Ṛk 9.86.18
Saṃhitā
आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिंदो॒ पव॑स्व॒ पव॑मानो अ॒स्रिधं॑ ।
या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्यं॑ ॥
आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् |
या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम् ||
ā́ naḥ soma saṃyátam pipyúṣīmíṣamíndo pávasva pávamāno asrídham ǀ
yā́ no dóhate tríráhannásaścuṣī kṣumádvā́javanmádhumatsuvī́ryam ǁ
ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham |
yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam ||
Padapāṭha
आ । नः॒ । सो॒म॒ । स॒म्ऽयत॑म् । पि॒प्युषी॑म् । इष॑म् । इन्दो॒ इति॑ । पव॑स्व । पव॑मानः । अ॒स्रिध॑म् ।
या । नः॒ । दोह॑ते । त्रिः । अह॑न् । अस॑श्चुषी । क्षु॒ऽमत् । वाज॑ऽवत् । मधु॑ऽमत् । सु॒ऽवीर्य॑म् ॥
आ । नः । सोम । सम्ऽयतम् । पिप्युषीम् । इषम् । इन्दो इति । पवस्व । पवमानः । अस्रिधम् ।
या । नः । दोहते । त्रिः । अहन् । असश्चुषी । क्षुऽमत् । वाजऽवत् । मधुऽमत् । सुऽवीर्यम् ॥
ā́ ǀ naḥ ǀ soma ǀ sam-yátam ǀ pipyúṣīm ǀ íṣam ǀ índo íti ǀ pávasva ǀ pávamānaḥ ǀ asrídham ǀ
yā́ ǀ naḥ ǀ dóhate ǀ tríḥ ǀ áhan ǀ ásaścuṣī ǀ kṣu-mát ǀ vā́ja-vat ǀ mádhu-mat ǀ su-vī́ryam ǁ
ā ǀ naḥ ǀ soma ǀ sam-yatam ǀ pipyuṣīm ǀ iṣam ǀ indo iti ǀ pavasva ǀ pavamānaḥ ǀ asridham ǀ
yā ǀ naḥ ǀ dohate ǀ triḥ ǀ ahan ǀ asaścuṣī ǀ kṣu-mat ǀ vāja-vat ǀ madhu-mat ǀ su-vīryam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.086.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.15.03
- Maṇḍala · Anuvāka · Ṛk
- 09.05.018
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- 1-10: Akṛṣṭās (Alias Of Māṣā Sages); 11-20: Sikatās (Alias Of The Nivāvarī Sages); 21-30: Pṛṣṇis (Alias Of The Ajā Sages); 31-40: Atrayas; 41-45: Atri Bhauma; 46-48: Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.