Su, 6, 49
Select a line for its word-by-word analysis.
अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः ॥ (१।१)
athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ ||
अतिद्रवैर् अतिस्निग्धैर् अहृद्यैर् लवणैरति । (३।१)
atidravair atisnigdhair ahṛdyair lavaṇairati |
अकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः ॥ (३।२)
akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ ||
श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः । (४।१)
śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ |
नार्याश्चापन्नसत्त्वायास् तथातिद्रुतम् अश्नतः ॥ (४।२)
nāryāścāpannasattvāyās tathātidrutam aśnataḥ ||
अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम् । (५।१)
atyantāmaparītasya chardervai saṃbhavo dhruvam |
बीभत्सैर् हेतुभिश्चान्यैर् द्रुतमुत्क्लेशितो बलात् ॥ (५।२)
bībhatsair hetubhiścānyair drutamutkleśito balāt ||
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ॥ (६।२)
nirucyate chardiriti doṣo vaktrādviniścaran ||
पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत् ॥ (८।२)
pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet ||
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितो ऽभ्यर्दितपार्श्वपृष्ठः । (९।१)
pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ |
श्रान्तः सघोषं बहुशः कषायं जीर्णे ऽधिकं सानिलजा वमिस्तु ॥ (९।२)
śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu ||
यो ऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा । (१०।१)
yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā |
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा ॥ (१०।२)
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā ||
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम् । (११।१)
yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham |
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ॥ (११।२)
abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt ||
सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु । (१२।१)
sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu |
बीभत्सजा दौहृदजामजा च सात्म्यप्रकोपात् कृमिजा च या हि । (१२।२)
bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi |
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ ॥ (१२।३)
sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau ||
क्षीणस्योपद्रवैर् युक्तां सासृक्पूयां सचन्द्रिकाम् । (१४।१)
kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām |
छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम् ॥ (१४।२)
chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum ||
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनम् एव तासु ॥ (१५।१)
āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu ||
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् ॥ (१६।२)
virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak ||
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् ॥ (१७।२)
laghūni pariśuṣkāṇi sātmyānyannāni cācaret ||
यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत् । (१८।१)
yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet |
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम् ॥ (१८।२)
hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām ||
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम् । (१९।१)
sasaindhavaṃ pibet sarpirvātacchardinivāraṇam |
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् ॥ (१९।३)
yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet ||
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् । (२०।१)
pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam |
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् ॥ (२१।२)
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm ||
शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः । (२२।१)
śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ |
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकम् एव च ॥ (२२।२)
balavatyāṃ praśaṃsanti sarpistailvakam eva ca ||
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः ॥ (२३।२)
pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ ||
कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम् । (२४।१)
kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam |
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् ॥ (२४।२)
tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samanvitam ||
बीभत्सजां हृद्यतमैर् दौहृदीं काङ्क्षितैः फलैः । (२५।१)
bībhatsajāṃ hṛdyatamair dauhṛdīṃ kāṅkṣitaiḥ phalaiḥ |
लङ्घनैर् वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् ॥ (२५।२)
laṅghanair vamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām ||
दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम् । (२७।१)
dadhittharasasaṃsaktāṃ pippalīṃ mākṣikānvitām |
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते ॥ (२७।२)
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate ||
तर्पणं वा मधुयुतं तिसृणाम् अपि भेषजम् ॥ (२८।२)
tarpaṇaṃ vā madhuyutaṃ tisṛṇām api bheṣajam ||
स्वयंगुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम् । (२९।१)
svayaṃguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām |
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः ॥ (२९।२)
pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ ||
युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्यो ऽथवा हिताः । (३०।१)
yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ |
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा ॥ (३०।२)
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā ||
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत् । (३१।१)
sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt |
पिबेत् पयो ऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ॥ (३१।२)
pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām ||
सर्पिः क्षौद्रयुतान् वापि लाजशक्तून् पिबेत्तथा । (३२।१)
sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā |
सर्पिः क्षौद्रसितोपेतां मागधीं वा लिहेत्तथा ॥ (३२।२)
sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā ||
धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना । (३३।१)
dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā |
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ॥ (३३।२)
kolāmalakamajjānaṃ lihyādvā trisugandhikam ||
सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः । (३४।१)
sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ |
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रितः ॥ (३५।२)
bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.