सुश्रुतसंहिताSuśrutasaṃhitā

Su, 6, 21

141 of 186 · 116 verses

Select a line for its word-by-word analysis.

1.0१.०

अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः ॥ (१।०)

athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

2.0२.०

यथोवाच भगवान् धन्वन्तरिः ॥ (२।०)

yathovāca bhagavān dhanvantariḥ ||

3.1३.१

सामान्यं कर्णरोधेषु घृतपानं रसायनम् । (३।१)

sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam |

3.2३.२

अव्यायामो ऽशिरःस्नानं ब्रह्मचर्यमकत्थनम् ॥ (३।२)

avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam ||

4.1४.१

कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि । (४।१)

karṇaśūle praṇāde ca bādhiryakṣveḍayorapi |

4.2४.२

चतुर्णाम् अपि रोगाणां सामान्यं भेषजं विदुः ॥ (४।२)

caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ ||

5.1५.१

स्निग्धं वातहरैः स्वेदैर् नरं स्नेहविरेचितम् । (५।१)

snigdhaṃ vātaharaiḥ svedair naraṃ snehavirecitam |

5.2५.२

नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ॥ (५।२)

nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca ||

6.1६.१

बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः । (६।१)

bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ |

6.2६.२

बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ॥ (६।२)

bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ ||

7.1७.१

आरनालशृतैरेभिर् नाडीस्वेदः प्रयोजितः । (७।१)

āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ |

7.2७.२

कफवातसमुत्थानं कर्णशूलं निरस्यति ॥ (७।२)

kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati ||

8.1८.१

मीनकुक्कुटलावानां मांसजैः पयसापि वा । (८।१)

mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā |

8.2८.२

पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम् ॥ (८।२)

piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam ||

9.1९.१

अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् । (९।१)

aśvatthapatrakhallaṃ vā vidhāya bahupatrakam |

9.2९.२

तदङ्गारैः सुसम्पूर्णं निदध्याच्छ्रवणोपरि ॥ (९।२)

tadaṅgāraiḥ susampūrṇaṃ nidadhyācchravaṇopari ||

10.1१०.१

यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात् । (१०।१)

yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt |

10.2१०.२

तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ॥ (१०।२)

tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām ||

11.1११.१

क्षौमगुग्गुल्वगुरुभिः सघृतैर् धूपयेच्च तम् । (११।१)

kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam |

11.2११.२

भक्तोपरि हितं सर्पिर्बस्तिकर्म च पूजितम् ॥ (११।२)

bhaktopari hitaṃ sarpirbastikarma ca pūjitam ||

12.1१२.१

निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः । (१२।१)

niranno niśi tatsarpiḥ pītvopari pibet payaḥ |

12.2१२.२

मूर्धबस्तिषु नस्ये च मस्तिष्के परिषेचने ॥ (१२।२)

mūrdhabastiṣu nasye ca mastiṣke pariṣecane ||

13.1१३.१

शतपाकं बलातैलं प्रशस्तं चापि भोजने । (१३।१)

śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane |

13.2१३.२

कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च ॥ (१३।२)

kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca ||

14.1१४.१

विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम् । (१४।१)

vipacet kukkuṭavasāṃ karṇayostatprapūraṇam |

14.2१४.२

तण्डुलीयकमूलानि फलमङ्कोलजं तथा ॥ (१४।२)

taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā ||

15.1१५.१

अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च । (१५।१)

ahiṃsrākendukānmūlaṃ saralaṃ devadāru ca |

15.2१५.२

लशुनं शृङ्गवेरं च तथा वंशावलेखनम् ॥ (१५।२)

laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam ||

16.1१६.१

कल्कैरेषां तथाम्लैश्च पचेत् स्नेहं चतुर्विधम् । (१६।१)

kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham |

16.2१६.२

वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् ॥ (१६।२)

vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam ||

17.1१७.१

लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च । (१७।१)

laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca |

17.2१७.२

कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥ (१७।२)

kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ||

18.1१८.१

शृङ्गवेररसः क्षौद्रं सैन्धवं तैलम् एव च । (१८।१)

śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca |

18.2१८.२

कदुष्णं कर्णयोर् देयमेतद्वा वेदनापहम् ॥ (१८।२)

kaduṣṇaṃ karṇayor deyametadvā vedanāpaham ||

19.1१९.१

वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक् । (१९।१)

vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak |

19.2१९.२

सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः ॥ (१९।२)

sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ ||

20.1२०.१

महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम् । (२०।१)

mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam |

20.2२०.२

क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ॥ (२०।२)

kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ ||

21.1२१.१

यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि । (२१।१)

yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari |

21.2२१.२

ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् ॥ (२१।२)

jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām ||

22.1२२.१

कुर्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले । (२२।१)

kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale |

22.2२२.२

मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् ॥ (२२।२)

matimān dīpikātailaṃ karṇaśūlanibarhaṇam ||

23.1२३.१

अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् । (२३।१)

arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān |

23.2२३.२

संनिदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते ॥ (२३।२)

saṃnidadhyāt snuhīkāṇḍe korite tacchadāvṛte ||

24.1२४.१

पुटपाकक्रमस्विन्नान् पीडयेद् आ रसागमात् । (२४।१)

puṭapākakramasvinnān pīḍayed ā rasāgamāt |

24.2२४.२

सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये ॥ (२४।२)

sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye ||

25.1२५.१

कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः । (२५।१)

kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ |

25.2२५.२

सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये ॥ (२५।२)

sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye ||

26.1२६.१

कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः । (२६।१)

karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ |

26.2२६.२

समुद्रफेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् ॥ (२६।२)

samudraphenacūrṇena yuktyā cāpyavacūrṇayet ||

27.1२७.१

अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु । (२७।१)

aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu |

27.2२७.२

कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये ॥ (२७।२)

koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye ||

28.1२८.१

मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक् । (२८।१)

mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak |

28.2२८.२

पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः ॥ (२८।२)

paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ ||

29.1२९.१

एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते । (२९।१)

etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute |

29.2२९.२

काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः ॥ (२९।२)

kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ ||

30.1३०.१

क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा । (३०।१)

kṣīravṛkṣapravāleṣu madhuke candane tathā |

30.2३०.२

कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ॥ (३०।२)

kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ ||

31.1३१.१

इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ । (३१।१)

iṅgudīsarṣapasnehau sakaphe pūraṇe hitau |

31.2३१.२

तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ॥ (३१।२)

tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ ||

32.1३२.१

सुरसादौ कृतं तैलं पञ्चमूले महत्यपि । (३२।१)

surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi |

32.2३२.२

मातुलुङ्गरसः शुक्तं लशुनार्द्रकयो रसः ॥ (३२।२)

mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ ||

33.1३३.१

एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम् । (३३।१)

ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam |

33.2३३.२

तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः ॥ (३३।२)

tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ ||

34.1३४.१

कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते । (३४।१)

karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte |

34.2३४.२

शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् ॥ (३४।२)

śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam ||

35.1३५.१

सामान्यतो विशेषेण बाधिर्ये पूरणं शृणु । (३५।१)

sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu |

35.2३५.२

गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत् ॥ (३५।२)

gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet ||

36.1३६.१

सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम् । (३६।१)

sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam |

36.2३६.२

सितामधुकबिम्बीभिः सिद्धं वाजे पयस्यपि ॥ (३६।२)

sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi ||

37.1३७.१

बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम् । (३७।१)

bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam |

37.2३७.२

पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ॥ (३७।२)

punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ ||

38.1३८.१

बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम् । (३८।१)

bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam |

38.2३८.२

वक्ष्यते यः प्रतिश्याये विधिः सो ऽप्यत्र पूजितः ॥ (३८।२)

vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ ||

39.1३९.१

वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् । (३९।१)

vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet |

39.2३९.२

कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ॥ (३९।२)

karṇasrāve pūtikarṇe tathaiva kṛmikarṇake ||

40.1४०.१

समानं कर्म कुर्वीत योगान् वैशेषिकान् अपि । (४०।१)

samānaṃ karma kurvīta yogān vaiśeṣikān api |

40.2४०.२

शिरोविरेचनं चैव धूपनं पूरणं तथा ॥ (४०।२)

śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā ||

41.1४१.१

प्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत् । (४१।१)

pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet |

41.2४१.२

राजवृक्षादितोयेन सुरसादिगणेन वा ॥ (४१।२)

rājavṛkṣāditoyena surasādigaṇena vā ||

42.1४२.१

कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम् । (४२।१)

karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam |

42.2४२.२

क्वाथं पञ्चकषायं तु कपित्थरसयोजितम् ॥ (४२।२)

kvāthaṃ pañcakaṣāyaṃ tu kapittharasayojitam ||

43.1४३.१

कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह । (४३।१)

karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha |

43.2४३.२

सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ॥ (४३।२)

sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ ||

44.1४४.१

योजितो मधुना वापि कर्णस्रावे प्रशस्यते । (४४।१)

yojito madhunā vāpi karṇasrāve praśasyate |

44.2४४.२

लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् ॥ (४४।२)

lākṣā rasāñjanaṃ sarjaścūrṇitaṃ karṇapūraṇam ||

45.1४५.१

सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम् । (४५।१)

saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam |

45.2४५.२

कुलीरक्षौद्रमण्डूकीसिद्धं तैलं च पूजितम् ॥ (४५।२)

kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam ||

46.1४६.१

तिन्दुकान्यभया रोध्रं समङ्गामलकं मधु । (४६।१)

tindukānyabhayā rodhraṃ samaṅgāmalakaṃ madhu |

46.2४६.२

पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् ॥ (४६।२)

pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam ||

47.1४७.१

रसमाम्रकपित्थानां मधूकधवशालजम् । (४७।१)

rasamāmrakapitthānāṃ madhūkadhavaśālajam |

47.2४७.२

पूरणार्थं प्रशंसन्ति तैलं वा तैर् विपाचितम् ॥ (४७।२)

pūraṇārthaṃ praśaṃsanti tailaṃ vā tair vipācitam ||

48.1४८.१

प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः । (४८।१)

priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ |

48.2४८.२

मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ॥ (४८।२)

mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā ||

49.1४९.१

पचेत्तैलं तदास्रावमवगृह्णाति पूरणात् । (४९।१)

pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt |

49.2४९.२

घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् ॥ (४९।२)

ghṛtaṃ rasāñjanaṃ nāryāḥ kṣīreṇa madhusaṃyutam ||

50.1५०.१

तत्प्रशस्तं चिरोत्थे ऽपि सास्रावे पूतिकर्णके । (५०।१)

tatpraśastaṃ cirotthe 'pi sāsrāve pūtikarṇake |

50.2५०.२

निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ॥ (५०।२)

nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ ||

51.1५१.१

पूरणः पूतिकर्णस्य शमनो मधुसंयुतः । (५१।१)

pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ |

51.2५१.२

कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम् ॥ (५१।२)

kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayedvidhim ||

52.1५२.१

वार्ताकुधूमश्च हितः सार्षपस्नेह एव च । (५२।१)

vārtākudhūmaśca hitaḥ sārṣapasneha eva ca |

52.2५२.२

कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ॥ (५२।२)

kṛmighnaṃ haritālena gavāṃ mūtrayutena ca ||

53.1५३.१

गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठम् उच्यते । (५३।१)

gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate |

53.2५३.२

छर्दनं धूमपानं च कवलस्य च धारणम् ॥ (५३।२)

chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam ||

54.1५४.१

कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम् । (५४।१)

karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam |

54.2५४.२

विद्रधौ चापि कुर्वीत विद्रध्युक्तं चिकित्सितम् ॥ (५४।२)

vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam ||

55.1५५.१

प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च । (५५।१)

prakledya dhīmāṃstailena svedena pravilāyya ca |

55.2५५.२

शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया ॥ (५५।२)

śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā ||

56.1५६.१

नाडीस्वेदो ऽथ वमनं धूमो मूर्धविरेचनम् । (५६।१)

nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam |

56.2५६.२

विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ॥ (५६।२)

vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati ||

57.1५७.१

अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् । (५७।१)

atha karṇapratīnāhe snehasvedau prayojayet |

57.2५७.२

ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ॥ (५७।२)

tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret ||

58.1५८.१

कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत् । (५८।१)

karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat |

58.2५८.२

कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा ॥ (५८।२)

karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā ||

59.1५९.१

शृङ्गेणापहरेद्धीमानथवापि शलाकया । (५९।१)

śṛṅgeṇāpahareddhīmānathavāpi śalākayā |

59.2५९.२

शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् ॥ (५९।२)

śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam ||

Data courtesy of The Digital Corpus of Sanskrit.

Su, 6, 21

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit