MPur, 101
Select a line for its word-by-word analysis.
अथातः सम्प्रवक्ष्यामि व्रतषष्ठीमनुत्तमाम् । (१।२)
athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām |
नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने । (२।१)
naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine |
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी ॥ (२।२)
haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī ||
धेनुं तिलमयीं दद्यात्स पदं याति शांकरम् । (४।२)
dhenuṃ tilamayīṃ dadyātsa padaṃ yāti śāṃkaram |
स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ॥ (५।३)
sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam ||
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् । (७।१)
varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam |
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम् ॥ (७।२)
dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam ||
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः । (९।१)
puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ |
अशोकं काञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम् ॥ (९।२)
aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam ||
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति । (१०।१)
viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti |
कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः । (१०।२)
kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ |
वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम् ॥ (११।२)
vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam ||
कार्त्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् । (१२।१)
kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet |
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम् ॥ (१३।२)
puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam ||
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ । (१४।१)
dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau |
दत्त्वा परं पदं याति सौम्यव्रतमिदं स्मृतम् ॥ (१४।२)
dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam ||
फाल्गुन्यादितृतीयायां लवणं यस्तु वर्जयेत् । (१५।१)
phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet |
समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् ॥ (१५।२)
samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam ||
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते ॥ (१६।२)
gaurīloke vasetkalpaṃ saubhāgyavratamucyate ||
संध्यामौनं ततः कृत्वा समान्ते घृतकुम्भकम् । (१७।१)
saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam |
वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत् ॥ (१७।२)
vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet ||
लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भवेन्नरः । (१९।१)
lakṣmīmabhyarcya pañcamyāmupavāsī bhavennaraḥ |
स वैष्णवं पदं याति लक्ष्मीवाञ्जन्मजन्मनि । (२०।१)
sa vaiṣṇavaṃ padaṃ yāti lakṣmīvāñjanmajanmani |
यावदब्दं पुनर्दद्याद्धेनुं जलघटान्विताम् ॥ (२१।२)
yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām ||
जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् । (२२।१)
janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet |
अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः । (२३।१)
aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ |
व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् । (२४।१)
vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam |
वृक्षं हिरण्मयं दद्यात्सोऽश्वमेधफलं लभेत् । (२४।२)
vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet |
एतत् कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ॥ (२४।३)
etat kīrtivrataṃ nāma bhūtikīrtiphalapradam ||
घृतेन स्नपनं कुर्याच्छम्भोर् वा केशवस्य च । (२५।१)
ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca |
अक्षताभिः सुपुष्पाभिः कृत्वा गोमयमण्डलम् ॥ (२५।२)
akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam ||
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः । (२७।१)
navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ |
हैमं सिंहं च विप्राय दत्त्वा शिवपदं व्रजेत् । (२८।१)
haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet |
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः । (२८।२)
janmārbudaṃ surūpaḥ syācchatrubhiścāparājitaḥ |
यावत्समा भवेद्यस्तु पञ्चदश्यां पयोव्रतः । (२९।१)
yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ |
समान्ते श्राद्धकृद्दद्यात्पञ्च गास्तु पयस्विनीः ॥ (२९।२)
samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ ||
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् । (३०।२)
sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam |
कल्पान्ते राजराजः स्यात् पितृव्रतम् इदं स्मृतम् ॥ (३०।३)
kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam ||
व्रतान्ते मणिकं दद्यादन्नवस्त्रसमन्वितम् ॥ (३१।२)
vratānte maṇikaṃ dadyādannavastrasamanvitam ||
कल्पान्ते भूपतिर्नूनम् आनन्दव्रतमुच्यते ॥ (३२।२)
kalpānte bhūpatirnūnam ānandavratamucyate ||
पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः । (३३।१)
pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ |
वत्सरान्ते पुनर्दद्याद्धेनुं पञ्चामृतेन हि ॥ (३३।२)
vatsarānte punardadyāddhenuṃ pañcāmṛtena hi ||
विप्राय दद्याच्छङ्खं च स पदं याति शांकरम् । (३४।१)
viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram |
राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम् ॥ (३४।२)
rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam ||
वर्जयित्वा पुमान्मांसमब्दान्ते गोप्रदो भवेत् । (३५।१)
varjayitvā pumānmāṃsamabdānte goprado bhavet |
तद्वद्धेममृगं दद्यात्सोऽश्वमेधफलं लभेत् । (३५।२)
tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet |
अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत् ॥ (३५।३)
ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet ||
माघमास्युषसि स्नानं कृत्वा दाम्पत्यमर्चयेत् । (३६।१)
māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet |
भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणः । (३६।२)
bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ |
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ॥ (३६।३)
sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam ||
विप्रेषु भोजनं दद्यात्कार्त्तिक्यां गोप्रदो भवेत् । (३७।२)
vipreṣu bhojanaṃ dadyātkārttikyāṃ goprado bhavet |
स वैष्णवं पदं याति विष्णुव्रतमिदं शुभम् ॥ (३७।३)
sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham ||
दत्त्वा शिवपदं गच्छेद्विप्राय घृतपायसम् । (३९।१)
dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam |
संध्यादीपप्रदो यस्तु समां तैलं विवर्जयेत् । (४०।१)
saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet |
समान्ते दीपिकां दद्याच्चक्रशूले च काञ्चने ॥ (४०।२)
samānte dīpikāṃ dadyāccakraśūle ca kāñcane ||
वस्त्रयुग्मं च विप्राय तेजस्वी स भवेदिह । (४१।१)
vastrayugmaṃ ca viprāya tejasvī sa bhavediha |
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम् ॥ (४१।२)
rudralokamavāpnoti dīptivratamidaṃ smṛtam ||
कार्त्तिक्यादितृतीयायां प्राश्य गोमूत्रयावकम् । (४२।१)
kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam |
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत् ॥ (४२।२)
naktaṃ caredabdamekamabdānte goprado bhavet ||
वर्जयेच्चैत्रमासे च यश्च गन्धानुलेपनम् । (४४।१)
varjayeccaitramāse ca yaśca gandhānulepanam |
शुक्तिं गन्धभृतां दत्त्वा विप्राय सितवाससी । (४४।२)
śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī |
भूत्वा विषादे कल्पं स्थित्वा राजा भवेदिह । (४५।२)
bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha |
एतत्कान्तिव्रतं नाम कान्तिकीर्तिफलप्रदम् ॥ (४५।३)
etatkāntivrataṃ nāma kāntikīrtiphalapradam ||
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितम् । (४६।१)
brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam |
त्र्यहं तिलप्रदो भूत्वा वह्निं संतर्प्य सद्विजम् ॥ (४६।२)
tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam ||
सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः । (४७।१)
sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ |
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति ॥ (४७।२)
śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti ||
पुण्येऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम् । (४८।१)
puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam |
यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम् । (४९।१)
yaścobhayamukhīṃ dadyātprabhūtakanakānvitām |
दिनं पयोव्रतस्तिष्ठेत्स याति परमं पदम् । (४९।२)
dinaṃ payovratastiṣṭhetsa yāti paramaṃ padam |
त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्पपादपम् । (५०।१)
tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam |
पलादूर्ध्वं यथाशक्त्या तण्डुलैस् तूपसंयुतम् । (५०।२)
palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam |
दत्त्वा ब्रह्मपदं याति कल्पव्रतमिदं स्मृतम् ॥ (५०।३)
dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam ||
मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम् । (५१।१)
māsopavāsī yo dadyāddhenuṃ viprāya śobhanām |
स वैष्णवं पदं यति भीमव्रतमिदं स्मृतम् ॥ (५१।२)
sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam ||
दद्याद् विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम् । (५२।१)
dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm |
धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम् ॥ (५२।३)
dharāvratamidaṃ proktaṃ saptakalpaśatānugam ||
माघे मासेऽथवा चैत्रे गुडधेनुप्रदो भवेत् । (५३।१)
māghe māse'thavā caitre guḍadhenuprado bhavet |
पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम् । (५४।१)
pakṣopavāsī yo dadyādviprāya kapilādvayam |
कल्पान्ते राजराजः स्यात् प्रभाव्रतमिदं स्मृतम् ॥ (५४।३)
kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam ||
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुम्भदः । (५५।१)
vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ |
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ॥ (५५।२)
śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam ||
नक्ताशी चाष्टमीषु स्याद्वत्सरान्ते च धेनुदः । (५६।१)
naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ |
विप्रायेन्धनदो यस्तु वर्षादिचतुरस्त्वृतून् । (५७।१)
viprāyendhanado yastu varṣādicaturastvṛtūn |
घृतधेनुप्रदोऽन्ते च स परं ब्रह्म गच्छति । (५७।२)
ghṛtadhenuprado'nte ca sa paraṃ brahma gacchati |
एकादश्यां च नक्ताशी यश्चक्रं विनिवेदयेत् । (५८।१)
ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet |
समान्ते वैष्णवं हैमं स विष्णोः पदमाप्नुयात् । (५८।२)
samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt |
एतत् कृष्णव्रतं नाम कल्पान्ते राज्यभाग्भवेत् ॥ (५८।३)
etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet ||
पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम् । (५९।१)
pāyasāśī samānte tu dadyādviprāya goyugam |
लक्ष्मीलोकमवाप्नोति ह्येतद् देवीव्रतं स्मृतम् ॥ (५९।२)
lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam ||
सप्तम्यां नक्तभुग्दद्यात्समान्ते गां पयस्विनीम् । (६०।१)
saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm |
चतुर्थ्यां नक्तभुग्दद्यादब्दान्ते हेमवारणम् । (६१।१)
caturthyāṃ naktabhugdadyādabdānte hemavāraṇam |
महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये । (६२।१)
mahāphalāni yastyaktvā caturmāsaṃ dvijātaye |
हैमानि कार्त्तिके दद्याद्गोयुगेन समन्वितम् । (६२।२)
haimāni kārttike dadyādgoyugena samanvitam |
यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् । (६३।१)
yaścopavāsī saptamyāṃ samānte haimapaṅkajam |
गाश्च वै शक्तितो दद्याद्धेमान्नघटसंयुताः । (६३।२)
gāśca vai śaktito dadyāddhemānnaghaṭasaṃyutāḥ |
गोवस्त्रकाञ्चनैर्विप्रान्पूजयेच्छक्तितो नरः । (६४।२)
govastrakāñcanairviprānpūjayecchaktito naraḥ |
परमं पदं प्राप्नोति विष्णुव्रतमिदं स्मृतम् ॥ (६४।३)
paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam ||
कार्त्तिक्यां च वृषोत्सर्गं कृत्वा नक्तं समाचरेत् । (६५।१)
kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret |
शैवं पदमवाप्नोति वार्षव्रतमिदं स्मृतम् ॥ (६५।२)
śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam ||
कृच्छ्रान्ते गोप्रदः कुर्याद्भोजनं शक्तितः पदम् । (६६।१)
kṛcchrānte gopradaḥ kuryādbhojanaṃ śaktitaḥ padam |
विप्राणां शांकरं याति प्राजापत्यमिदं व्रतम् ॥ (६६।२)
viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam ||
चतुर्दश्यां तु नक्ताशी समान्ते गोधनप्रदः । (६७।१)
caturdaśyāṃ tu naktāśī samānte godhanapradaḥ |
शैवं पदमवाप्नोति त्रैयम्बकमिदं व्रतम् ॥ (६७।२)
śaivaṃ padamavāpnoti traiyambakamidaṃ vratam ||
सप्तरात्रोषितो दद्याद्घृतकुम्भं द्विजातये । (६८।१)
saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye |
घृतव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम् ॥ (६८।२)
ghṛtavratamidaṃ prāhurbrahmalokaphalapradam ||
शक्रलोके वसेन्नित्यम् इन्द्रव्रतमिदं स्मृतम् ॥ (६९।२)
śakraloke vasennityam indravratamidaṃ smṛtam ||
अनग्निपक्कम् अश्नाति तृतीयायां तु यो नरः । (७०।१)
anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ |
गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् । (७०।२)
gāṃ dattvā śivamabhyeti punarāvṛttidurlabham |
इह चानन्दकृत्पुंसां श्रेयोव्रतमिदं स्मृतम् ॥ (७०।३)
iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam ||
हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् । (७१।१)
haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam |
कल्पान्ते राजराजः स्यादश्वव्रतमिदं स्मृतम् ॥ (७१।३)
kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam ||
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं नरः । (७२।१)
tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ |
भवेदुपोषितो भूत्वा करिव्रतमिदं स्मृतम् ॥ (७२।३)
bhavedupoṣito bhūtvā karivratamidaṃ smṛtam ||
यक्षाधिपत्यमाप्नोति सुखव्रतमिदं स्मृतम् ॥ (७३।२)
yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam ||
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् । (७४।१)
niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet |
चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत् । (७५।१)
cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet |
चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम् ॥ (७५।२)
candravratamidaṃ proktaṃ candralokaphalapradam ||
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् । (७६।१)
jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam |
यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम् ॥ (७६।२)
yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam ||
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत् । (७८।१)
māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet |
दिवि कल्पमुषित्वेह राजा स्यात्पवनं व्रतम् ॥ (७८।२)
divi kalpamuṣitveha rājā syātpavanaṃ vratam ||
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम् । (७९।१)
trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham |
त्रिसंध्यं पूज्य दाम्पत्यमुपवासी विभूषणैः । (८०।१)
trisaṃdhyaṃ pūjya dāmpatyamupavāsī vibhūṣaṇaiḥ |
अन्नं गाश्च समाप्नोति मोक्षमिन्द्रव्रतादिह ॥ (८०।२)
annaṃ gāśca samāpnoti mokṣamindravratādiha ||
समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् । (८१।२)
samānte goprado yāti viprāya śivamandiram |
कल्पान्ते राजराजः स्यात्सोमव्रतमिदं स्मृतम् ॥ (८१।३)
kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam ||
दिशश्च काञ्चनैर्दद्याद्ब्रह्माण्डाधिपतिर्भवेत् । (८३।२)
diśaśca kāñcanairdadyādbrahmāṇḍādhipatirbhavet |
यः पठेच्छृणुयाद्वापि व्रतषष्टिम् अनुत्तमाम् । (८४।१)
yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām |
मन्वन्तरशतं सोऽपि गन्धर्वाधिपतिर्भवेत् ॥ (८४।२)
manvantaraśataṃ so'pi gandharvādhipatirbhavet ||
षष्टिव्रतं नारद पुण्यमेतत्तवोदितं विश्वजनीनमन्यत् । (८५।१)
ṣaṣṭivrataṃ nārada puṇyametattavoditaṃ viśvajanīnamanyat |
श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वाकथनीयम् अस्ति ॥ (८५।२)
śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti ||
Data courtesy of The Digital Corpus of Sanskrit.