Su, 6, 40
Select a line for its word-by-word analysis.
गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः । (३।१)
gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ |
विरुद्धाध्यशनाजीर्णैर् असात्म्यैश्चापि भोजनैः ॥ (३।२)
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ ||
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर् विषाद्भयात् । (४।१)
snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt |
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ॥ (४।२)
śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt ||
संशम्यापांधातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः । (६।१)
saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ |
वृद्धो ऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ॥ (६।२)
vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ ||
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः । (७।१)
ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ |
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ॥ (७।२)
kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat ||
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति । (८।१)
doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti |
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसंनिरोधाः ॥ (८।२)
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṃnirodhāḥ ||
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि । (९।१)
viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi |
शूलाविष्टः सक्तमूत्रो ऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ॥ (९।२)
śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ ||
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन । (१०।१)
varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena |
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहो ऽतितीक्ष्णम् ॥ (१०।२)
durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam ||
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः । (११।१)
pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ |
तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्को ऽपि भूयः ॥ (११।२)
tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ ||
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा । (१२।१)
śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā |
तन्द्रायुक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः ॥ (१२।२)
tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ ||
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः । (१३।१)
sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ |
तैस्तैर् भावैः शोचतो ऽल्पाशनस्य पक्तिम् आविध्य जन्तोः ॥ (१३।२)
taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ ||
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् । (१४।१)
koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam |
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् ॥ (१४।२)
varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena kṛcchrāt ||
शोकोत्पन्नो दुश्चिकित्स्यो ऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः । (१५।१)
śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ |
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् ॥ (१५।२)
āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam ||
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति ॥ (१६।१)
nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti ||
संसृष्टमेभिर् दोषैस्तु न्यस्तम् अप्स्ववसीदति । (१७।१)
saṃsṛṣṭamebhir doṣaistu nyastam apsvavasīdati |
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम् ॥ (१७।२)
purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam ||
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् ॥ (१८।२)
lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet ||
सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्ररूपं स्रवेद्यत् । (१९।१)
sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat |
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् ॥ (१९।२)
mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham ||
राजीमद्वा चन्द्रकैः संततं वा पूयप्रख्यं कर्दमाभं तथोष्णम् । (२०।१)
rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam |
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः ॥ (२०।२)
hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ ||
असंवृतगुदं क्षीणं दुराध्मातम् उपद्रुतम् । (२१।१)
asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam |
विसूचिकानिमित्तस्तु चान्यो ऽजीर्णनिमित्तजः । (२३।२)
visūcikānimittastu cānyo 'jīrṇanimittajaḥ |
विषार्शःकृमिसम्भूतो यथास्वं दोषलक्षणः ॥ (२३।३)
viṣārśaḥkṛmisambhūto yathāsvaṃ doṣalakṣaṇaḥ ||
अतः सर्वे ऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः ॥ (२४।२)
ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ ||
पिप्पलीसैन्धवाम्भोभिर् लङ्घनाद्यैरुपाचरेत् ॥ (२६।२)
pippalīsaindhavāmbhobhir laṅghanādyairupācaret ||
कार्यं च वमनस्यान्ते प्रद्रवं लघुभोजनम् । (२७।१)
kāryaṃ ca vamanasyānte pradravaṃ laghubhojanam |
हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः ॥ (२८।२)
haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ ||
आमातीसारिणां कार्यं नादौ संग्रहणं नृणाम् । (२९।१)
āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām |
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् ॥ (२९।२)
teṣāṃ doṣā vibaddhāḥ prāgjanayantyāmayānimān ||
सशूलं बहुशः कृच्छ्राद्विबद्धं यो ऽतिसार्यते । (३१।१)
saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate |
दोषान् संनिचितान् तस्य पथ्याभिः सम्प्रवर्तयेत् ॥ (३१।२)
doṣān saṃnicitān tasya pathyābhiḥ sampravartayet ||
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ॥ (३२।२)
tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam ||
स्तोकं स्तोकं विबद्धं वा सशूलं यो ऽतिसार्यते । (३३।१)
stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate |
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ॥ (३३।२)
abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayet ||
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ॥ (३४।२)
yogāścātra pravakṣyante tvāmātīsāranāśanāḥ ||
अभया धान्यकं मुस्तं पिप्पली नागरं वचा । (३६।१)
abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā |
नागरं धान्यकं मुस्तं बालकं बिल्वम् एव च ॥ (३६।२)
nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca ||
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाभया । (३७।१)
mustaṃ parpaṭakaṃ śuṇṭhī vacā prativiṣābhayā |
मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली । (३९।१)
mūrvā nirdahanī pāṭhā tryūṣaṇaṃ gajapippalī |
सिद्धार्थका भद्रदारु शताह्वा कटुरोहिणी ॥ (३९।२)
siddhārthakā bhadradāru śatāhvā kaṭurohiṇī ||
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ॥ (४०।२)
meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca ||
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम् । (४२।१)
pāṭhā tejovatī mustaṃ pippalī kauṭajaṃ phalam |
पटोलं दीप्यको बिल्वं हरिद्रे देवदारु च ॥ (४२।२)
paṭolaṃ dīpyako bilvaṃ haridre devadāru ca ||
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ॥ (४४।२)
nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam ||
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ॥ (४५।२)
prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime ||
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा । (४६।१)
dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā |
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ॥ (४६।२)
niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān ||
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि । (४७।१)
payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi |
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलम् एव च ॥ (४७।२)
kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca ||
मुस्तं कुष्ठं विडङ्गं च पिबेद्वापि सुखाम्बुना । (५०।१)
mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā |
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ॥ (५१।२)
citrakaṃ śiṃśapā pāṭhā śārṅgeṣṭā lavaṇāni ca ||
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ॥ (५२।२)
hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau ||
एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ॥ (५३।२)
ete sukhāmbunā yogā deyāḥ pañca satāṃ matāḥ ||
निवृत्तेष्वामशूलेषु यस्य न प्रगुणो ऽनिलः । (५४।१)
nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ |
स्तोकं स्तोकं रुजामच्च सशूलं यो ऽतिसार्यते ॥ (५४।२)
stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate ||
सक्षारलवणैर् युक्तं मन्दाग्निः स पिबेद्घृतम् । (५५।१)
sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam |
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ॥ (५६।२)
dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ ||
निखिलो विधिरुक्तो ऽयं वातश्लेष्मोपशान्तये ॥ (५७।२)
nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye ||
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक् । (५८।१)
tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak |
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ॥ (५९।२)
śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ ||
मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः । (६०।१)
mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ |
मृदुभिर् दीपनैस्तिक्तैर् द्रव्यैः स्यादामपाचनम् ॥ (६०।२)
mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam ||
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ॥ (६१।२)
rasāñjanaṃ haridre dve bījāni kuṭajasya ca ||
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ॥ (६२।२)
etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ ||
दार्वी दुरालभा बिल्वं बालकं रक्तचन्दनम् ॥ (६३।२)
dārvī durālabhā bilvaṃ bālakaṃ raktacandanam ||
चन्दनं बालकं मुस्तं भूनिम्बं सदुरालभम् । (६४।१)
candanaṃ bālakaṃ mustaṃ bhūnimbaṃ sadurālabham |
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ॥ (६४।२)
mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam ||
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम् । (६५।१)
pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam |
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ॥ (६६।३)
kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam ||
यदा पक्वो ऽप्यतीसारः सरत्येव मुहुर्मुहुः । (६८।१)
yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ |
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ॥ (६८।२)
grahaṇyā mārdavājjantostatra saṃstambhanaṃ hitam ||
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम् । (६९।१)
samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam |
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचः ॥ (६९।२)
śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacaḥ ||
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः । (७०।१)
āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ |
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ॥ (७०।२)
madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca ||
उक्ता य उपयोज्यास्ते सक्षौद्रास् तण्डुलाम्बुना ॥ (७१।२)
uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā ||
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ॥ (७२।२)
lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet ||
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च । (७३।१)
padmāṃ samaṅgāṃ madhukaṃ bilvajambūśalāṭu ca |
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ॥ (७४।२)
payasyā candanaṃ padmā sitāmustābjakeśaram ||
पक्वातिसारं योगो ऽयं जयेत्पीतः सशोणितम् । (७५।१)
pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam |
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ॥ (७५।२)
nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam ||
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम् । (७६।१)
naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam |
मधूक्षितं समधुकं पिबेच्छूलैरभिद्रुतः । (७७।१)
madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ |
दार्वीबिल्वकणाद्राक्षाकटुकेन्द्रयवैर् घृतम् ॥ (७७।२)
dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam ||
दध्ना चाम्लेन संपक्वं सव्योषाजाजिचित्रकम् ॥ (७८।२)
dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam ||
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ॥ (७९।२)
payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ ||
अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम् ॥ (८०।२)
avedanaṃ susaṃpakvaṃ dīptāgneḥ sucirotthitam ||
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ॥ (८१।२)
tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam ||
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण संदृढम् । (८२।१)
kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṃdṛḍham |
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः । (८३।१)
svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ |
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्रव्येषु साधयेत् । (८४।१)
jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet |
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ॥ (८४।२)
tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tu pūrayet ||
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत् । (८५।१)
nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet |
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ॥ (८५।२)
rasamādāya tasyātha susvinnasya samākṣikam ||
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ॥ (८६।२)
lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān ||
तण्डुलोदकसम्पिष्टान् दीर्घवृन्तत्वगन्वितान् । (८७।१)
taṇḍulodakasampiṣṭān dīrghavṛntatvaganvitān |
पूर्ववत् कूलितात् तस्माद् रसमादाय शीतलम् ॥ (८७।२)
pūrvavat kūlitāt tasmād rasamādāya śītalam ||
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ॥ (८८।२)
evaṃ prarohaiḥ kurvīta vaṭādīnāṃ vidhānavat ||
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान् । (८९।१)
puṭapākān yathāyogaṃ jāṅgalopahitān śubhān |
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ॥ (८९।२)
bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam ||
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान् । (९२।१)
aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān |
आवाप्य पिष्ट्वा दध्नि यवागूं साधयेद्द्रवाम् ॥ (९२।२)
āvāpya piṣṭvā dadhni yavāgūṃ sādhayeddravām ||
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ॥ (९३।२)
rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā ||
शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम् । (९७।१)
śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam |
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ॥ (९७।२)
etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet ||
पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् । (९८।१)
pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān |
कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम् ॥ (९८।२)
kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam ||
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम् । (९९।१)
niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam |
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः । (१००।१)
saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ |
चिरोत्थितेषु तत् पेयम् अपां भागैस्त्रिभिः शृतम् । (१०१।१)
cirotthiteṣu tat peyam apāṃ bhāgaistribhiḥ śṛtam |
दोषशेषं हरेत्तद्धि तस्मात् पथ्यतमं स्मृतम् ॥ (१०१।२)
doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam ||
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये । (१०२।१)
hitaḥ snehavireko vā bastayaḥ picchilāśca ye |
पिच्छिलस्वरसे सिद्धं हितं च घृतम् उच्यते ॥ (१०२।२)
picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate ||
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः ॥ (१०३।२)
prāk paścādvā purīṣasya saruk saparikartikaḥ ||
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम् । (१०४।१)
kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram |
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर् घृतम् ॥ (१०४।२)
dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam ||
संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम् । (१०५।१)
saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam |
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् ॥ (१०५।२)
tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam ||
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः । (१०६।१)
gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ |
ज्वरे दाहे सविड्बन्धे मारुताद्रक्तपित्तवत् ॥ (१०६।२)
jvare dāhe saviḍbandhe mārutādraktapittavat ||
संपक्वे बहुदोषे च विबन्धे मूत्रशोधनैः । (१०७।१)
saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ |
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् ॥ (१०७।२)
kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam ||
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे । (१०८।१)
pravāhaṇe gudabhraṃśe mūtrāghāte kaṭigrahe |
मधुराम्लैः शृतं तैलं सर्पिर्वाप्यनुवासनम् ॥ (१०८।२)
madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam ||
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः ॥ (१०९।२)
tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ ||
भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ॥ (११०।२)
bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam ||
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते । (१११।१)
alpālpaṃ bahuśo raktaṃ sarugya upaveśyate |
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः ॥ (१११।२)
yadā vāyurvibaddhaśca picchābastistadā hitaḥ ||
प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम् । (११२।१)
prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām |
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ॥ (११२।२)
bhavettasmāddhitaṃ teṣāṃ gude tailāvacāraṇam ||
यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः ॥ (११३।२)
yūthikā kacchurā śeluḥ śaṇaścuccūśca dādhikāḥ ||
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ॥ (११४।२)
balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam ||
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ॥ (११५।२)
tilakalko hitaścātra maudgo mudgarasastathā ||
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते । (११६।१)
pittātisārī yo martyaḥ pittalānyatiṣevate |
पित्तं प्रदुष्टं तस्याशु रक्तातीसारम् आवहेत् ॥ (११६।२)
pittaṃ praduṣṭaṃ tasyāśu raktātīsāram āvahet ||
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम् । (११७।१)
jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam |
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ॥ (११७।२)
yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate ||
स पल्लवैर् वटादीनां ससर्पिः साधितं पयः । (११८।१)
sa pallavair vaṭādīnāṃ sasarpiḥ sādhitaṃ payaḥ |
पिबेत् सशर्कराक्षौद्रम् अथवाप्यभिमथ्य तत् ॥ (११८।२)
pibet saśarkarākṣaudram athavāpyabhimathya tat ||
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः । (१२०।१)
kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ |
मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम् ॥ (१२०।२)
madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām ||
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् । (१२१।१)
pibecchāgena payasā sakṣaudraṃ raktanāśanam |
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् ॥ (१२१।२)
mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam ||
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये । (१२२।१)
pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye |
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः ॥ (१२२।२)
śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ ||
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च । (१२३।१)
tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca |
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् ॥ (१२३।२)
tilā mocaraso lodhraṃ tathaiva madhukotpalam ||
द्रवे सरक्ते स्रवति बालबिल्वं सफाणितम् । (१२५।१)
drave sarakte sravati bālabilvaṃ saphāṇitam |
सक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत् ॥ (१२५।२)
sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat ||
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु । (१२६।१)
kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu |
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् ॥ (१२६।२)
saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam ||
बिल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम् । (१२७।१)
bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam |
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् ॥ (१२७।२)
taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet ||
योगान् सांग्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान् । (१२८।१)
yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān |
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् ॥ (१२८।२)
nyagrodhādiṣu kuryācca puṭapākān yatheritān ||
गुदपाके च ये उक्तास्ते ऽत्रापि विधयः स्मृताः । (१२९।१)
gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ |
रुजायां चाप्रशाम्यन्त्यां पिच्छावस्तिर्हितो भवेत् ॥ (१२९।२)
rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet ||
सक्तविड् दोषबहुलं दीप्ताग्निर्यो ऽतिसार्यते । (१३०।१)
saktaviḍ doṣabahulaṃ dīptāgniryo 'tisāryate |
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् ॥ (१३०।२)
viḍaṅgatriphalākṛṣṇākaṣāyaistaṃ virecayet ||
यवागूर्वितरेच्चास्य वातघ्नैर् दीपनैः कृताः ॥ (१३१।२)
yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ ||
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् । (१३२।१)
dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt |
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् ॥ (१३२।२)
sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam ||
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च । (१३३।१)
svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca |
स्विन्नानि पिष्टवद्वापि समं बिल्वशलाटुभिः ॥ (१३३।२)
svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ ||
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम् । (१३४।१)
dadhnopayujya kulmāṣān śvetāmanupibet surām |
शशमांसं सरुधिरं समङ्गां सघृतं दधि ॥ (१३४।२)
śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi ||
खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये । (१३५।१)
khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye |
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः । (१३६।१)
bhojanārthaṃ pradātavyo dadhidāḍimasādhitaḥ |
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः । (१३७।१)
dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ |
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते । (१३७।२)
saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate |
स पिबेद्दीपनैर् युक्तं सर्पिः संग्राहकैः सह ॥ (१३७।३)
sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha ||
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य । (१३८।१)
vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya |
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ॥ (१३८।२)
pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ ||
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च । (१३९।१)
pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca |
सशोणिता शोणितसंभवा तु ताः स्नेहरूक्षप्रभवा मतास्तु ॥ (१३९।२)
saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu ||
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च । (१४०।१)
tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca |
न शान्तिमायाति विलङ्घनैर् या योगैरुदीर्णा यदि पाचनैर् वा ॥ (१४०।२)
na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā ||
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च । (१४१।१)
tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca |
आर्द्रैः कुशैः संपरिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् ॥ (१४१।२)
ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām ||
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत । (१४२।१)
pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta |
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वापि ॥ (१४२।२)
kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi ||
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे । (१४३।१)
bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge |
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण ॥ (१४३।२)
dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa ||
क्षीरेण चास्थापनमग्र्यमुक्तं तैलेन युञ्ज्यादनुवासनं च । (१४४।१)
kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca |
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने ॥ (१४४।२)
vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne ||
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम् । (१४५।१)
lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam |
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपीडितस्तु ॥ (१४५।२)
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu ||
सुतप्तकुप्यक्वथितेन वापि क्षीरेण शीतेन मधुप्लुतेन । (१४६।१)
sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena |
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः ॥ (१४६।२)
śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ ||
वातघ्नसंग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च । (१४७।१)
vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃścāpyupabhojayecca |
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् ॥ (१४७।२)
khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam ||
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत् । (१४८।१)
eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet |
मेध्यस्य सिद्धं त्वथ वापि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् ॥ (१४८।२)
medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam ||
खादेत् प्रदेहैः शिखिलावजैर् वा भुञ्जीत यूषैर् दधिभिश्च मुख्यैः । (१४९।१)
khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ |
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् ॥ (१४९।२)
māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān ||
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत् । (१५०।१)
mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet |
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् ॥ (१५०।२)
payomadhughṛtonmiśraṃ madhukotpalasādhitam ||
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् । (१५१।१)
sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram |
मधुरौषधसिद्धं च हितं तस्यानुवासनम् ॥ (१५१।२)
madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam ||
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः । (१५२।१)
rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ |
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा ॥ (१५२।२)
yathā yathā satailaḥ syādvātaśāntistathā tathā ||
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका । (१५३।१)
praśānte mārute cāpi śāntiṃ yāti pravāhikā |
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् ॥ (१५३।२)
tasmāt pravāhikāroge mārutaṃ śamayedbhiṣak ||
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः । (१५४।१)
pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ |
सुखाम्बुपीताः शमयन्ति रोगं मेध्याण्डसिद्धं सघृतं पयो वा ॥ (१५४।२)
sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā ||
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वामयमाशु हन्यात् । (१५५।१)
śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt |
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि ॥ (१५५।२)
gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni ||
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम् । (१५६।१)
bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam |
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु ॥ (१५६।२)
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu ||
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः ॥ (१५७।१)
hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ ||
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता ॥ (१५८।२)
jvare caivātisāre ca yavāgūḥ sarvadā hitā ||
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे । (१५९।१)
rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje |
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः ॥ (१६०।२)
chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ ||
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत् । (१६१।१)
samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret |
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् ॥ (१६१।२)
jvare caivātisāre ca sarvatrānyatra mārutam ||
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति । (१६२।१)
yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati |
दीप्ताग्नेर् लघुकोष्ठस्य स्थितस्तस्योदरामयः ॥ (१६२।२)
dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ ||
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे । (१६३।१)
karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare |
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः ॥ (१६३।२)
karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ ||
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये । (१६४।१)
naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye |
शाम्यन्ति दोषसम्भूता दोषसंक्षयहेतुभिः ॥ (१६४।२)
śāmyanti doṣasambhūtā doṣasaṃkṣayahetubhiḥ ||
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च । (१६५।१)
teṣāmalpanidānā ye pratikaṣṭā bhavanti ca |
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते ॥ (१६५।२)
mṛdavo bahudoṣā vā karmadoṣodbhavāstu te ||
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते । (१६६।१)
karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate |
अतिसारे निवृत्ते ऽपि मन्दाग्नेरहिताशिनः । (१६७।१)
atisāre nivṛtte 'pi mandāgnerahitāśinaḥ |
भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत् ॥ (१६७।२)
bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet ||
तस्मात् कार्यः परीहारस्त्वतीसारे विरिक्तवत् । (१६८।१)
tasmāt kāryaḥ parīhārastvatīsāre viriktavat |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ॥ (१६८।२)
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā ||
ग्रहणीदोषषष्ठी पित्तधरा नाम या कला परिकीर्तिता । (१६९।१)
grahaṇīdoṣaṣaṣṭhī pittadharā nāma yā kalā parikīrtitā |
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता ॥ (१६९।२)
pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā ||
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः । (१७०।१)
grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ |
तस्मात् संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ॥ (१७०।२)
tasmāt saṃdūṣite vahnau grahaṇī sampraduṣyati ||
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः । (१७१।१)
ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ |
सा दुष्टा बहुशो भुक्तमामम् एव विमुञ्चति ॥ (१७१।२)
sā duṣṭā bahuśo bhuktamāmam eva vimuñcati ||
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् । (१७२।१)
pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam |
तस्योत्पत्तौ विदाहो ऽन्ने सदनालस्यतृट्क्लमाः । (१७३।१)
tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ |
बलक्षयो ऽरुचिः कासः कर्णक्ष्वेडो ऽन्त्रकूजनम् ॥ (१७३।२)
balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam ||
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् ॥ (१७४।२)
parvaruglaulyatṛṭchardijvarārocakadāhavān ||
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् । (१७५।१)
udgirecchuktatiktāmlalohadhūmāmagandhikam |
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः । (१७६।१)
vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ |
पित्तात् सदाहैर् गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः ॥ (१७६।२)
pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ ||
दोषवर्णैर् नखैस्तद्वद्विण्मूत्रनयनाननैः । (१७७।१)
doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ |
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः ॥ (१७७।२)
hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ ||
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम् । (१७८।१)
yathādoṣocchrayaṃ tasya viśuddhasya yathākramam |
पेयादिं वितरेत् सम्यग्दीपनीयोपसंभृतम् ॥ (१७८।२)
peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam ||
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः ॥ (१७९।२)
pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ ||
तक्रेण वाथ तक्रं वा केवलं हितम् उच्यते । (१८०।१)
takreṇa vātha takraṃ vā kevalaṃ hitam ucyate |
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् ॥ (१८०।२)
kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet ||
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम् । (१८१।१)
cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam |
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् । (१८२।१)
caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet |
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः ॥ (१८२।२)
jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.