
प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर् हितैर् अपि ॥ (३६।२)
pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api ||
विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः ॥ (३७।२)
vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ ||
तदापोह्य तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत् ॥ (३८।२)
tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet ||
प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोर् अपि ॥ (३९।२)
prakṣālane prayojyāni vaijayantyarkayor api ||
सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम् । (४०।१)
saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam |
रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम् ॥ (४०।२)
rodhraṃ rasāñjanaṃ dārvīṃ haritālaṃ manaḥśilām ||
हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत् । (४१।१)
hareṇukaile ca tathā sūkṣmacūrṇāni kārayet |
तच्चूर्णं क्षौद्रसंयुक्तम् उपदंशेषु पूजितम् ॥ (४१।२)
taccūrṇaṃ kṣaudrasaṃyuktam upadaṃśeṣu pūjitam ||
क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह । (४३।१)
kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha |
तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ॥ (४३।२)
tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak ||
अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत् । (४४।१)
asminneva kaṣāye tu tailaṃ dhīro vipācayet |
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ॥ (४४।२)
gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyutam ||
स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ॥ (४५।२)
svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam ||
गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ॥ (४६।२)
gundrāṃ dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā ||
मार्कवस्त्रिफला दन्ती ताम्रचूर्णम् अयोरजः ॥ (४७।२)
mārkavastriphalā dantī tāmracūrṇam ayorajaḥ ||
उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा । (४८।१)
upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā |
उपदंशद्वये ऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ॥ (४८।२)
upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām ||
तयोर् एव च या योग्या वीक्ष्य दोषबलाबलम् । (४९।१)
tayor eva ca yā yogyā vīkṣya doṣabalābalam |
दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत् । (५०।१)
duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet |
जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ॥ (५०।२)
jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak ||
सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत् । (५१।१)
samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet |
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ॥ (५१।२)
śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat ||
स्नेहस्वेदोपपन्ने तु श्लीपदे ऽनिलजे भिषक् । (५२।१)
snehasvedopapanne tu ślīpade 'nilaje bhiṣak |
कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ॥ (५२।२)
kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule ||
मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ॥ (५३।२)
māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam ||
त्रैवृतं चोपयुञ्जीत शस्तो दाहस्तथाग्निना ॥ (५४।२)
traivṛtaṃ copayuñjīta śasto dāhastathāgninā ||
गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसंभवे । (५५।१)
gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave |
पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ॥ (५५।२)
pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat ||
सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक् । (५६।१)
sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak |
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ॥ (५६।२)
madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ ||
कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ॥ (५७।२)
kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam ||
हितं वा लेपने नित्यं भद्रदारु सचित्रकम् । (५८।१)
hitaṃ vā lepane nityaṃ bhadradāru sacitrakam |
तैलं पक्वं पिबेद्वापि यवान्नं च हितं सदा ॥ (५९।२)
tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā ||
पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये । (६०।१)
pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye |
प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् ॥ (६१।२)
prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit ||
रसं दत्त्वाथ पूर्वोक्तं पेयमेतद्भिषग्जितम् ॥ (६२।२)
rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam ||
कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा ॥ (६३।२)
kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā ||
दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत् । (६४।१)
dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat |
तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ॥ (६४।२)
tatra dadyāt pratīvāpaṃ kākodumbarikārasam ||
मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा । (६५।१)
madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā |
एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ॥ (६५।२)
eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ ||
भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ॥ (६६।२)
bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca ||
एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम् । (६७।१)
eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam |
एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम् ॥ (६७।२)
etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām ||
द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च । (६८।१)
dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca |
सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ॥ (६८।२)
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet ||
दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः । (६९।१)
dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ |
अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः ॥ (६९।२)
adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.