Ṛk 9.86.21
Saṃhitā
अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिंधु॑भ्यो अभवदु लोक॒कृत् ।
अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद् उ लोककृत् |
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ||
ayám punāná uṣáso ví rocayadayám síndhubhyo abhavadu lokakṛ́t ǀ
ayám tríḥ saptá duduhāná āśíram sómo hṛdé pavate cā́ru matsaráḥ ǁ
ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt |
ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ ||
Padapāṭha
अ॒यम् । पु॒ना॒नः । उ॒षसः॑ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु॑ऽभ्यः । अ॒भ॒व॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् ।
अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒ऽशिर॑म् । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥
अयम् । पुनानः । उषसः । वि । रोचयत् । अयम् । सिन्धुऽभ्यः । अभवत् । ऊं इति । लोकऽकृत् ।
अयम् । त्रिः । सप्त । दुदुहानः । आऽशिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥
ayám ǀ punānáḥ ǀ uṣásaḥ ǀ ví ǀ rocayat ǀ ayám ǀ síndhu-bhyaḥ ǀ abhavat ǀ ūṃ íti ǀ loka-kṛ́t ǀ
ayám ǀ tríḥ ǀ saptá ǀ duduhānáḥ ǀ ā-śíram ǀ sómaḥ ǀ hṛdé ǀ pavate ǀ cā́ru ǀ matsaráḥ ǁ
ayam ǀ punānaḥ ǀ uṣasaḥ ǀ vi ǀ rocayat ǀ ayam ǀ sindhu-bhyaḥ ǀ abhavat ǀ ūṃ iti ǀ loka-kṛt ǀ
ayam ǀ triḥ ǀ sapta ǀ duduhānaḥ ǀ ā-śiram ǀ somaḥ ǀ hṛde ǀ pavate ǀ cāru ǀ matsaraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.086.21
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.16.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.021
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- 1-10: Akṛṣṭās (Alias Of Māṣā Sages); 11-20: Sikatās (Alias Of The Nivāvarī Sages); 21-30: Pṛṣṇis (Alias Of The Ajā Sages); 31-40: Atrayas; 41-45: Atri Bhauma; 46-48: Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.