Su, 4, 13
Select a line for its word-by-word analysis.
मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः । (४।१)
māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ |
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ॥ (४।२)
jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi ||
त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम् ॥ (५।२)
trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam ||
ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ । (६।१)
jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau |
तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत् । (७।१)
tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat |
यथा तथा प्रयोगे ऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः । (८।१)
yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ |
तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ॥ (९।२)
teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat ||
गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते । (१०।१)
gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate |
पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम् । (११।१)
pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam |
जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् ॥ (११।२)
jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet ||
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् ॥ (१४।२)
mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam ||
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम् । (१५।१)
śoṣaṃ śophārśasī gulmaṃ pāṇḍutāṃ viṣamajvaram |
न सो ऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु । (१६।१)
na so 'sti rogo yaṃ cāpi nihanyānna śilājatu |
शर्करां चिरसम्भूतां भिनत्ति च तथाश्मरीम् ॥ (१६।२)
śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm ||
भावनालोडने चास्य कर्तव्ये भेषजैर् हितैः । (१७।१)
bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ |
पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् ॥ (१८।२)
piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān ||
तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् । (१९।१)
tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet |
पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् ॥ (१९।२)
pañcakarmaguṇātītaṃ śraddhāvantaṃ jijīviṣum ||
वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु ॥ (२०।२)
vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu ||
तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे ॥ (२१।२)
teṣāṃ phalāni gṛhṇīyāt supakvānyambudāgame ||
मज्जां तेभ्यो ऽपि संहृत्य शोषयित्वा विचूर्ण्य च । (२२।१)
majjāṃ tebhyo 'pi saṃhṛtya śoṣayitvā vicūrṇya ca |
तिलवत् पीडयेद्द्रोण्यां स्रावयेद्वा कुसुम्भवत् ॥ (२२।२)
tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat ||
तत्तैलं संहृतं भूयः पचेद् आ तोयसंक्षयात् । (२३।१)
tattailaṃ saṃhṛtaṃ bhūyaḥ paced ā toyasaṃkṣayāt |
स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान् । (२४।१)
snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān |
चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे ॥ (२४।२)
caturthabhaktāntaritaḥ śuklādau divase śubhe ||
मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम् । (२५।१)
mantrapūtasya tailasya pibenmātrāṃ yathābalam |
तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते ॥ (२५।२)
tatra mantraṃ pravakṣyāmi yenedamabhimantryate ||
मज्जसार महावीर्य सर्वान् धातून् विशोधय । (२६।१)
majjasāra mahāvīrya sarvān dhātūn viśodhaya |
शङ्खचक्रगदापाणिस्त्वामाज्ञापयते ऽच्युतः ॥ (२६।२)
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ ||
तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः । (२७।१)
tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ |
पञ्चभिर् दिवसैर् एवं सर्वकुष्ठैर् विमुच्यते । (२९।१)
pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate |
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् ॥ (२९।२)
tadeva khadirakvāthe triguṇe sādhu sādhitam ||
निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रितः । (३०।१)
nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ |
भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम् । (३१।१)
bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam |
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥ (३१।२)
anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram ||
वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ॥ (३३।२)
vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam ||
शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया । (३४।१)
śodhayanti naraṃ pītā majjānastasya mātrayā |
सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च । (३५।१)
sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca |
पैल्ल्यं हन्याद् अर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ॥ (३५।२)
paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena ||
Data courtesy of The Digital Corpus of Sanskrit.