मत्स्यपुराणMatsyapurāṇa

MPur, 96

95 of 175 · 56 verses

Select a line for its word-by-word analysis.

1.1१.१

नन्दिकेश्वर उवाच । (१।१)

nandikeśvara uvāca

1.2१.२

फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद । (१।२)

phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada |

1.3१.३

यदक्षयं परं लोके सर्वकामफलप्रदम् ॥ (१।३)

yadakṣayaṃ paraṃ loke sarvakāmaphalapradam ||

2.1२.१

मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम् । (२।१)

mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam |

2.2२.२

द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा । (२।२)

dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā |

2.3२.३

आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ॥ (२।३)

ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam ||

3.1३.१

अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम । (३।१)

anyeṣvapi hi māseṣu puṇyeṣu munisattama |

3.2३.२

सदक्षिणं पायसेन भोजयेच्छक्तितो द्विजान् ॥ (३।२)

sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān ||

4.1४.१

अष्टादशानां धान्यानामन्यच्च फलमूलकम् । (४।१)

aṣṭādaśānāṃ dhānyānāmanyacca phalamūlakam |

4.2४.२

वर्जयेदब्दमेकं तु ऋते औषधकारणम् । (४।२)

varjayedabdamekaṃ tu ṛte auṣadhakāraṇam |

4.3४.३

सवृषं काञ्चनं रुद्रं धर्मराजं च कारयेत् ॥ (४।३)

savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet ||

5.1५.१

कूष्माण्डं मातुलिङ्गं च वार्ताकं पनसं तथा । (५।१)

kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā |

5.2५.२

आम्रातकं कपित्थानि कलिङ्गमथ वालुकम् ॥ (५।२)

āmrātakaṃ kapitthāni kaliṅgamatha vālukam ||

6.1६.१

श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम् । (६।१)

śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam |

6.2६.२

काश्मरं दाडिमं शक्त्या कालधौतानि षोडश ॥ (६।२)

kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa ||

7.1७.१

मूलकामलकं जम्बूतिन्तिडीकरमर्दकम् । (७।१)

mūlakāmalakaṃ jambūtintiḍīkaramardakam |

7.2७.२

कङ्कोलैलाकतुण्डीरकरीरकुटजं शमी ॥ (७।२)

kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī ||

8.1८.१

औदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम् । (८।१)

audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam |

8.2८.२

रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश ॥ (८।२)

raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa ||

9.1९.१

ताम्रं तालफलं कुर्यादगस्तिफलमेव च । (९।१)

tāmraṃ tālaphalaṃ kuryādagastiphalameva ca |

9.2९.२

पिण्डारकाश्मर्यफलं तथा सूरणकन्दकम् ॥ (९।२)

piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam ||

10.1१०.१

रक्तालुकाकन्दकं च कनकाह्वं च चिर्भिटम् । (१०।१)

raktālukākandakaṃ ca kanakāhvaṃ ca cirbhiṭam |

10.2१०.२

चित्रवल्लीफलं तद्वत्कूटशाल्मलिजं फलम् ॥ (१०।२)

citravallīphalaṃ tadvatkūṭaśālmalijaṃ phalam ||

11.1११.१

आम्रनिष्पावमधुकवटमुद्गपटोलकम् । (११।१)

āmraniṣpāvamadhukavaṭamudgapaṭolakam |

11.2११.२

ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः ॥ (११।२)

tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ ||

12.1१२.१

उदकुम्भद्वयं कुर्याद्धान्योपरि सवस्त्रकम् । (१२।१)

udakumbhadvayaṃ kuryāddhānyopari savastrakam |

12.2१२.२

ततश्च कारयेच्छय्यां यथोपरि सुवाससी ॥ (१२।२)

tataśca kārayecchayyāṃ yathopari suvāsasī ||

13.1१३.१

भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम् । (१३।१)

bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam |

13.2१३.२

धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने । (१३।२)

dhenvā sahaiva śāntāya viprāyātha kuṭumbine |

13.3१३.३

सपत्नीकाय सम्पूज्य पुण्येऽह्नि विनिवेदयेत् ॥ (१३।३)

sapatnīkāya sampūjya puṇye'hni vinivedayet ||

14.1१४.१

यथा फलेषु सर्वेषु वसन्त्यमरकोटयः । (१४।१)

yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ |

14.2१४.२

तथा सर्वफलत्यागव्रताद्भक्तिः शिवेऽस्तु मे ॥ (१४।२)

tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me ||

15.1१५.१

यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ । (१५।१)

yathā śivaśca dharmaśca sadānantaphalapradau |

15.2१५.२

तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ॥ (१५।२)

tadyuktaphaladānena tau syātāṃ me varapradau ||

16.1१६.१

यथा फलान्यनन्तानि शिवभक्तेषु सर्वदा । (१६।१)

yathā phalānyanantāni śivabhakteṣu sarvadā |

16.2१६.२

तथानन्तफलावाप्तिरस्तु जन्मनि जन्मनि ॥ (१६।२)

tathānantaphalāvāptirastu janmani janmani ||

17.1१७.१

यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान् । (१७।१)

yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān |

17.2१७.२

तथा ममास्तु विश्वात्मा शंकरः शंकरः सदा ॥ (१७।२)

tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā ||

18.1१८.१

इति दत्त्वा च तत्सर्वमलंकृत्य च भूषणैः । (१८।१)

iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ |

18.2१८.२

शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम् ॥ (१८।२)

śaktiścecchayanaṃ dadyātsarvopaskarasaṃyutam ||

19.1१९.१

अशक्तस्तु फलान्येव यथोक्तानि विधानतः । (१९।१)

aśaktastu phalānyeva yathoktāni vidhānataḥ |

19.2१९.२

तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ ॥ (१९।२)

tathodakumbhasaṃyuktau śivadharmau ca kāñcanau ||

20.1२०.१

विप्राय दत्त्वा भुञ्जीत वाग्यतस्तैलवर्जितम् । (२०।१)

viprāya dattvā bhuñjīta vāgyatastailavarjitam |

20.2२०.२

अन्यान्यपि यथाशक्त्या भोजयेच्छक्तितो द्विजान् ॥ (२०।२)

anyānyapi yathāśaktyā bhojayecchaktito dvijān ||

21.1२१.१

एतद्भागवतानां तु सौरवैष्णवयोगिनाम् । (२१।१)

etadbhāgavatānāṃ tu sauravaiṣṇavayoginām |

21.2२१.२

शुभं सर्वफलत्यागव्रतं वेदविदो विदुः ॥ (२१।२)

śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ ||

22.1२२.१

नारीभिश्च यथाशक्त्या कर्तव्यं द्विजपुंगव । (२२।१)

nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava |

22.2२२.२

एतस्मान्नापरं किंचिदिह लोके परत्र च । (२२।२)

etasmānnāparaṃ kiṃcidiha loke paratra ca |

22.3२२.३

व्रतमस्ति मुनिश्रेष्ठ यदनन्तफलप्रदम् ॥ (२२।३)

vratamasti muniśreṣṭha yadanantaphalapradam ||

23.1२३.१

सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः । (२३।१)

sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ |

23.2२३.२

भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम । (२३।२)

bhavanti cūrṇyamāneṣu phaleṣu munisattama |

23.3२३.३

तावद्युगसहस्राणि रुद्रलोके महीयते ॥ (२३।३)

tāvadyugasahasrāṇi rudraloke mahīyate ||

24.1२४.१

एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेषु च सर्वदा स्यात् । (२४।१)

etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeṣu ca sarvadā syāt |

24.2२४.२

जन्मान्तरेष्वपि न पुत्रवियोगदुःखमाप्नोति धाम च पुरंदरलोकजुष्टम् ॥ (२४।२)

janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam ||

25.1२५.१

यो वा शृणोति पुरुषो ऽल्पधनः पठेद्वा देवालयेषु भवनेषु च धार्मिकाणाम् । (२५।१)

yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām |

25.2२५.२

पापैर्वियुक्तवपुरत्र पुरं मुरारेरानन्दकृत्पदमुपैति मुनीन्द्र सोऽपि ॥ (२५।२)

pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi ||

Data courtesy of The Digital Corpus of Sanskrit.

MPur, 96

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit