Ṛk 9.86.41
Saṃhitā
स भं॒दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः॑ सु॒भरा॒ अह॑र्दिवि ।
ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इं॑द॒विंद्र॑म॒स्मभ्यं॑ याचतात् ॥
स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि |
ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात् ||
sá bhandánā údiyarti prajā́vatīrviśvā́yurvíśvāḥ subhárā áhardivi ǀ
bráhma prajā́vadrayímáśvapastyam pītá indavíndramasmábhyam yācatāt ǁ
sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi |
brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt ||
Padapāṭha
सः । भ॒न्दनाः॑ । उत् । इ॒य॒र्ति॒ । प्र॒जाऽव॑तीः । वि॒श्वऽआ॑युः । विश्वाः॑ । सु॒ऽभराः॑ । अहः॑ऽदिवि ।
ब्रह्म॑ । प्र॒जाऽव॑त् । र॒यिम् । अश्व॑ऽपस्त्यम् । पी॒तः । इ॒न्दो॒ इति॑ । इन्द्र॑म् । अ॒स्मभ्य॑म् । या॒च॒ता॒त् ॥
सः । भन्दनाः । उत् । इयर्ति । प्रजाऽवतीः । विश्वऽआयुः । विश्वाः । सुऽभराः । अहःऽदिवि ।
ब्रह्म । प्रजाऽवत् । रयिम् । अश्वऽपस्त्यम् । पीतः । इन्दो इति । इन्द्रम् । अस्मभ्यम् । याचतात् ॥
sáḥ ǀ bhandánāḥ ǀ út ǀ iyarti ǀ prajā́-vatīḥ ǀ viśvá-āyuḥ ǀ víśvāḥ ǀ su-bhárāḥ ǀ áhaḥ-divi ǀ
bráhma ǀ prajā́-vat ǀ rayím ǀ áśva-pastyam ǀ pītáḥ ǀ indo íti ǀ índram ǀ asmábhyam ǀ yācatāt ǁ
saḥ ǀ bhandanāḥ ǀ ut ǀ iyarti ǀ prajā-vatīḥ ǀ viśva-āyuḥ ǀ viśvāḥ ǀ su-bharāḥ ǀ ahaḥ-divi ǀ
brahma ǀ prajā-vat ǀ rayim ǀ aśva-pastyam ǀ pītaḥ ǀ indo iti ǀ indram ǀ asmabhyam ǀ yācatāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.086.41
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.20.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.041
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- 1-10: Akṛṣṭās (Alias Of Māṣā Sages); 11-20: Sikatās (Alias Of The Nivāvarī Sages); 21-30: Pṛṣṇis (Alias Of The Ajā Sages); 31-40: Atrayas; 41-45: Atri Bhauma; 46-48: Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.