मत्स्यपुराणMatsyapurāṇa

MPur, 22

21 of 175 · 192 verses

Select a line for its word-by-word analysis.

1.1१.१

ऋषय ऊचुः । (१।१)

ṛṣaya ūcuḥ |

1.2१.२

कस्मिन्काले च तच्छ्राद्धमनन्तफलदं भवेत् । (१।२)

kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet |

1.3१.३

कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् । (१।३)

kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret |

1.4१.४

तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत् ॥ (१।४)

tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet ||

2.1२.१

सूत उवाच । (२।१)

sūta uvāca

2.2२.२

अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये । (२।२)

aparāhṇe tu samprāpte abhijidrauhiṇodaye |

2.3२.३

यत्किंचिद्दीयते तत्र तदक्षयमुदाहृतम् ॥ (२।३)

yatkiṃciddīyate tatra tadakṣayamudāhṛtam ||

3.1३.१

तीर्थानि यानि शस्तानि पितॄणां वल्लभानि च । (३।१)

tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca |

3.2३.२

नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः ॥ (३।२)

nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ ||

4.1४.१

पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् । (४।१)

pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham |

4.2४.२

यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥ (४।२)

yatrāste devadeveśaḥ svayameva pitāmahaḥ ||

5.0५.०

तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥ (५।०)

tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ ||

6.1६.१

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजते । (६।१)

eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajate |

6.2६.२

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ (६।२)

yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet ||

7.1७.१

तथा वाराणसी पुण्या पितॄणां वल्लभा सदा । (७।१)

tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā |

7.2७.२

यत्राविमुक्तसांनिध्यं भुक्तिमुक्तिफलप्रदम् ॥ (७।२)

yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam ||

8.1८.१

पितॄणां वल्लभं तद्वत्पुण्यं च विमलेश्वरम् । (८।१)

pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram |

8.2८.२

पितृतीर्थं प्रयागं तु सर्वकामफलप्रदम् ॥ (८।२)

pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam ||

9.1९.१

वटेश्वरस्तु भगवान्माधवेन समन्वितः । (९।१)

vaṭeśvarastu bhagavānmādhavena samanvitaḥ |

9.2९.२

योगनिद्राशयस्तद्वत्सदा वसति केशवः ॥ (९।२)

yoganidrāśayastadvatsadā vasati keśavaḥ ||

10.1१०.१

दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव । (१०।१)

daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva |

10.2१०.२

नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा ॥ (१०।२)

nandātha lalitā tadvattīrthaṃ māyāpurī śubhā ||

11.1११.१

तथा मित्रपदं नाम ततः केदारमुत्तमम् । (११।१)

tathā mitrapadaṃ nāma tataḥ kedāramuttamam |

11.2११.२

गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् ॥ (११।२)

gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham ||

12.1१२.१

तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिले ह्रदे । (१२।१)

tīrthaṃ brahmasarastadvacchatadrusalile hrade |

12.2१२.२

तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम् ॥ (१२।२)

tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam ||

13.1१३.१

गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः । (१३।१)

gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ |

13.2१३.२

तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥ (१३।२)

tathā yajñavarāhastu devadevaśca śūlabhṛt ||

14.1१४.१

यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः । (१४।१)

yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ |

14.2१४.२

नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ॥ (१४।२)

nemistu haricakrasya śīrṇā yatrābhavatpurā ||

15.1१५.१

तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम् । (१५।१)

tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam |

15.2१५.२

देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥ (१५।२)

devadevasya tatrāpi vārāhasya tu darśanam ||

16.1१६.१

यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् । (१६।१)

yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet |

16.2१६.२

कृतशौचं महापुण्यं सर्वपापनिषूदनम् ॥ (१६।२)

kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam ||

17.1१७.१

यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः । (१७।१)

yatrāste nārasiṃhastu svayameva janārdanaḥ |

17.2१७.२

तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥ (१७।२)

tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā ||

18.1१८.१

संगमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा । (१८।१)

saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā |

18.2१८.२

कुरुक्षेत्रं महापुण्यं सर्वतीर्थसमन्वितम् ॥ (१८।२)

kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam ||

19.1१९.१

तथा च सरयूः पुण्या सर्वदेवनमस्कृता । (१९।१)

tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā |

19.2१९.२

इरावती नदी तद्वत्पितृतीर्थाधिवासिनी ॥ (१९।२)

irāvatī nadī tadvatpitṛtīrthādhivāsinī ||

20.1२०.१

यमुना देविका काली चन्द्रभागा दृषद्वती । (२०।१)

yamunā devikā kālī candrabhāgā dṛṣadvatī |

20.2२०.२

नदी वेणुमती पुण्या परा वेत्रवती तथा ॥ (२०।२)

nadī veṇumatī puṇyā parā vetravatī tathā ||

21.1२१.१

पितॄणां वल्लभा ह्य् एताः श्राद्धे कोटिगुणा मताः । (२१।१)

pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ |

21.2२१.२

जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥ (२१।२)

jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate ||

22.1२२.१

अद्यापि पितृतीर्थं तत्सर्वकामफलप्रदम् । (२२।१)

adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam |

22.2२२.२

नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः ॥ (२२।२)

nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ ||

23.1२३.१

तथा रुद्रसरः पुण्यं सरो मानसमेव च । (२३।१)

tathā rudrasaraḥ puṇyaṃ saro mānasameva ca |

23.2२३.२

मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती । (२३।२)

mandākinī tathācchodā vipāśātha sarasvatī |

23.3२३.३

पूर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम् । (२३।३)

pūrvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam |

23.4२३.४

क्षिप्रा नदी महाकालस्तथा कालञ्जरं शुभम् ॥ (२३।४)

kṣiprā nadī mahākālastathā kālañjaraṃ śubham ||

24.1२४.१

वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् । (२४।१)

vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam |

24.2२४.२

भद्रेश्वरं विष्णुपदं नर्मदाद्वारमेव च ॥ (२४।२)

bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca ||

25.1२५.१

गयापिण्डप्रदानेन समान्याहुर् महर्षयः । (२५।१)

gayāpiṇḍapradānena samānyāhur maharṣayaḥ |

25.2२५.२

एतानि पितृतीर्थानि सर्वपापहराणि च ॥ (२५।२)

etāni pitṛtīrthāni sarvapāpaharāṇi ca ||

26.1२६.१

स्मरणादपि लोकानां किम् उ श्राद्धकृतां नृणाम् । (२६।१)

smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām |

26.2२६.२

ॐकारं पितृतीर्थं च कावेरी कपिलोदकम् ॥ (२६।२)

oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam ||

27.1२७.१

सम्भेदश् चण्डवेगायास्तथैवामरकण्टकम् । (२७।१)

sambhedaś caṇḍavegāyāstathaivāmarakaṇṭakam |

27.2२७.२

कुरुक्षेत्राच्छतगुणं तस्मिन्स्नानादिकं भवेत् ॥ (२७।२)

kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet ||

28.1२८.१

शुक्रतीर्थं च विख्यातं तीर्थं सोमेश्वरं परम् । (२८।१)

śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param |

28.2२८.२

सर्वव्याधिहरं पुण्यं शतकोटिफलाधिकम् ॥ (२८।२)

sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam ||

29.1२९.१

श्राद्धे दाने तथा होमे स्वाध्याये जलसंनिधौ । (२९।१)

śrāddhe dāne tathā home svādhyāye jalasaṃnidhau |

29.2२९.२

कायावरोहणं नाम तथा चर्मण्वती नदी ॥ (२९।२)

kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī ||

30.1३०.१

गोमती वरणा तद्वत्तीर्थमौशनसं परम् । (३०।१)

gomatī varaṇā tadvattīrthamauśanasaṃ param |

30.2३०.२

भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम् ॥ (३०।२)

bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam ||

31.1३१.१

तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् । (३१।१)

tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param |

31.2३१.२

तथा पापहरं नाम पुण्याथ तपती नदी ॥ (३१।२)

tathā pāpaharaṃ nāma puṇyātha tapatī nadī ||

32.1३२.१

मूलतापी पयोष्णी च पयोष्णीसंगमस्तथा । (३२।१)

mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā |

32.2३२.२

महाबोधिः पाटला च नागतीर्थमवन्तिका ॥ (३२।२)

mahābodhiḥ pāṭalā ca nāgatīrthamavantikā ||

33.1३३.१

तथा वेणा नदी पुण्या महाशालं तथैव च । (३३।१)

tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca |

33.2३३.२

महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥ (३३।२)

mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā ||

34.1३४.१

शतरुद्रा शताह्वा च तथा विश्वपदं परम् । (३४।१)

śatarudrā śatāhvā ca tathā viśvapadaṃ param |

34.2३४.२

अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ ॥ (३४।२)

aṅgāravāhikā tadvannadau tau śoṇaghargharau ||

35.1३५.१

कालिका च नदी पुण्या वितस्ता च नदी तथा । (३५।१)

kālikā ca nadī puṇyā vitastā ca nadī tathā |

35.2३५.२

एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥ (३५।२)

etāni pitṛtīrthāni śasyante snānadānayoḥ ||

36.1३६.१

श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम् । (३६।१)

śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam |

36.2३६.२

द्रोणी वाटनदी धारासरित्क्षीरनदी तथा ॥ (३६।२)

droṇī vāṭanadī dhārāsaritkṣīranadī tathā ||

37.1३७.१

गोकर्णं गजकर्णं च तथा च पुरुषोत्तमः । (३७।१)

gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ |

37.2३७.२

द्वारका कृष्णतीर्थं च तथार्बुदसरस्वती ॥ (३७।२)

dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī ||

38.1३८.१

नदी मणिमती नाम तथा च गिरिकर्णिका । (३८।१)

nadī maṇimatī nāma tathā ca girikarṇikā |

38.2३८.२

धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥ (३८।२)

dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā ||

39.1३९.१

एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते । (३९।१)

eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute |

39.2३९.२

तीर्थं मेघकरं नाम स्वयमेव जनार्दनः ॥ (३९।२)

tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ ||

40.1४०.१

यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः । (४०।१)

yatra śārṅgadharo viṣṇurmekhalāyāmavasthitaḥ |

40.2४०.२

तथा मन्दोदरीतीर्थं तीर्थं चम्पा नदी शुभा ॥ (४०।२)

tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā ||

41.1४१.१

तथा सामलनाथश्च महाशालनदी तथा । (४१।१)

tathā sāmalanāthaśca mahāśālanadī tathā |

41.2४१.२

चक्रवाकं चर्मकोटं तथा जन्मेश्वरं महत् ॥ (४१।२)

cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat ||

42.1४२.१

अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् । (४२।१)

arjunaṃ tripuraṃ caiva siddheśvaramataḥ param |

42.2४२.२

श्रीशैलं शांकरं तीर्थं नारसिंहमतः परम् ॥ (४२।२)

śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param ||

43.1४३.१

महेन्द्रं च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् । (४३।१)

mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam |

43.2४३.२

एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् ॥ (४३।२)

eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam ||

44.1४४.१

दर्शनादपि चैतानि सद्यः पापहराणि वै । (४४।१)

darśanādapi caitāni sadyaḥ pāpaharāṇi vai |

44.2४४.२

तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥ (४४।२)

tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit ||

45.1४५.१

भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी । (४५।१)

bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī |

45.2४५.२

नदी गोदावरी नाम त्रिसंध्या तीर्थमुत्तमम् ॥ (४५।२)

nadī godāvarī nāma trisaṃdhyā tīrthamuttamam ||

46.1४६.१

तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम् । (४६।१)

tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam |

46.2४६.२

यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥ (४६।२)

yatrāste bhagavānīśaḥ svayameva trilocanaḥ ||

47.1४७.१

श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत् । (४७।१)

śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet |

47.2४७.२

स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः ॥ (४७।२)

smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ ||

48.1४८.१

श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम् । (४८।१)

śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam |

48.2४८.२

तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥ (४८।२)

tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca ||

49.1४९.१

भद्रतीर्थं च विख्यातं पम्पातीर्थं च शाश्वतम् । (४९।१)

bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam |

49.2४९.२

पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम् ॥ (४९।२)

puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ puram ||

50.1५०.१

अङ्गभूतं च विख्यातम् आमर्दकम् अलम्भुषम् । (५०।१)

aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam |

50.2५०.२

आम्रातकेश्वरं तद्वदेकाम्भकमतः परम् ॥ (५०।२)

āmrātakeśvaraṃ tadvadekāmbhakamataḥ param ||

51.1५१.१

गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् । (५१।१)

govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam |

51.2५१.२

सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥ (५१।२)

sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī ||

52.1५२.१

रामाधिवासस्तत्रापि तथा सौमित्रिसंगमः । (५२।१)

rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ |

52.2५२.२

इन्द्रकीलं महानादं तथा च प्रियमेलकम् ॥ (५२।२)

indrakīlaṃ mahānādaṃ tathā ca priyamelakam ||

53.1५३.१

एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु । (५३।१)

etānyapi sadā śrāddhe praśastānyadhikāni tu |

53.2५३.२

एतेषु सर्वदेवानां सांनिध्यं दृश्यते यतः ॥ (५३।२)

eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ ||

54.1५४.१

दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम् । (५४।१)

dānameteṣu sarveṣu dattaṃ koṭiśatādhikam |

54.2५४.२

बाहुदा च नदीपुण्या तथा सिद्धवनं शुभम् ॥ (५४।२)

bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham ||

55.1५५.१

तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा । (५५।१)

tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā |

55.2५५.२

श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम् ॥ (५५।२)

śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram ||

56.1५६.१

तथैव पितृतीर्थं तु यत्र गोदावरी नदी । (५६।१)

tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī |

56.2५६.२

युता लिङ्गसहस्रेण सर्वान्तरजलावहा ॥ (५६।२)

yutā liṅgasahasreṇa sarvāntarajalāvahā ||

57.1५७.१

जामदग्न्यस्य तत्तीर्थं क्रमाद् आयातमुत्तमम् । (५७।१)

jāmadagnyasya tattīrthaṃ kramād āyātamuttamam |

57.2५७.२

प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥ (५७।२)

pratīkasya bhayādbhinnaṃ yatra godāvarī nadī ||

58.1५८.१

तत्तीर्थं हव्यकव्यानाम् अप्सरोयुगसंज्ञितम् । (५८।१)

tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam |

58.2५८.२

श्राद्धाग्निकार्यदानेषु तथा कोटिशताधिकम् ॥ (५८।२)

śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam ||

59.1५९.१

तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम् । (५९।१)

tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam |

59.2५९.२

सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥ (५९।२)

sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā ||

60.1६०.१

निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् । (६०।१)

nihatya namuciṃ śakrastapasā svargamāptavān |

60.2६०.२

तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥ (६०।२)

tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet ||

61.1६१.१

तीर्थं तु पुष्करं नाम शालग्रामं तथैव च । (६१।१)

tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca |

61.2६१.२

सोमपानं च विख्यातं यत्र वैश्वानरालयम् ॥ (६१।२)

somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam ||

62.1६२.१

तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च । (६२।१)

tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca |

62.2६२.२

मलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥ (६२।२)

malaṃdarā nadī puṇyā kauśikī candrikā tathā ||

63.1६३.१

वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा । (६३।१)

vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā |

63.2६३.२

कावेरी चोत्तरा पुण्या तथा जालंधरो गिरिः ॥ (६३।२)

kāverī cottarā puṇyā tathā jālaṃdharo giriḥ ||

64.1६४.१

एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते । (६४।१)

eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute |

64.2६४.२

लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥ (६४।२)

lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca ||

65.1६५.१

विन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम् । (६५।१)

vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham |

65.2६५.२

कुब्जाभ्रं तु तथा तीर्थमुर्वशीपुलिनं तथा ॥ (६५।२)

kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā ||

66.1६६.१

संसारमोचनं तीर्थं तथैव ऋणमोचनम् । (६६।१)

saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam |

66.2६६.२

एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यमश्नुते ॥ (६६।२)

eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute ||

67.1६७.१

अट्टहासं तथा तीर्थं गौतमेश्वरमेव च । (६७।१)

aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca |

67.2६७.२

तथा वसिष्ठतीर्थं नु हारीतं तु ततः परम् ॥ (६७।२)

tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param ||

68.1६८.१

ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च । (६८।१)

brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca |

68.2६८.२

पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥ (६८।२)

piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca ||

69.1६९.१

घण्टेश्वरं बिल्वकं च नीलपर्वतमेव च । (६९।१)

ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca |

69.2६९.२

तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥ (६९।२)

tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca ||

70.1७०.१

अश्वतीर्थं च विख्यातमनन्तं श्राद्धदानयोः । (७०।१)

aśvatīrthaṃ ca vikhyātamanantaṃ śrāddhadānayoḥ |

70.2७०.२

तीर्थं वेदशिरो नाम तथैवौघवती नदी ॥ (७०।२)

tīrthaṃ vedaśiro nāma tathaivaughavatī nadī ||

71.1७१.१

तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च । (७१।१)

tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca |

71.2७१.२

एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥ (७१।२)

eteṣu śrāddhadātāraḥ prayānti paramaṃ padam ||

72.1७२.१

तथाच बदरीतीर्थं गणतीर्थं तथैव च । (७२।१)

tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca |

72.2७२.२

जयन्तं विजयं चैव शक्रतीर्थं तथैव च ॥ (७२।२)

jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca ||

73.1७३.१

श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा । (७३।१)

śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā |

73.2७३.२

तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥ (७३।२)

tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā ||

74.1७४.१

वैकुण्ठतीर्थं च परं भीमेश्वरमथापि वा । (७४।१)

vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaramathāpi vā |

74.2७४.२

एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥ (७४।२)

eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim ||

75.1७५.१

तीर्थं मातृगृहं नाम करवीरपुरं तथा । (७५।१)

tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā |

75.2७५.२

कुशेशयं च विख्यातं गौरीशिखरमेव च ॥ (७५।२)

kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca ||

76.1७६.१

नकुलेशस्य तीर्थं च कर्दमालं तथैव च । (७६।१)

nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca |

76.2७६.२

दिण्डिपुण्यकरं तद्वत्पुण्डरीकपुरं तथा ॥ (७६।२)

diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā ||

77.1७७.१

सप्तगोदावरीतीर्थं सर्वतीर्थेश्वरेश्वरम् । (७७।१)

saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram |

77.2७७.२

तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥ (७७।२)

tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ ||

78.1७८.१

एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया । (७८।१)

eṣa tūddeśataḥ proktastīrthānāṃ saṃgraho mayā |

78.2७८.२

वागीशोऽपि न शक्नोति विस्तरात् किम् उ मानुषः ॥ (७८।२)

vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ ||

79.1७९.१

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः । (७९।१)

satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ |

79.2७९.२

वर्णाश्रमाणां गेहेऽपि तीर्थं तु समुदाहृतम् ॥ (७९।२)

varṇāśramāṇāṃ gehe'pi tīrthaṃ tu samudāhṛtam ||

80.1८०.१

एतत्तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते । (८०।१)

etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate |

80.2८०.२

यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥ (८०।२)

yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret ||

81.1८१.१

प्रातःकालो मुहूर्तांस् त्रीन् संगवस् तावदेव तु । (८१।१)

prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu |

81.2८१.२

मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥ (८१।२)

madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param ||

82.1८२.१

सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् । (८२।१)

sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet |

82.2८२.२

राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥ (८२।२)

rākṣasī nāma sā velā garhitā sarvakarmasu ||

83.1८३.१

अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । (८३।१)

ahno muhūrtā vikhyātā daśa pañca ca sarvadā |

83.2८३.२

तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ (८३।२)

tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ ||

84.1८४.१

मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः । (८४।१)

madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ |

84.2८४.२

तस्मादनन्तफलदस्तदारम्भो विशिष्यते ॥ (८४।२)

tasmādanantaphaladastadārambho viśiṣyate ||

85.1८५.१

मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । (८५।१)

madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ |

85.2८५.२

रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ (८५।२)

rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ ||

86.1८६.१

पापं कुत्सितमित्याहुस्तस्य संतापकारिणः । (८६।१)

pāpaṃ kutsitamityāhustasya saṃtāpakāriṇaḥ |

86.2८६.२

अष्टाव् एते यतस्तस्मात्कुतपा इति विश्रुताः ॥ (८६।२)

aṣṭāv ete yatastasmātkutapā iti viśrutāḥ ||

87.1८७.१

ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् । (८७।१)

ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭayam |

87.2८७.२

मुहूर्तपञ्चकं चैतत्स्वधाभवनमिष्यते ॥ (८७।२)

muhūrtapañcakaṃ caitatsvadhābhavanamiṣyate ||

88.1८८.१

विष्णोर् देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा । (८८।१)

viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā |

88.2८८.२

श्राद्धस्य रक्षणायालमेतत्प्राहुर्दिवौकसः ॥ (८८।२)

śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ ||

89.1८९.१

तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः । (८९।१)

tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ |

89.2८९.२

सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते ॥ (८९।२)

sadarbhahastenaikena śrāddhamevaṃ viśiṣyate ||

90.1९०.१

श्राद्धसाधनकाले तु पाणिनैकेन दीयते । (९०।१)

śrāddhasādhanakāle tu pāṇinaikena dīyate |

90.2९०.२

तर्पणं तूभयेनैव विधिरेष सदा स्मृतः ॥ (९०।२)

tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ ||

91.1९१.१

सूत उवाच । (९१।१)

sūta uvāca

91.2९१.२

पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् । (९१।२)

puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam |

91.3९१.३

पुरा मलये न कथितं तीर्थश्राद्धानुकीर्तनम् ॥ (९१।३)

purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam ||

92.0९२.०

शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ॥ (९२।०)

śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ ||

93.1९३.१

श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः । (९३।१)

śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ |

93.2९३.२

सर्वपापोपशान्त्यर्थमलक्ष्मीनाशनं परम् ॥ (९३।२)

sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param ||

94.1९४.१

इदं पवित्रं यशसो निधानमिदं महापापहरं च पुंसाम् । (९४।१)

idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām |

94.2९४.२

ब्रह्मार्करुद्रैरपि पूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः ॥ (९४।२)

brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MPur, 22

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit