सुश्रुतसंहिताSuśrutasaṃhitā

Su, 1, 28

28 of 186 · 40 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ॥ (१।१)

athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

नतुर् देर् अरिष्टस्फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा । (३।१)

Natur der ariṣṭasphalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |

3.2३.२

ख्यापयन्ति भविष्यत्वं तथा रिष्टानि पञ्चताम् ॥ (३।२)

khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām ||

4.1४.१

मेइस्त् बेर्सेहेन्तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् । (४।१)

meist bersehentāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt |

4.2४.२

गृह्यन्ते नोद्गतान्यज्ञैर् मुमूर्षोर् न त्वसंभवात् ॥ (४।२)

gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt ||

5.1५.१

म्￶ग्लिछ्केइतेन्, देन् तोद् ज़ु वेर्हिन्देर्न्ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः । (५।१)

m￶glichkeiten, den Tod zu verhinderndhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ |

5.2५.२

रसायनतपोजप्यतत्परैर् वा निवार्यते ॥ (५।२)

rasāyanatapojapyatatparair vā nivāryate ||

6.1६.१

॥ अस्त्रोलोगिएनक्षत्रपीडा बहुधा यथाकालं विपच्यते । (६।१)

|| Astrologienakṣatrapīḍā bahudhā yathākālaṃ vipacyate |

6.2६.२

तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ॥ (६।२)

tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ ||

7.1७.१

बेहन्द्लुन्ग् अब्ब्रेछेन्, wएन्न् अरिष्टस् एर्स्छेइनेनसिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः । (७।१)

Behandlung abbrechen, wenn ariṣṭas erscheinenasiddhimāpnuyālloke pratikurvan gatāyuṣaḥ |

7.2७.२

अतो ऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ॥ (७।२)

ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak ||

8.1८.१

अल्ल्गेम्।: अल्ले उन्नत्र्लिछेन् वेर्¦न्देरुन्गेन् बेइ एइनेम् व्रणगन्धवर्णरसादीनां विशेषाणां स्वभावतः । (८।१)

allgem.: alle unnatrlichen ver¦nderungen bei einem vraṇagandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ |

8.2८.२

वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ॥ (८।२)

vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam ||

9.1९.१

१। गेरुछ्कटुस्तीक्ष्णश् च विस्रश् च गन्धस्तु पवनादिभिः । (९।१)

1. Geruchkaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ |

9.2९.२

लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ॥ (९।२)

lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ ||

10.1१०.१

लाजातसीतैलसमाः किंचिद्विस्राश् च गन्धतः । (१०।१)

lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ |

10.2१०.२

ज्ञेयाः प्रकृतिगन्धाः स्युरतो ऽन्यद्गन्धवैकृतम् ॥ (१०।२)

jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam ||

11.1११.१

मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः । (११।१)

madyāgurvājyasumanāpadmacandanacampakaiḥ |

11.2११.२

सगन्धा दिव्यगन्धाश् च मुमूर्षूणां व्रणाः स्मृताः ॥ (११।२)

sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||

12.1१२.१

श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः । (१२।१)

śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |

12.2१२.२

सगन्धाः पङ्कगन्धाश् च भूमिगन्धाश् च गर्हिताः ॥ (१२।२)

sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||

13.1१३.१

२। ड़र्बेकुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः । (१३।१)

2. Farbekuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ |

13.2१३.२

न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ॥ (१३।२)

na dahyante na cūṣyante bhiṣak tān parivarjayet ||

14.1१४.१

कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः । (१४।१)

kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ |

14.2१४.२

दूयन्ते वापि दह्यन्ते भिषक् तान् परिवर्जयेत् ॥ (१४।२)

dūyante vāpi dahyante bhiṣak tān parivarjayet ||

15.1१५.१

कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः । (१५।१)

kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ |

15.2१५.२

स्वल्पाम् अपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ॥ (१५।२)

svalpām api na kurvanti rujaṃ tān parivarjayet ||

16.1१६.१

३। गेर्¦उस्छेक्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः । (१६।१)

3. Ger¦uschekṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ |

16.2१६.२

त्वङ्मांसस्थाश् च पवनं सशब्दं विसृजन्ति ये ॥ (१६।२)

tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||

17.1१७.१

४। तेम्पेरतुर्ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः । (१७।१)

4. Temperaturye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ |

17.2१७.२

दह्यन्ते चान्तरत्यर्थं बहिः शीताश् च ये व्रणाः ॥ (१७।२)

dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ ||

18.1१८.१

दह्यन्ते बहिर् अत्यर्थं भवन्त्यन्तश् च शीतलाः । (१८।१)

dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ |

18.2१८.२

शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः ॥ (१८।२)

śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ ||

19.1१९.१

येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा । (१९।१)

yeṣu cāpyavabhāseran prāsādākṛtayastathā |

19.2१९.२

चूर्णावकीर्णा इव ये भान्ति वा न च चूर्णिताः ॥ (१९।२)

cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ ||

20.1२०.१

प्राणमांसक्षयश्वासकासारोचकपीडिताः । (२०।१)

prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |

20.2२०.२

प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ॥ (२०।२)

pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu ||

21.1२१.१

क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः । (२१।१)

kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ |

21.2२१.२

वर्जयेत्तान् भिषक् प्राज्ञः संरक्षन्नात्मनो यशः ॥ (२१।२)

varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 1, 28

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit