सुश्रुतसंहिताSuśrutasaṃhitā

Su, 6, 61

181 of 186 · 81 verses

Select a line for its word-by-word analysis.

1.0१.०

अथातो ऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः ॥ (१।०)

athāto 'pasmārapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ ||

2.0२.०

यथोवाच भगवान् धन्वन्तरिः ॥ (२।०)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

स्मृतिर्भूतार्थविज्ञानम् अपश् च परिवर्जने । (३।१)

smṛtirbhūtārthavijñānam apaś ca parivarjane |

3.2३.२

अपस्मार इति प्रोक्तस्ततो ऽयं व्याधिरन्तकृत् ॥ (३।२)

apasmāra iti proktastato 'yaṃ vyādhirantakṛt ||

4.1४.१

मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात् । (४।१)

mithyātiyogendriyārthakarmaṇāmabhisevanāt |

4.2४.२

विरुद्धमलिनाहारविहारकुपितैर् मलैः ॥ (४।२)

viruddhamalināhāravihārakupitair malaiḥ ||

5.1५.१

वेगनिग्रहशीलानाम् अहिताशुचिभोजिनाम् । (५।१)

veganigrahaśīlānām ahitāśucibhojinām |

5.2५.२

रजस्तमोऽभिभूतानां गच्छतां च रजस्वलाम् ॥ (५।२)

rajastamo'bhibhūtānāṃ gacchatāṃ ca rajasvalām ||

6.1६.१

तथा कामभयोद्वेगक्रोधशोकादिभिर् भृशम् । (६।१)

tathā kāmabhayodvegakrodhaśokādibhir bhṛśam |

6.2६.२

चेतस्यभिहते पुंसामपस्मारो ऽभिजायते ॥ (६।२)

cetasyabhihate puṃsāmapasmāro 'bhijāyate ||

7.1७.१

हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता । (७।१)

hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā |

7.2७.२

निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ॥ (७।२)

nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha ||

8.1८.१

संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः । (८।१)

saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ |

8.2८.२

रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ॥ (८।२)

rajastamaḥparīteṣu mūḍho bhrāntena cetasā ||

9.1९.१

विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः । (९।१)

vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ |

9.2९.२

दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ॥ (९।२)

dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau ||

10.1१०.१

अल्पकालान्तरं चापि पुनः संज्ञां लभेत सः । (१०।१)

alpakālāntaraṃ cāpi punaḥ saṃjñāṃ labheta saḥ |

10.2१०.२

सो ऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः ॥ (१०।२)

so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ ||

11.1११.१

वातपित्तकफैर् नॄणां चतुर्थः सन्निपाततः । (११।१)

vātapittakaphair nṝṇāṃ caturthaḥ sannipātataḥ |

11.2११.२

वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्न् अपि ॥ (११।२)

vepamāno daśan dantān śvasan phenaṃ vamann api ||

12.1१२.१

यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति । (१२।१)

yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati |

12.2१२.२

ततो मे चित्तनाशः स्यात् सो ऽपस्मारो ऽनिलात्मकः ॥ (१२।२)

tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ ||

13.1१३.१

तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः । (१३।१)

tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ |

13.2१३.२

यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति ॥ (१३।२)

yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati ||

14.1१४.१

ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते । (१४।१)

tato me cittanāśaḥ syāt sa pittabhava ucyate |

14.2१४.२

शीतहृल्लासनिद्रार्तः पतन् भूमौ वमन् कफम् ॥ (१४।२)

śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham ||

15.1१५.१

यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति । (१५।१)

yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati |

15.2१५.२

ततो मे चित्तनाशः स्यात् सो ऽपस्मारः कफात्मकः ॥ (१५।२)

tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ ||

16.1१६.१

हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया । (१६।१)

hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā |

16.2१६.२

प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह ॥ (१६।२)

pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha ||

17.1१७.१

सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे । (१७।१)

sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje |

17.2१७.२

अनिमित्तागमाद्व्याधेर् गमनाद् अकृते ऽपि च ॥ (१७।२)

animittāgamādvyādher gamanād akṛte 'pi ca ||

18.1१८.१

आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् । (१८।१)

āgamāccāpyapasmāraṃ vadantyanye na doṣajam |

18.2१८.२

क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च ॥ (१८।२)

kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca ||

19.1१९.१

आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः । (१९।१)

āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ |

19.2१९.२

देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् ॥ (१९।२)

deve varṣatyapi yathā bhūmau bījāni kānicit ||

20.1२०.१

शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः । (२०।१)

śaradi pratirohanti tathā vyādhisamudbhavaḥ |

20.2२०.२

स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः ॥ (२०।२)

sthāyinaḥ kecidalpena kālenābhipravardhitāḥ ||

21.1२१.१

दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः । (२१।१)

darśayanti vikārāṃstu viśvarūpānnisargataḥ |

21.2२१.२

अपस्मारो महाव्याधिस्तस्माद् दोषज एव तु ॥ (२१।२)

apasmāro mahāvyādhistasmād doṣaja eva tu ||

22.1२२.१

तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते । (२२।१)

tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate |

22.2२२.२

पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः ॥ (२२।२)

purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ ||

23.1२३.१

उपयोगो ग्रहोक्तानां योगानां तु विशेषतः । (२३।१)

upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ |

23.2२३.२

ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत् । (२३।२)

tataḥ sidhyanti te sarve yogairanyaiśca sādhayet |

23.3२३.३

शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् ॥ (२३।३)

śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam ||

24.1२४.१

चतुर्गुणे गवां मूत्रे तैलाभ्यञ्जने हितम् । (२४।१)

caturguṇe gavāṃ mūtre tailābhyañjane hitam |

24.2२४.२

गोधानकुलनागानां पृषतर्क्षगवाम् अपि ॥ (२४।२)

godhānakulanāgānāṃ pṛṣatarkṣagavām api ||

25.1२५.१

पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम् । (२५।१)

pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam |

25.2२५.२

तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् ॥ (२५।२)

tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet ||

26.1२६.१

पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः । (२६।१)

pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ |

26.2२६.२

वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः ॥ (२६।२)

vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ ||

27.1२७.१

कफजं वमनैर् धीमानपस्मारमुपाचरेत् । (२७।१)

kaphajaṃ vamanair dhīmānapasmāramupācaret |

27.2२७.२

कुलत्थयवकोलानि शणबीजं पलङ्कषाम् ॥ (२७।२)

kulatthayavakolāni śaṇabījaṃ palaṅkaṣām ||

28.1२८.१

जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः । (२८।१)

jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ |

28.2२८.२

बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् ॥ (२८।२)

bastamūtrayutaṃ sarpiḥ pacettadvātike hitam ||

29.1२९.१

काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे । (२९।१)

kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe |

29.2२९.२

पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ॥ (२९।२)

payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam ||

30.1३०.१

काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे । (३०।१)

kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe |

30.2३०.२

पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ॥ (३०।२)

payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam ||

31.1३१.१

सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः । (३१।१)

suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ |

31.2३१.२

मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ॥ (३१।२)

mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ ||

32.1३२.१

करञ्जबीजशैरीषगिरिकर्णीहुताशनैः । (३२।१)

karañjabījaśairīṣagirikarṇīhutāśanaiḥ |

32.2३२.२

सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ॥ (३२।२)

siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam ||

33.1३३.१

कृमिकुष्ठगरश्वासबलासविषमज्वरान् । (३३।१)

kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān |

33.2३३.२

सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ॥ (३३।२)

sarvabhūtagrahonmādānapasmārāṃśca nāśayet ||

34.1३४.१

दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः । (३४।१)

daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ |

34.2३४.२

शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ॥ (३४।२)

śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ ||

35.1३५.१

शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः । (३५।१)

śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ |

35.2३५.२

त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ॥ (३५।२)

trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ ||

36.1३६.१

कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः । (३६।१)

kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ |

36.2३६.२

सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ॥ (३६।२)

sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ ||

37.1३७.१

साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् । (३७।१)

sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut |

37.2३७.२

चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ॥ (३७।२)

cāturthakakṣayaśvāsānunmādāṃśca niyacchati ||

38.1३८.१

भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम् । (३८।१)

bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam |

38.2३८.२

त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ॥ (३८।२)

tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet ||

39.1३९.१

ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत् । (३९।१)

jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet |

39.2३९.२

त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ॥ (३९।२)

trīn bhāgāṃstasya cūrṇasya kiṇvabhāgena saṃsṛjet ||

40.1४०.१

मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः । (४०।१)

maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ |

40.2४०.२

शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः ॥ (४०।२)

śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ surāṃ tataḥ ||

41.1४१.१

जातगन्धां जातरसां पाययेदातुरं भिषक् । (४१।१)

jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak |

41.2४१.२

सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ॥ (४१।२)

sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 6, 61

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit