सुश्रुतसंहिताSuśrutasaṃhitā

Su, 6, 64

184 of 186 · 157 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः ॥ (१।१)

athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

यथोवाच भगवान् धन्वन्तरिः ॥ (२।१)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः । (३।१)

sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ |

3.2३.२

तस्य यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम् ॥ (३।२)

tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam ||

4.1४.१

तस्य यद्वृत्तमुक्तं हि रक्षणं च मयादितः । (४।१)

tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ |

4.2४.२

तस्मिन्नर्थः समासोक्तो विस्तरेणेह वक्ष्यते ॥ (४।२)

tasminnarthaḥ samāsokto vistareṇeha vakṣyate ||

5.1५.१

यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् । (५।१)

yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām |

5.2५.२

तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ॥ (५।२)

teṣu teṣu pradātavyāḥ rasāste te vijānatā ||

6.1६.१

प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु । (६।१)

praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu |

6.2६.२

मन्दे ऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ॥ (६।२)

mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ ||

7.1७.१

तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च । (७।१)

tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca |

7.2७.२

कषायतिक्तकटुकै रसैर् युक्तम् अपद्रवम् ॥ (७।२)

kaṣāyatiktakaṭukai rasair yuktam apadravam ||

8.1८.१

नातिस्निग्धं नातिरूक्षमुष्णं दीपनम् एव च । (८।१)

nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca |

8.2८.२

देयमन्नं नृपतये यज्जलं चोक्तमादितः ॥ (८।२)

deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ ||

9.1९.१

तप्तावरतम् अम्भो वा पिबेन्मधुसमायुतम् । (९।१)

taptāvaratam ambho vā pibenmadhusamāyutam |

9.2९.२

अह्नि मेघानिलाविष्टे ऽत्यर्थशीताम्बुसङ्कुले ॥ (९।२)

ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule ||

10.1१०.१

तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा । (१०।१)

taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā |

10.2१०.२

मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् ॥ (१०।२)

matimāṃstannimittaṃ ca nātivyāyāmamācaret ||

11.1११.१

अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत् । (११।१)

atyambupānāvaśyāyagrāmyadharmātapāṃstyajet |

11.2११.२

भूबाष्पपरिहारार्थं शयीत च विहायसि ॥ (११।२)

bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi ||

12.1१२.१

शीते साग्नौ निवाते च गुरुप्रावरणे गृहे । (१२।१)

śīte sāgnau nivāte ca guruprāvaraṇe gṛhe |

12.2१२.२

यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः ॥ (१२।२)

yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ ||

13.1१३.१

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः । (१३।१)

divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ |

13.2१३.२

सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः ॥ (१३।२)

sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ ||

14.1१४.१

क्षीरेक्षुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः । (१४।१)

kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ |

14.2१४.२

श्वेतस्रजश्चन्द्रपादाः प्रदोषे लघु चाम्बरम् ॥ (१४।२)

śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram ||

15.1१५.१

सलिलं च प्रसन्नत्वात् सर्वम् एव तदा हितम् । (१५।१)

salilaṃ ca prasannatvāt sarvam eva tadā hitam |

15.2१५.२

सरःस्वाप्लवनं चैव कमलोत्पलशालिषु ॥ (१५।२)

saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu ||

16.1१६.१

प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम् । (१६।१)

pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam |

16.2१६.२

तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः ॥ (१६।२)

tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ ||

17.1१७.१

वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः । (१७।१)

varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ |

17.2१७.२

नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवातपम् ॥ (१७।२)

nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam ||

18.1१८.१

रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत् । (१८।१)

rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet |

18.2१८.२

स्वादुशीतजलं मेध्यं शुचिस्फटिकनिर्मलम् ॥ (१८।२)

svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam ||

19.1१९.१

शरच्चन्द्रांशुनिर्धौतम् अगस्त्योदयनिर्विषम् । (१९।१)

śaraccandrāṃśunirdhautam agastyodayanirviṣam |

19.2१९.२

प्रसन्नत्वाच्च सलिलं सर्वम् एव तदा हितम् ॥ (१९।२)

prasannatvācca salilaṃ sarvam eva tadā hitam ||

20.1२०.१

सचन्दनं सकर्पूरं वासश्चामलिनं लघु । (२०।१)

sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu |

20.2२०.२

भजेच्च शारदं माल्यं सीधोः पानं च युक्तितः ॥ (२०।२)

bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ ||

21.1२१.१

पित्तप्रशमनं यच्च तच्च सर्वं समाचरेत् । (२१।१)

pittapraśamanaṃ yacca tacca sarvaṃ samācaret |

21.2२१.२

हेमन्तहेमन्तः शीतलो रूक्षो मन्दसूर्यो ऽनिलाकुलः ॥ (२१।२)

hemantahemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ ||

22.1२२.१

ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति । (२२।१)

tatastu śītamāsādya vāyustatra prakupyati |

22.2२२.२

कोष्ठस्थः शीतसंस्पर्शाद् अन्तःपिण्डीकृतो ऽनलः ॥ (२२।२)

koṣṭhasthaḥ śītasaṃsparśād antaḥpiṇḍīkṛto 'nalaḥ ||

23.1२३.१

रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम् । (२३।१)

rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam |

23.2२३.२

हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् ॥ (२३।२)

hemante lavaṇakṣāratiktāmlakaṭukotkaṭam ||

24.1२४.१

ससर्पिस्तैलमहिमशनं हितम् उच्यते । (२४।१)

sasarpistailamahimaśanaṃ hitam ucyate |

24.2२४.२

तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः ॥ (२४।२)

tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ ||

25.1२५.१

तैलाक्तस्य सुखोष्णे च वारिकोष्ठे ऽवगाहनम् । (२५।१)

tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam |

25.2२५.२

साङ्गारयाने महति कौशेयास्तरणास्तृते ॥ (२५।२)

sāṅgārayāne mahati kauśeyāstaraṇāstṛte ||

26.1२६.१

शयीत शयने तैस्तैर् वृतो गर्भगृहोदरे । (२६।१)

śayīta śayane taistair vṛto garbhagṛhodare |

26.2२६.२

स्त्रीः श्लिष्ट्वागुरुधूपाढ्याः पीनोरुजघनस्तनीः ॥ (२६।२)

strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ ||

27.1२७.१

प्रकामं च निषेवेत मैथुनं तर्पितो नृपः । (२७।१)

prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ |

27.2२७.२

मधुरं तिक्तकटुकमम्लं लवणम् एव च ॥ (२७।२)

madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca ||

28.1२८.१

अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च । (२८।१)

annapānaṃ tilān māṣāñchākāni ca dadhīni ca |

28.2२८.२

तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवान् अपि ॥ (२८।२)

tathekṣuvikṛtīḥ śālīn sugandhāṃśca navān api ||

29.1२९.१

प्रसहानूपमांसानि क्रव्यादबिलशायिनाम् । (२९।१)

prasahānūpamāṃsāni kravyādabilaśāyinām |

29.2२९.२

औदकानां प्लवानां च पादिनां चोपसेवयेत् ॥ (२९।२)

audakānāṃ plavānāṃ ca pādināṃ copasevayet ||

30.1३०.१

मद्यानि च प्रसन्नानि यच्च किंचित् बलप्रदम् । (३०।१)

madyāni ca prasannāni yacca kiṃcit balapradam |

30.2३०.२

कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे ॥ (३०।२)

kāmatastanniṣeveta puṣṭimicchan himāgame ||

31.1३१.१

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः । (३१।१)

divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ |

31.2३१.२

एष एव विधिः कार्यः शिशिरे समुदाहृतः ॥ (३१।२)

eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ ||

32.1३२.१

वसन्तहेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम् । (३२।१)

vasantahemante nicitaḥ śleṣmā śaityācchītaśarīriṇām |

32.2३२.२

औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून् ॥ (३२।२)

auṣṇyādvasante kupitaḥ kurute ca gadān bahūn ||

33.1३३.१

ततो ऽम्लमधुरस्निग्धलवणानि गुरूणि च । (३३।१)

tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca |

33.2३३.२

वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत् ॥ (३३।२)

varjayedvamanādīni karmāṇyapi ca kārayet ||

34.1३४.१

षष्टिकान्नं यवाञ्छीतान् मुद्गान् नीवारकोद्रवान् । (३४।१)

ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān |

34.2३४.२

लावादिविष्किररसैर् दद्याद्यूषैश्च युक्तितः ॥ (३४।२)

lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ ||

35.1३५.१

पटोलनिम्बवार्ताकतिक्तकैश्च हिमात्यये । (३५।१)

paṭolanimbavārtākatiktakaiśca himātyaye |

35.2३५.२

सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान् ॥ (३५।२)

sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān ||

36.1३६.१

व्यायाममञ्जनं धूमं तीक्ष्णं च कवलग्रहम् । (३६।१)

vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham |

36.2३६.२

सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे ॥ (३६।२)

sukhāmbunā ca sarvārthān seveta kusumāgame ||

37.1३७.१

तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्रवम् । (३७।१)

tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam |

37.2३७.२

यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ॥ (३७।२)

yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam ||

38.1३८.१

व्यायामो ऽत्र नियुद्धाध्वशिलानिर्घातजो हितः । (३८।१)

vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ |

38.2३८.२

उत्सादनं तथा स्नानं वनिताः काननानि च ॥ (३८।२)

utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca ||

39.1३९.१

सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम् । (३९।१)

seveta nirhareccāpi hemantopacitaṃ kapham |

39.2३९.२

शिरोविरेकवमननिरूहकवलादिभिः ॥ (३९।२)

śirovirekavamananirūhakavalādibhiḥ ||

40.1४०.१

वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान् । (४०।१)

varjayenmadhurasnigdhadivāsvapnagurudravān |

40.2४०.२

व्यायाममुष्णमायासं मैथुनं परिशोषि च ॥ (४०।२)

vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca ||

41.1४१.१

रसांश्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् । (४१।१)

rasāṃścāgniguṇodriktān nidāghe parivarjayet |

41.2४१.२

सरांसि सरितो वापीर्वनानि रुचिराणि च ॥ (४१।२)

sarāṃsi sarito vāpīrvanāni rucirāṇi ca ||

42.1४२.१

चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः । (४२।१)

candanāni parārdhyāni srajaḥ sakamalotpalāḥ |

42.2४२.२

तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ॥ (४२।२)

tālavṛntānilāhārāṃstathā śītagṛhāṇi ca ||

43.1४३.१

घर्मकाले निषेवेत वासांसि सुलघूनि च । (४३।१)

gharmakāle niṣeveta vāsāṃsi sulaghūni ca |

43.2४३.२

शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ॥ (४३।२)

śarkarākhaṇḍadigdhāni sugandhīni himāni ca ||

44.1४४.१

पानकानि च सेवेत मन्थांश्चापि सशर्करान् । (४४।१)

pānakāni ca seveta manthāṃścāpi saśarkarān |

44.2४४.२

भोजनं च हितं शीतं सघृतं मधुरद्रवम् ॥ (४४।२)

bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam ||

45.1४५.१

शृतेन पयसा रात्रौ शर्करामधुरेण च । (४५।१)

śṛtena payasā rātrau śarkarāmadhureṇa ca |

45.2४५.२

प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ॥ (४५।२)

pratyagrakusumākīrṇe śayane harmyasaṃsthite ||

46.1४६.१

शयीत चन्दनार्द्राङ्गः स्पृश्यमानो ऽनिलैः सुखैः । (४६।१)

śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ |

46.2४६.२

तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ॥ (४६।२)

tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ ||

47.1४७.१

पयो मांसरसाः कोष्णास्तैलानि च घृतानि च । (४७।१)

payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca |

47.2४७.२

बृंहणं चापि यत् किंचिद् अभिष्यन्दि तथैव च ॥ (४७।२)

bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca ||

48.1४८.१

निदाघोपचितं चैव प्रकुप्यन्तं समीरणम् । (४८।१)

nidāghopacitaṃ caiva prakupyantaṃ samīraṇam |

48.2४८.२

निहन्यादनिलघ्नेन विधिना विधिकोविदः ॥ (४८।२)

nihanyādanilaghnena vidhinā vidhikovidaḥ ||

49.1४९.१

नदीजलं रूक्षमुष्णमुदमन्थं तथातपम् । (४९।१)

nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam |

49.2४९.२

व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ॥ (४९।२)

vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet ||

50.1५०.१

नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत् । (५०।१)

navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet |

50.2५०.२

यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ॥ (५०।२)

yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā ||

51.1५१.१

हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम् । (५१।१)

harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām |

51.2५१.२

सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ॥ (५१।२)

saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ ||

52.1५२.१

समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम् । (५२।१)

samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam |

52.2५२.२

वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ॥ (५२।२)

vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam ||

53.1५३.१

तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत् । (५३।१)

taddhi sarvopayogeṣu tasmin kāle vivarjayet |

53.2५३.२

अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ॥ (५३।२)

ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ ||

54.1५४.१

पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तान् अपि वर्जयेत् । (५४।१)

pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet |

54.2५४.२

निरूहैर् बस्तिभिश्चान्यैस्तथान्यैर् मारुतापहैः ॥ (५४।२)

nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ ||

55.1५५.१

कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम् । (५५।१)

kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim |

55.2५५.२

ऋतावृतौ य एतेन विधिना वर्तते नरः ॥ (५५।२)

ṛtāvṛtau ya etena vidhinā vartate naraḥ ||

56.1५६.१

घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन । (५६।१)

ghorānṛtukṛtān rogānnāpnoti sa kadācana |

56.2५६.२

अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः । (५६।२)

ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ |

56.3५६.३

तत्र शीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ॥ (५६।३)

tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ ||

57.1५७.१

तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान् । (५७।१)

tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān |

57.2५७.२

मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैर् अन्नैर् उपाचरेत् ॥ (५७।२)

mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret ||

58.1५८.१

कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः । (५८।१)

kaphavātāmayāviṣṭān viriktān snehapāyinaḥ |

58.2५८.२

अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ॥ (५८।२)

aklinnakāyāṃśca narānuṣṇairannairupācaret ||

59.1५९.१

वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा । (५९।१)

vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā |

59.2५९.२

व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ॥ (५९।२)

vyāyāminaścāpi narān snigdhairannairupācaret ||

60.1६०.१

मेदसाभिपरीतांस्तु स्निग्धान्मेहातुरान् अपि । (६०।१)

medasābhiparītāṃstu snigdhānmehāturān api |

60.2६०.२

कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ॥ (६०।२)

kaphābhipannadehāṃśca rūkṣairannairupācaret ||

61.1६१.१

शुष्कदेहान् पिपासार्तान् दुर्बलान् अपि च द्रवैः । (६१।१)

śuṣkadehān pipāsārtān durbalān api ca dravaiḥ |

61.2६१.२

प्रक्लिन्नकायान् व्रणिनः शुष्कैर् मेहिन एव च ॥ (६१।२)

praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca ||

62.1६२.१

एककालं भवेद्देयो दुर्बलाग्निविवृद्धये । (६२।१)

ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye |

62.2६२.२

समाग्नये तथाहारो द्विकालमपि पूजितः ॥ (६२।२)

samāgnaye tathāhāro dvikālamapi pūjitaḥ ||

63.1६३.१

औषधद्वेषिणे देयस्तथौषधसमायुतः । (६३।१)

auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ |

63.2६३.२

मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ॥ (६३।२)

mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate ||

64.1६४.१

यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः । (६४।१)

yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ |

64.2६४.२

अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च । (६४।२)

ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca |

64.3६४.३

प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ॥ (६४।३)

pravicārānimānevaṃ dvādaśātra prayojayet ||

65.1६५.१

अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः । (६५।१)

ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ |

65.2६५.२

तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तम् अन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः ॥ (६५।२)

tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ ||

66.1६६.१

तत्राभक्तं तु यत् केवलम् एवौषधम् उपयुज्यते ॥ (६६।१)

tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate ||

67.1६७.१

वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथामयमसंशयमाशु चैव । (६७।१)

vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva |

67.2६७.२

तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ॥ (६७।२)

tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca ||

68.1६८.१

प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ॥ (६८।१)

prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate ||

69.1६९.१

शीघ्रं विपाकम् उपयाति बलं न हिंस्यादन्नावृतं न च मुहुर् वदनान्निरेति । (६९।१)

śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti |

69.2६९.२

प्राग्भक्तसेवितम् अथौषधम् एतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ॥ (६९।२)

prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ ||

70.1७०.१

अधोभक्तं नाम यदधो भक्तस्येति ॥ (७०।१)

adhobhaktaṃ nāma yadadho bhaktasyeti ||

71.1७१.१

मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते ॥ (७१।१)

madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate ||

72.1७२.१

पीतं यदन्नम् उपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति । (७२।१)

pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti |

72.2७२.२

मध्ये तु पीतम् अपहन्त्यविसारिभावाद् ये मध्यदेहमभिभूय भवन्ति रोगाः ॥ (७२।२)

madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ ||

73.1७३.१

अन्तराभक्तं नाम यदन्तरा पीयते पूर्वापरयोर् भक्तयोः ॥ (७३।१)

antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ ||

74.1७४.१

सभक्तं नाम यत् सह भक्तेन ॥ (७४।१)

sabhaktaṃ nāma yat saha bhaktena ||

75.1७५.१

पथ्यं सभक्तम् अबलाबलयोर् हि नित्यं तद्द्वेषिणाम् अपि तथा शिशुवृद्धयोश्च । (७५।१)

pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca |

75.2७५.२

हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ॥ (७५।२)

hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat ||

76.1७६.१

सामुद्गं नाम यद्भक्तस्यादावन्ते च पीयते ॥ (७६।१)

sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate ||

77.1७७.१

दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर् यदशनस्य निषेव्यते तु ॥ (७७।१)

doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu ||

78.1७८.१

मुहुर्मुहुर्नाम सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ॥ (७८।१)

muhurmuhurnāma sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate ||

79.1७९.१

श्वासे मुहुर्मुहुरतिप्रसृते च कासे हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ॥ (७९।१)

śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat ||

80.1८०.१

ग्रासं तु यत्पिण्डव्यामिश्रम् ॥ (८०।१)

grāsaṃ tu yatpiṇḍavyāmiśram ||

81.1८१.१

ग्रासान्तरं तु यद्ग्रासान्तरेषु ॥ (८१।१)

grāsāntaraṃ tu yadgrāsāntareṣu ||

82.1८२.१

ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत । (८२।१)

grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta |

82.2८२.२

ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ॥ (८२।२)

grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān ||

83.1८३.१

एवमेते दशौषधकालाः ॥ (८३।१)

evamete daśauṣadhakālāḥ ||

84.1८४.१

विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ । (८४।१)

visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau |

84.2८४.२

विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति । (८४।२)

viśuddhe codgāre hṛdi suvimale vāte ca sarati |

84.3८४.३

तथान्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले । (८४।३)

tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile |

84.4८४.४

प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ॥ (८४।४)

pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 6, 64

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit