Su, 6, 5
Select a line for its word-by-word analysis.
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ॥ (१।१)
athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
यत् सव्रणं शुक्लमथाव्रणं वा पाकात्ययश्चाप्यजका तथैव । (३।१)
yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva |
चत्वार एते ऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात् ॥ (३।२)
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt ||
निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै । (४।१)
nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai |
स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्रमुदाहरन्ति ॥ (४।२)
srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti ||
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि । (५।१)
dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi |
अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ॥ (५।२)
avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva ||
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च । (६।१)
vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca |
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ॥ (६।२)
dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam ||
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम् । (७।१)
uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram |
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ॥ (७।२)
tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam ||
सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम् । (८।१)
sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam |
विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ॥ (८।२)
vihāyasīvācchaghanānukāri tadavraṇaṃ sādhyatamaṃ vadanti ||
गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम् । (९।१)
gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram |
संछाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ॥ (९।२)
saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu ||
तम् अक्षिपाकात्ययम् अक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति । (१०।१)
tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti |
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः । (१०।२)
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ |
विदार्य कृष्णं प्रचयो ऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ॥ (१०।३)
vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātamiti vyavasyet ||
Data courtesy of The Digital Corpus of Sanskrit.